| YouTube Channel

कामाग्निसन्दीपनमोदकं (kAmAgnisandIpanamodakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कामाग्निसन्दीपनमोदकं,
क्ली,
(सन्दीप्यते अनेनेतिसन्दीपनम् कामाग्नीनां सन्दीपनमुद्दीपकम् ।कामाग्निसन्दीपनञ्च तत् मोदकञ्चेति ।) औषध-विशेषः यथा, --“कर्षो रसो गन्धकमभ्रकञ्चद्विक्षारचित्रे लवणानि पञ्च ।शटी यमानीद्वयकीटहारितालीशपत्राण्यपरं द्विकर्षम्
जीरं चतुर्ज्जातलवङ्गजाती-फलञ्च कर्षत्रयमेवमन्यत् ।सवृद्धदारं कटुकत्रयञ्चतथा चतुःकर्षमितं निबोध
धन्याकयष्ठीमधुकं कशेरु-कर्षाः पृथक् पञ्च वरी विदारी ।वरेभकणेभबलात्मगुप्ता-वीजं तथा गोक्षुरवीजयुक्तम्
सवीजपत्रेन्द्ररजःसमानं-समासिता क्षौद्रघृतञ्च तुल्यम् ।कर्षैकमिन्दोरथमोदकं तत्कामाग्निसन्दीपनमेतदुक्तम्”
*
“वृष्यं ततः परतरं सततं दृष्ट-मेनं निषेव्य मनुजः प्रमदासहस्रम् ।गच्छन्न लिङ्गशिथिलत्वमवाप्नुयाच्चनागाधिपं विजयते बलतः प्रमत्तः
कान्त्या हुताशनमपि स्वरतो मयूरान्वाहं यवेन नयनेन महाविहङ्गम् ।बातानशीतिमथपित्तगदं समग्रंश्लेष्मोत्थविंशतिरुजः परमग्निमान्द्यम्
दुर्न्नामकामलभगन्दरपाण्डुरोग-मेहातिसारकृमिहृद्ग्रहणीप्रदोषान् ।कासज्वरश्वसनपीनसपार्श्वशूल-शूलाम्लपित्तसहितांश्चिरजान् समस्तान्
हत्वा गदानपि तत् पुनरपत्यकारिसर्व्वर्त्तुपथ्यमथ सर्व्वसुखप्रदायि ।वृष्यं बलीपलितहारि रसायनं स्यात्श्रीमूलदेवकथितं परमं प्रशस्तम्”
इति भैषज्यरत्नावली