| YouTube Channel

कामेश्वरी (kAmezvarI)

 
Monier Williams Cologne
English
कामेश्वरी (ई),
f.
N.
of a goddess
Apte Hindi
Hindi
कामेश्वरी
स्त्री*
कामः-ईश्वरी -
कामाक्षी जिसने शिव में कामोत्तेजना जगाने के लिए कामदेव का रूप धारण किया
Shabdartha Kaustubha
Kannada
कामेश्वरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದೇವಿಯ ಒಂದು ಮೂರ್ತಿ
प्रयोगाः - > "कामाख्या त्रिपुर चैव तथा कामेश्वरी शिवा सारदाऽथ महोत्साहा कामरूपगुणैर्युता ॥"
उल्लेखाः - > कालिकापु०
Wordnet
Sanskrit
Synonyms:
कामेश्वरी
noun
एका भैरवी।
"सः तान्त्रिकः कामेश्वरीम् उपासते।"
Synonyms:
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
noun
सा देवी यया नैके दैत्याः हताः तथा या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
कामेश्वरी,
स्त्री,
(काम्यन्ते इति कामा विषयास्तेषांभोग्यानां प्रदायित्वेन ईश्वरी ।) कामाख्यापञ्च-मूर्त्त्यन्तर्गतमूर्त्तिविशेषः यथा, --“देव्याश्चापि नरश्रेष्ठ ! पञ्च रूपाणि भैरव ! ।शृणु वेताल ! गुह्यानि देवैरपि सदैव हि
कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा ।मारदाथ महोत्साहा कामरूपगुणैर्युता”
इति कालिकापुराणे ६१ अध्यायः
*
अस्या मन्त्रं यथा, श्रीभगवानुवाच ।“देव्याः कामेश्वरीं मूर्त्तिं शृणु वक्ष्यामि भैरव ! ।यस्याश्चिन्तनमात्रेण साधको लमते प्रियान्
तन्त्रं तस्याः प्रथमतस्ततोऽनुध्यानगोचरम् ।ततः पूलाकृमं वक्ष्ये क्रमाद्वेतालभैरव !
प्रजापतिस्ततो वह्निरिन्द्रवीजं ततः परम्
चूडाचन्द्रार्द्धसहितं चतुर्थस्वरसंयुतम् ।इदं कामेश्वरीमन्त्रं सर्व्वकामार्थसाधनम्”
*
तस्या ध्यानं यथा, --“रूपन्तु चिन्तयेद्देव्याः कामेश्वर्य्या मनोहरम् ।प्रभिन्नाञ्जनसंकाशां नीलस्निग्धशिरोरुहाम्
षड्वक्त्रां द्वादशभुजां अष्टादशविलोचनाम् ।प्रत्येकं षट्सु शीर्षेषु चन्द्रार्द्धकृतशेखराम्
मणिमुक्तादिमाणिक्त्यकृतां मालामुरःस्थले ।कण्ठे बिभ्रतीं नित्यं सर्व्वालङ्कारमण्डिताम्
पुस्तकं सिद्धसूत्रञ्च पञ्चवाणवरं तथा ।खड्गं शक्तिञ्च शूलञ्च बिभ्रतीं दक्षिणैः करैः
अक्षमालां महापद्मं कोदण्डञ्चाभयं तथा ।चर्म्म पश्चात् पिनाकञ्च बिभ्रतीं वामपाणिभिः
शुक्लं रक्तञ्च पीतञ्च हरितं कृष्णमेव ।विचित्रं क्रमतः शीर्षं ऐशान्यां पूर्व्वमेव
दक्षिणं पश्चिमञ्चैव तथैवोत्तरशीर्षकम् ।मध्यञ्चेति महाभाग ! क्रमात् शीर्षाणि वर्णतः
शुक्लं माहेश्वरीवक्त्रं कामाख्यारक्तमुच्यते ।त्रिपुरापीतसंकाशं सारदाहरितं तथा
कृष्णं कामेश्वरीवक्त्रं चण्डायाश्चित्रमिष्यते ।धम्मिल्लसंयतकचं प्रतिशीर्षं प्रकीर्त्तितम् ।सिंहोपरिसितप्रेतं तस्मिँल्लोहितपङ्कजम् ।कामेश्वरी स्थिता तत्र ईषत्प्रहसितानना
विचित्रांशुकसंप्रीता व्याघ्रचर्म्माम्बरा तथा ।एवं कामेश्वरीं ध्यायेद्धर्म्मकामार्थसिद्धये”
इत्यादि कालिकापुराणे ६३ अध्यायः