| YouTube Channel

कामाग्निसन्दीपन (kAmAgnisandIpana)

 
वाचस्पत्यम्
Sanskrit
कामाग्निसन्दीपन
न०
भैषज्यरत्नावलीदर्शिते मोदकभेदे“कर्षोरसोगन्धकमभ्रकञ्च द्विक्षारचित्रे लवणानि पञ्च ।शठीयमानीद्वयकीटहारितालीशपत्राण्यपरं द्विकर्षम् ।जीरं चतुर्जातलवङ्गजातिफलञ्च कर्षत्रयमेवमन्यत् स-वृद्धदारं कटुकत्रयञ्च तथा चतुष्कर्षमितं निबोध धन्या-कयष्टीमधुकं कशेरु, कर्षाः पृथक् पञ्च वरी विदारी ।वीरेभकाणेभबलात्मगुप्तावीजं तथा गोक्षुरवीजयुक्तम् ।सवीजपत्रेन्द्ररजःसमानं समा सिता क्षौद्रघृतञ्च तुल्यम् ।कर्षैकमिन्दोरथ मोदकं तत् कामाग्निसन्दीपनमेतदुक्तम्” ।तद्गुणाश्च कामस्याग्नेश्च दीपकतादयस्तत्रोक्ता द्रष्टव्याः