| YouTube Channel

कायरूपसंयम (kAyarUpasaMyama)

 
वाचस्पत्यम्
Sanskrit
कायरूपसंयम
पु०
मात० सूत्राद्युक्ते ध्यानविशेषरूपे संयमभेदे तत्र सविस्तरं फलसहितो दर्शितो यथा ।“कायरूपसयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुप्रकाशासंयोगे-ऽन्तर्द्धानम्” सू० ।“कायरूपे संयमाद्रूपस्य या ग्राह्मा शक्तिस्तां प्रतिब-ध्नाति ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासंयोगेऽन्तर्धान-मुत्पद्यते योगिनः एतेन शब्दाद्यन्तर्द्धानमुक्तं वेदि-तव्यम्” व्यासभाष्य० ।“पञ्चात्मकः कायः रूपवत्तया चाक्षुषो भवतिरूपेण हि कायश्च तद्रूपञ्च चक्षुर्ग्रहणकर्मशक्तिमनुभवतितत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्यग्राह्यशक्तौ रूपवत्कायप्रत्यक्षताहेतुः स्तभ्यते तस्मात्ग्राह्यशक्तिस्तम्भे सत्यन्तर्द्धानयोगिनस्ततः परकीयचक्षुर्जनि-तेन प्रकाशेन ज्ञानेनासम्प्रयोगः चक्षुर्ज्ञानाविषयत्वं योगिनःकायस्यैवेति यावत् तस्मिन् कर्त्तव्येऽन्तर्द्धानं कारणमित्यर्थः ।एतेनेति कायशब्दस्पर्शरसगन्धसंयमात्तदुग्राह्यशक्तिस्तम्भेश्रोत्रत्वग्रसनघ्राक्षप्रकाशासम्प्रयोगेऽन्तर्द्धानमिति” विव०