| YouTube Channel

काम्यं (kAmyaM)

 
शब्दकल्पद्रुमः
Sanskrit
काम्यं, त्रि, (काम्यते इति कम् + णिच् + कर्म्मणियत् ।) कमनीयम् सुन्दरम् इति हेमचन्द्रः
(“काम्यानां स्वफलार्थञ्च दोषघातार्थमेव ।अतः काम्यं नैमित्तिकं प्रायश्चित्तमिति स्थितिः”
इति जावालः
) कामनायुक्तव्यक्तिः कर्त्तव्यकर्म्म ।यथा, मुग्धबोधटीकाकृद्रामतर्कवागीशधृता स्मृतिः“यत् किञ्चित् फलमुद्दिश्य यज्ञदानजपादिकम् ।क्रियते कायिकं यच्च तत्काम्यं परिकीर्त्तितम्”