कामाख्या (kAmAkhyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritकामाख्या, (कामयते भक्तानां कामं पूरयतियद्वा भक्तैः साधकैः काम्यतेऽसौ इति कामा ।कामा आख्या यस्याः ।) देवीविशेषः । तन्नाम-कारणं यथा ।श्रीभगवानुवाच ।“कामार्थमागता यस्मान्मया सार्द्धं महागिरौ ।कामाख्या प्रोच्यते देवी नीलकूठे रहोगता ॥
कामदा कामिनी कामा कान्ता कामाङ्गदायिनी ।कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते ॥
* ॥
तत्पीठकारणं यथा, --“अथ काले बहुतिद्ये व्यतीते प्राणिसर्ज्जने ।अगृह्णां दक्षतनयां भार्य्यार्थेऽहं बधूवराम् ॥
सा मेऽभूत् प्रेयसी भार्य्या प्रदाय समयं पितुः ।अनिष्टकारी त्वञ्चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् ॥
ततो यज्ञे समस्तन्तु स च वव्रे चराचरम् ।न मां नापि सतीं वव्रे तदनिष्टान्मृता तु सा ॥
ततो मोहसमापन्नस्तामादाय मृतामहम् ।प्राप्तः पीठवरं तन्तु भ्रममाण इतस्ततः ॥
तस्यास्त्वङ्गानि पर्य्यायात् पतितानि यतो यतः ।तत्तत् पुण्यतमं जातं योगनिद्राप्रभावतः ॥
तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् ।पतितं तत्र सा देवी महामाया व्यलीयत ॥
लीनायां योगनिद्रायां मयि पर्व्वतरूपिणि ।स नीलवर्णः शैलोऽभूत् पतिते योनिमण्डले ॥
स तु शैलो महातुङ्गः पातालतलमाविशत् ।तस्या आक्रमणाद्वाढं ततस्तं द्रुहिणोऽभ्ययात् ॥
स तु पूर्व्वं ब्रह्मशक्तिशिलां धर्त्तुं चतुमुखः ।शैलरूपोऽभवत्तेन शैलरूपेण मामधात् ॥
ब्रह्मा पर्व्वतरूपेण मयि पर्व्वतरूपिणि ।संसक्तोऽधोऽगमद्गाढमाक्रान्तो मायया विधेः ॥
ततो वराहः संसक्तो मयि मां स तु माधवः ।शैलरूपः शैलरूपं धर्तुं समुपचक्रमे ॥
सोऽप्यधोऽयान्मया सार्द्धं तदा पर्व्वतरूपिणा ।आक्रम्य देवीं पृथिवीं स्थितो भुवि निखातकः ॥
शतं शतं योजनानां तुङ्गमासीद्गिरित्रयम् ।तदाक्रान्तं महादेव्या सर्व्वमेव ह्यधोगतम् ॥
क्रोशमात्रे स्थितं तुङ्गं शेषं तत्त्रितयस्य तु ।एका समस्तजगतां प्रकृतिः सा यतस्ततः ॥
ब्रह्मविष्णुशिवैर्देवैर्धृता सा जगतां प्रसूः ।तत्र पूर्व्वो ब्रह्मशैलः श्वेत इत्युच्यते बुधैः ॥
मद्रूपधारी शैलस्तु नील इत्युच्यते तथा ।स तु मध्यगतः शैलस्त्रिकोणोदूखलाकृतिः ॥
विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः ।वराहः शैलरूपो यः स चित्र इति कथ्यते ॥
स सर्व्वेषां स्थितः पश्चात् दीर्घः सर्व्वेभ्य एव तु ।ऐशान्यां योऽभवत् कूर्म्मः शैलरूपो महाद्युतिः ॥
मणिकर्णः स नाम्ना तु ख्यातो देवौघसेवितः ।योऽनन्तरूपः शैलस्तु वायव्यां समवस्थितः ॥
मणिपर्व्वतसंज्ञोऽसौ पर्व्वतो माधवप्रियः ।महामायागिरिर्यस्त नैरृत्यां समवस्थितः ॥
स गन्धमादनो नाम्ना सर्व्वदा शङ्करप्रियः ।वराहपृष्ठभवने यत्र च्छिन्नौ महासुरौ ॥
हरिणा तत्र संजातः पुण्डुनाथ इति स्मृतः ।ब्रह्मशक्तिशिलायास्तु पूर्व्वभागे तु मध्यतः ॥
यस्तु पर्व्वतरूपोऽहं स तु भस्माचलाह्वयः ।एवं पुण्यतमे पीठे कुब्जिकापीठसंज्ञके ॥
नीलकूटे मया सार्द्धं देवी रहसि संस्थिता ।सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् ॥
शिलात्वमगमत् शैले कामाख्या तत्र संस्थिता ।संस्पृश्य तां शिलां मर्त्यो ह्यमर्त्यत्वमवाप्नुयात् ॥
अमर्त्यो ब्रह्मसदनं तत्स्थो मोक्षमवाप्नुयात् ।तस्याः शिलाया माहात्म्यं यत्र कामेश्वरी स्थिता ॥
अद्भूतं यस्य गुह्ये तु लोहं मस्म भवेद्गतम् ।सा चापि प्रत्यहं तत्र पञ्चमूर्त्तिधरा भवेत् ॥
मोहार्थं सर्व्वलोकानां ममापि प्रीतये शिवा ।अहं पञ्चमुखेनाशु पञ्चभागे व्यवस्थितः ॥
ईशानः पूर्व्वभागस्थः कामेश्वर्य्याः प्रधानतः ।ऐशान्यां तै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ ॥
सद्योजातोऽथ वायव्यां वामदेवस्तु सङ्गतः ।देव्याश्चापि नरश्रेष्ठ पञ्चरूपाणि भैरव ! ॥
शृणु वेताल ! गुह्यानि देवैरपि सदैव हि ।कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा ॥
सारदाथ महोत्साहा कामरूपगुणैर्युता ।मयि लिङ्गत्वमापन्ने शिलायां योनिमण्डले ॥
सर्व्वे शिलात्वमगमन् शैलरूपाश्च निर्ज्जराः ।यथाहं निजरूपेण रेमे वै सह कामया ॥
शिलारूपप्रतिच्छन्नास्तदा सर्व्वास्तु देवताः ।शिलारूपप्रतिच्छन्नाः शैले शैले व्यवस्थिताः ॥
रमन्ते च स्वरूपेण नित्यं रहसि सङ्गताः ।ब्रह्माविष्णुरहञ्चात्र दिक्पालाः सर्व्व एव ते ॥
अन्येऽप्यत्र स्थिता देवाः सानुकूलाः सदा मयि ।उपासितुं तदा देवीं कामाख्यां कामरूपिणीम् ॥
नीलशैलस्विकोणस्तु मध्ये निम्नः सदाशिवः ।तन्मध्ये मण्डलं चारु षष्टिशक्तिसमन्वितम् ॥
गुहा मनोभवा तत्र मनोभवविनिर्म्मिता ।योनिस्तस्यां शिलायान्तु शिलारूपा मनोहरा ॥
वितस्तिमात्रविस्तीर्णा एकविंशाङ्गुलायता ।क्रमसूक्ष्मविनिर्म्माणभस्मशैलानुगामिनी ॥
सिन्दूरकुङ्कुमारक्ता सर्व्वकामप्रदायिनी ।तस्यां योनौ पञ्चरूपा नित्यं तिष्ठति कामिनी ॥
महामाया जगद्धात्री मूलभूता सनातनी ।तत्राष्टौ योगिनीर्नित्यं मूलभूताः सनातनीः ॥
पूर्व्वोक्ताः शैलपुत्त्राद्याः स्थिता देव्याः समन्ततः ।तासान्तुपीठनामानि शृणु चैकत्र भैरव ! ॥
गुप्तकामा च श्रीकामा तथा च विन्ध्यवासिनी ।कटीश्वरी धनस्था तु पाददुर्गा तथापरा ॥
दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी ।स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः ॥
सर्व्वतीर्थानि चैकत्र जलरूपाणि भैरव ! ।स्थितानि नाम्ना सौभाग्या वरेण्या प्राणिपुण्यदा ॥
विष्णुस्तु तीरे तस्याः स नाम्ना कमल इत्युत ।कामुकायास्तु वटुकः कामाख्याभ्यर्णसंस्थितः ॥
लक्ष्मीः सरस्वती देव्यौ देव्या अङ्गे व्यवस्थिते ।ललिताख्याऽभवल्लक्ष्मीर्मातङ्गी तु सरस्वती ॥
गणाध्यक्षः पूर्व्वभांगे तस्य शैलस्य संस्थितः ।सिद्धः स नाम्ना विख्यातो द्वारि देव्याः प्रियः सुतः ॥
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता ।भूतास्तस्मिन्महाशैले स्थिते देव्या धृतप्रिये ॥
वराहः पाण्डनाथाख्यः स्थितस्तत्र हरिर्यतः ।जघने शिरसी कृत्वा जघान मधुकैटभौ ॥
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्म्मितं पुरा ।ईशानाख्यं शिरोरत्नं तत् सिद्धेश्वरसंज्ञकम् ॥
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव ! ।तस्यासन्न गयाक्षेत्रं क्षेत्रं वाराणसी तथा ॥
योनिमण्डलसङ्काशं कुण्डं भूत्वा व्यवस्थितम् ।तत्रैवामृतकुण्डन्तु सुधासंघप्रपूरितम् ॥
मम प्रियार्थमिन्द्रेण स्थापितं सह निर्ज्जरैः ।वामदेवाह्वयं शीर्षं श्रीकामेश्वरसंज्ञकम् ॥
कामकुण्डं महापुण्यं तस्यासन्ने व्यवस्थितम् ।केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः ॥
दीर्घं चतुर्द्दशव्यामं छायाच्छत्राह्वयं तु तत् ।तस्यासन्ने शैलपुत्त्री गुप्तकामाह्वया तु सा ॥
गुप्तकुण्डस्य मध्यस्था कामेशग्राब्णि सङ्गता ।कामेश्वरशिलासक्ता कामाख्यासंज्ञिता सदा ॥
पूर्व्वभागेन संसक्ता योनेस्तु परभागतः ।कामकामाख्ययोर्म्मध्ये कालरात्रिर्व्यवस्थिता ॥
पीठे दीर्घेश्वरी नाम्ना सीमाभागे प्रचण्डिका ।कामाख्या प्रस्तरप्रान्ते कुष्माण्डी नाम योगिनी ॥
पीठे कोटीश्वरी नाम्ना योनिरूपेण संस्थिता ।यच्चाघोराह्वयं शीर्षं तत् कामायास्तु दक्षिणे ॥
पीठे भैरवनामा तु गीयते परमार्थिभिः ।चामुण्डाभैरवी नाम्ना भैरवासन्नसंस्थिता ॥
नायिका कामदा भक्ते चण्डमुण्डविनाशिनी ।कामाभैरवयोर्म्मध्ये स्वयं देवी सुरापगा ॥
हिताय सर्व्वजगतां देव्यास्तु प्रीतये स्थिता ।सद्योजाताह्वयं शीर्षं पीठे त्वाम्रातकेश्वरम् ॥
भैरवाख्ये गह्वरे तु स्थितं देवर्षिसेवितम् ।विद्धि तत्रैव दुर्गाख्यां नायिकां योगरूपिणीम् ॥
सिद्धकामेश्वरी नाम्ना ख्याता देवेषु नित्यशः ।अजीर्णपत्रः सुच्छायो वृक्षस्तत्र तु संस्थितः ॥
आम्रातकः कल्पवृक्षः कल्पवल्लीसमन्वितः ।पीठे तु सिद्धगङ्गाख्या स्वयं गङ्गा समुत्थिता ॥
आम्रातकस्य निकटे मम प्रीतिविवृद्धये ।पुष्कराख्यन्तु तत् क्षेत्रं पीठे त्वाम्रातकाह्वयम् ॥
ऐशान्यां तत्पुरूषाख्यं मम शीर्षं व्यवस्थितम् ।भुवनेश्वरनाम्ना तु पीठे ख्यातञ्च भैरव ! ॥
गह्वरं भुवनेशस्य भुवनानन्दसंज्ञकम् ।तस्यासन्ने तु सुरभिः शिलारूपेण संस्थिता ॥
कामधेनुरिति ख्याता पीठे कामप्रदायिनी ।योऽसौ सरभमूर्त्तिर्म्मे मध्यखण्डः प्रचण्डकः ॥
महाभैरवनामाभूत् कोटिलिङ्गाह्वयस्तु सः ।मूर्त्तिभिः पञ्चभिः पञ्चभागेषु सममास्थितः ॥
अहं पश्चादतिप्रीत्या भैरवाख्यः स्थितोऽधरे ।महागौरी तु या देवी योगिनी सिद्धरूपिणी ॥
सा ब्रह्मपर्व्वते चास्ते शिलारूपेण चोर्द्ध्वतः ।अतीवरूपसम्पन्ना नाम्ना सा भुवनेश्वरी ॥
यत्र ब्रह्मा तु संसक्तो मयि पर्व्वतरूपिणि ।कल्पवल्ली तु तत्रास्ते नाम्ना सा त्वपराजिता ॥
कामधेनोरदूरस्था पूर्व्वभागे महेश्वरी ।श्रीकामाख्या योनिरूपा चण्डिका सा तुयोगिनी ॥
आग्नेय्यां विद्धि तां संस्थां सर्व्वकामप्रदां शुभाम् ।योगिनी चण्डघण्टाख्या पीठेऽभूत् विन्ध्यवासिनी ॥
योगिनी स्कन्दमाता तत्पीठेऽभूद्वनवासिनी ।कात्यायनी पीठनाम्ना पाददुर्गेति गद्यते ॥
नैरृत्यां नीलशैलस्य प्रान्ते सा संस्थिता शिवा ।योऽसौ नन्दी मम तनुः स तु पाषाणरूपधृक् ॥
संस्थितः पश्चिमद्वारि हनूमान् पीठनामतः” ॥
* ॥
श्रीऔर्व्व उवाच ।“इति तस्य वचः श्रुत्वा शम्भोरमिततेजसः ।भैरवस्तं तु पप्रच्छ वेतालोऽपि समुत्सुकः” ॥
श्रीवेतालभैरवावूचतुः ।“श्रुतः पीठक्रमस्तात देव्याः पूजाक्रमन्ततः ।श्रोतुमिच्छामि मूर्त्तीनां पञ्चानामपि शङ्कर ! ॥
रूपाणि पञ्चमूर्त्तीनां मन्त्राणि च समन्ततः ।तथा यन्त्राणि तन्त्राणि वद नौ वृषभध्वज !” ॥
ईश्वर उवाच ।“शृणु वक्ष्यामि वेताल मन्त्रं तन्त्रं पृथक् पृथक् ।कामाख्यापञ्चमूर्त्तीनां रूपं कल्पञ्च भैरव ! ॥
कामस्थं काममध्यस्थं कामदेवपुटीकृतम् ।कामेन कमयेत् कामी कामं कामे नियोजयेत् ॥
ज्येष्ठन्तु व्यञ्जनं ब्रह्म न परः शान्त उच्यते ।प्रथमं क्रमतः कुर्य्यात् तत्संसक्तं सुधामयम् ॥
प्रजापतिस्तथा शक्रवीजसंस्थादिसंयुतम् ।चन्द्रार्द्धसहितं वीजं कामाख्यायाः प्रचक्षते ॥
इदं धर्म्मप्रदं काममोक्षार्थानां प्रदायकम् ।इदं रहस्यं परममन्यत्र तु सुदुर्ल्लभम् ॥
श्रोत्रेणेदं यः शृणुयाद्गुरुवक्त्रान्नरोत्तमः ।स कामानखिलान् प्राप्य शिवलोके महीयते ॥
* ॥
“श्रुतिसकलितसारं देवकण्ठौधहारंसकलकलुषहारि श्रीधरामर्त्यकारि ।सुनयशुभयशोभिर्योजयेद्यत्तु गोभि-स्तदिह शिवसमस्तं विघ्नधर्म्माङ्गितास्तम् ॥
नयनकलितकारि ध्यानिनां दत्तपारिप्रणयसुनयसंस्थं देवसत्यादिकस्थम् ।परमपदविशीर्णं शुद्धदौर्भाग्यजीर्णंशृणु शिवपदरूपं कामदेव्याः स्वरूपम् ॥
श्रवणगमनमात्रान्मार्गितं यस्य नामप्रभवति बहुभूत्यै नीतिमार्गैकधाम ।सुरगणगणसंधा कुण्डली यस्य शक्ति-स्तदिह परमरूपं चिन्तनीयं कृतीशैः ॥
रविशशियुतकर्णा कुङ्कुमापीतवर्णामणिकनकविचित्रा लोलकर्णा त्रिनेत्रा ।अभयवरदहस्ता साक्षसूत्रप्रशस्ताप्रणतसुरवरेशा सिद्धकामेश्वरी सा ॥
अरुणकमलसंस्था रक्तपद्मासनस्थानवतरुणशरीरा मुक्तकेशी सुहारा ।शवहृदि पृथुतुङ्गस्तन्ययुग्मा मनोज्ञाशिशुरविसमवस्त्रा सिद्धकामेश्वरी सा ॥
विपुलविभवदात्री स्मेरवक्त्रा सुकेशीदलितकरकदन्ता सासिचन्द्रावनम्रा ।मनसिजदृशदिस्था योनिमुद्रां लषन्तीपवनचलनशक्ता संश्रुतस्थानभागा ॥
चिन्त्या चैवं विद्युदग्निप्रकाशाधर्म्मार्थाद्यैः साधिता वाञ्छितार्थैः ।कल्पं तन्त्रं शृण्विदं सम्यगर्थंवेतालत्वं भैरवत्वं प्रतिष्ठम् ॥
तस्मिन्नाद्यं मण्डलं विद्धि पश्चात्कार्य्यं तद्वै चन्दनैः पुष्पगन्धैः ।तत्पर्य्यायो लेखने पूर्व्वमुक्तोदेवीतन्त्रे सोऽत्र पूर्व्वं विधेयः” ॥
इति श्रीकालिकापुराणे ६१ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकामाख्या स्त्री सतीदेव्या १ योनिपीठरूपे स्थाने २ तदधिष्ठात्र्यांदेव्याञ्च । तन्नामनिरुक्ति ५ दुर्भावादि कालि० ६१ अ०दर्शितं यथा“श्रीभगवानुवाच । कामार्ष्टमागता यस्मान्मया सार्द्धंमहागिरौ । कामाख्या प्रोच्यते देवी नीलकूटे रहोगता ।कामदा कमिनी कामा कान्ता कामाङ्गदायिनी । कामाङ्ग-नाशिनी यस्मात् कामाख्या तेन चोच्यते । तत्पीठ-कारणमुक्तं तत्रैव । “अथ काले बहुतिथे व्यतीते प्राणिस-र्ज्जने । अगृह्णां दक्षतनयां, भार्य्यार्थेऽहं बधूवराम् । सामेऽभूत् प्रेयसी भार्य्या, प्रदाय समयं पितुः । अनिष्टकारीत्वञ्चेत् स्याः, प्राणांस्त्यक्ष्ये तदा त्वहं । ततो यज्ञे समस्तन्तुस च वब्रे चराचरम् । न मां नापि सतीं वब्रे तदनिष्टा-न्मृता तु सा । ततो मोहसमापन्नस्तामादाय मृतानहम् ।प्राप्तपीठवरं तन्तु भ्रममाण इतस्ततः । तस्यास्त्वङ्गानि-पर्य्यायात् पतितानि यतो यतः । तत्तत् पुण्यतमं जातंयोगनिन्द्राप्रभावतः । तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् । पतितं, तत्र सा देवी महामाया व्यलीयत ।लीनायां योगनिद्रायां मयि पर्व्वतरूपिणि । स नीलवर्णःशैलोऽभूत् पतिते योनिमण्डले । स तु शैलो महातुङ्गःपातालतलमाविशत् । तस्या आक्रमणाद्गाढं ततस्तंद्रुहिणोऽभ्ययात् । स तु पूर्व्वं ब्रह्मशक्तिशिलां धर्त्तुंचतुर्मुखः । शैलरूपोऽभवत्तेन शैलरूपेण मामधात्ब्रह्मा पर्व्वतरूपेण मयि पर्व्वतरूपिणि । संसंक्तोऽधोऽगमद्गाढमाक्रान्तो मायया विधिः । ततो वराहः ससक्तोमयि मां स तु माधवः । शैलरूपः शैलरूपं धर्त्तुं समु-पचक्रमे । सोऽप्यधोऽगान्मया सार्द्धं तदा पर्व्वतरूपिणा ।आक्रम्य देवीं पृथिवीं स्थितो भुवि निखातकः । शतंशतं योजनानां तुङ्गमासीद्गिरित्रयम् । तदाक्रान्तं महा-देव्या सर्व्वमेव ह्यधोगतम् । क्रोशमात्रे स्थितं तुङ्गं शेषंतत्त्रियस्य तु । एका समस्तजगतां प्रकृतिः सा यतस्ततः ।ब्रह्मविष्णुशिवैदेवैर्धृता सा जगतां प्रसूः । तत्र पूर्व्वोब्रह्मशैलः श्वेत इत्युच्यते बुधैः । मद्रूपधारी शैलस्तुनील इत्युच्यते तथा । स तु मध्यगतः शैलस्त्रिकोणो-दूखलाकृतिः । विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः ।वराहः शैलरूपो यः स चित्र इति कथ्यते । स सर्व्वेषांस्थितः पश्चात् दीर्घः सर्वेभ्य एव तु । ऐशान्यां योऽ-भवत् कूर्म्मः शैलरूपो महाद्युतिः । मणिकर्णः सनाम्ना तु ख्यातो देवौघसेवितः । योऽनन्तरूपः शैलस्तुवायव्यां समवस्थितः । मणिपर्व्वतसंज्ञोऽसौ पर्वतोमाधवप्रियः । महामायागिरिर्यस्तु नैरृत्यां समवस्थितः ।स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः । वराहपृष्ठभवनेयत्र छिन्नौ महासुरौ (मधुकैटभौ) । हरिणा तत्र संजातःप्राण्डुनाथ इति स्मृतः । ब्रह्मशक्तिशिलायास्तु पूर्व्व-भागे तु मध्यतः । यस्तु पर्वतरूपोऽहं स तु भस्माचला-ह्वयः । पुण्यकूटे मया सार्द्धं देवी रहसि संस्थिता ।सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् । शिला-त्वमगमत शैले कामाख्या तत्र संस्थिता । संस्पृश्य तांशिलां मर्त्यो ह्यमर्त्यत्वमवाप्नुयात् । तस्याः शिलायामाहात्म्यात् यत्र कामेश्वरी स्थिता । अद्भुतं यस्य गुह्येतु लोहं भस्म भवेद्गतम् । सा चाप्रि प्रत्यहं पुत्र! पञ्च-मूर्त्तिधरा भवेत् । मोहार्थं सर्वलोकानां ममापि प्रीतयेशिवा । अह पञ्चमुखेनाश पञ्चभागे व्यवस्थितः ।ईशानः पूर्व्वभागस्थः कामेश्वर्य्याः प्रधानतः । ऐशान्यांवै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ । सद्योजातोऽथ वायव्यां वामदेवस्तु सङ्गतः । देव्याश्चापि सुरश्रेष्ठ! पञ्चरूपाणिभैरव! । शृणु वेताल! गुह्यानि देवैरपि सदैव हि ।कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा । सार-दाऽथ महोत्साहा कामरूपगुणैर्युता । मयि लिङ्गत्वमा-पन्ने शिलायां योनिमण्डले । सर्वे शिलात्वमगमन् शैल-रूपाश्च निर्ज्जराः । यथाहं निजरूपेण रेमे वै सहसायया । तिलारूपप्रतिच्छन्नास्तदा सर्वास्तु देवताः ।शिलारूपप्रतिच्छन्नाः शैले शैवे व्यवस्थिता । रमन्ते चस्वरूपेण नित्यं रहसि सङ्गताः । ब्रह्मा विष्णुरहञ्चात्रदिक्पालाः सर्व एव ते । अन्येऽप्यत्र स्थिता देवाः सानु-कूलाः सदा मयि । उपासितुं तदा देवीं कामाख्यांकामरूपिणीम् । नीलशैलस्त्रिकोणस्तु मध्ये निम्नः सदा-शिवः । तन्मध्ये मण्डलं चारु षष्टिशक्तिसमन्वितम् ।गुहा मनोभवा तत्र मनोभवविनिर्म्मिता । योनिस्तस्यांशिलायान्तु शिलारूपा मनोहरा । वितस्तिमात्रविस्तीर्ण्णाएकविंशाङ्गुलायता । क्रमसूक्ष्मविनिर्म्माणभस्मशैलानु-गामिनी । सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी । तस्यांयोनौ पञ्चरूपा नित्यं तिष्ठति कामिनी । महामायाजगद्धात्री मूलभूता सनातनी । तत्राष्टौ योगिनीर्नित्यंसूलभूताः सनातनीः । पूर्व्वोक्ताः शैलपुत्राद्याः स्थितादेव्याः समन्ततः । तासान्तु पीठनामानि शृणु चैकत्र भैरव! ।गुप्तकामा १ च श्रीकामा २ तथा च विन्ध्यवासिनी ३ ।कोटीश्वरी ४ धनस्था ५ तु पाददुर्गा ६ तथापरा । दीर्घे-श्वरी ७ क्रमादेव प्रकटा भुवनेश्वरी ८ स्वयोगिन्यः पोठ-नाम्ना ख्याता अष्टौ च देवताः । सर्वतीर्थानि चैकत्र जल-रूपाणि भैरव! । स्थितानि नाम्ना सौभाग्या वरेण्याप्राणिपुण्यदा । विष्णुस्तु तीरे तस्याः स नाम्ना कमलइत्युत । कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः ।लक्ष्मीः सरस्वती देव्यौ देव्या अङ्गे व्यवस्थिते । ललि-ताख्याऽभवल्लक्ष्मीर्म्मातङ्गी तु सरस्वती । गणाध्यक्षः पूर्बभागेतस्य शैलस्य संस्थितः । सिद्धः स नाम्ना विख्यातो द्वारिदेव्याः प्रियः सुतः । कल्पवृक्षः कल्पबल्ली तिन्तिडी चा-पराजिता । भूतास्तस्मिन्महाशैले स्थिते देव्या धृतप्रिये ।वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरिर्यतः । जघनेशिरसी कृत्वा जघान मधुवैटभौ । तस्यासन्ने ब्रह्मकुण्डंब्रह्मणा निर्म्मितं पुरा । ईशानाख्यं शिरोरत्नं तत्सिद्धेश्वरसंज्ञकम् । शिलारूलं सिद्धकुण्डं मध्यस्थं विद्धिभैरव! । तस्यासन्ने गयाक्षेत्रं क्षेत्रं वाराणसी तथा” ।“योनिमण्डलसङ्काशं कुण्डं भूत्वा व्यवस्थितम् ।तत्रैवामृतकुण्डन्तु सुधासंघप्रपूरितम् । मम प्रियार्थ-मिन्द्रेण स्थापितं सह निर्ज्जरैः । वामदेवाह्वयं शीर्षंश्रीकामेश्वरसंज्ञकम् । कामकुण्डं महापुण्यं तस्यासन्नेव्यवस्थितम् । केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः ।दीर्घं चतुर्द्दशव्यामं छायाच्छत्राह्वयं तु तत् । तस्यासन्नेशैलपुत्री गुप्तकामाह्वया तु सा । गुप्तकुण्डस्य मध्यम्थाकामेशग्राव्णि सङ्गता । कामेश्वरशिलासक्ता लामाख्या-सज्ञिता सदा । पूर्व्वभागेण संसक्ता योनेस्तु परभागतः ।कामकामाख्ययोर्म्मध्ये कालरात्रिर्व्यवस्थिता । पीठेदीर्घेश्वरी नाम्ना सीमाभागे प्रचण्डिका । कामाख्या-प्रस्तरप्रान्ते कुष्माण्डी नाम योगिनी । पीठे कोटीश्वरीनाम्ना योनिरूपेण संस्थिता । यच्चाघोराह्वयं शीर्षंतत् कामायास्तु दक्षिणे । पीठे भैरवनामा तु गीयतेपरमर्षिभिः । चामुण्डाभैरवी नाम्ना भैरवासन्नसं-स्थिता । नायिका कामदा भक्ते, चण्डमुण्डविनाशिनी ।कामाभैरवयोर्म्मध्ये स्वयं देवी सुरापगा । हिताय सर्व्व-जगतां देव्यास्तु प्रीतये स्थिता । सद्योजाताह्वयं शीर्षंपीठे त्वाम्रातकेश्वरम् । भैरवाख्ये गह्वरे तु स्थितं देव-र्षिसेवितम् । विद्धि तत्रैव दुर्गाख्यां नायिकां योगरूपि-णोम् । सिद्धकामेश्वरीं नाम्ना ख्यातां देवेषु नित्यशः ।अजीर्णपत्रः सुच्छायो वृक्षस्तत्र तु संस्थितः । आम्रा-तकः कल्पवृक्षः कल्पवल्लीसमन्वितः । पीठे तु सिद्धगङ्गाख्यास्वयं गङ्गा समुत्थिता । आम्रातकस्य निकटे मम प्रीति-विवृद्धये । पुष्कराख्यन्तु तत् क्षेत्रं पीठे त्वाम्रातका-ह्वयम् । ऐशान्यां तत्पुरुषाख्यं मम शीर्षं व्यवस्थितम् ।भुवनेश्वरनाम्ना तु पीठे ख्यातञ्च भैरव! । गह्वरं भुव-नेशस्य भुवनानन्दसंज्ञकम् । तस्यासन्ने तु सुरभिःशिलारूपेण संस्थिता । कामधेनुरिति ख्याता पीठेकामप्रदायिनी । योऽसौ सरभमूर्त्तिस्तु मध्यखण्डप्रच-ण्डकः । चण्डभेरवनामाऽभूत् कोटिलिङ्गाह्वयस्तु सः ।मूर्त्तिभिः पञ्चभिः पञ्चभागेष सममास्थितः । अहं पश्चा-दतिप्रीत्या भैरवाख्यः स्थितोऽधरे । महागौरी तु यादेवी योगिनी सिद्धरूपिणी । सा ब्रह्मपर्वते चास्तेशिलारूपेण चोर्द्धतः । अतीवरूपसम्पन्ना नाम्ना सात्वपराजिता । कामधेनोरदूरस्था पूर्व्वभागे महेश्वरी ।श्रीकामाख्या योनिरूपा चण्डिका सा तु योगिनी ।आग्नेय्यां विद्धि तां संस्थां सर्व्वकामप्रदां शुभाम् ।योगिनी चण्डघण्टाख्या पीठेऽभूत् विन्ध्यवासिनी ।योगिनी स्कन्दमाता तत्पीठेऽभूद्वनवासिनी । कात्या-यनीपीठनाम्ना पाददुर्गेति गद्यते । नैरृत्यां नीलशैलस्यप्रान्ते सा संस्थिता शिवा । योऽसौ नन्दी मम तनुः सतु पाषाणरूपधृक् । संस्थितः पश्चिमद्वारि हनूमान्पाठनामतः” ।क्षेत्रपरत्वमप्युक्तं देवीगीतायाम् यथा “श्रीमत् त्रिपुरभै-रव्याः कामाख्या योनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् । नातःपरतरं स्थानं क्वचिदस्ति धरा-तले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला । तत्रत्याःदेवताः सर्व्वोः पर्व्वतात्मकतां गताः । पर्व्वतेषु वसन्त्येवमहत्यो देवता अपि । तत्रत्या पृथिवी सर्व्वा देवीरूपास्मृता बुधैः । नातःपरतरं स्थानं कामाख्यायोनि-मण्डलात्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
