| YouTube Channel

कामस्तुति (kAmastuti)

 
Shabdartha Kaustubha
Kannada
कामस्तुति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಮವನ್ನು ಸ್ತೋತ್ರ ಮಾಡುವ ಒಂದು ಮಂತ್ರ /ದಾನಿಯು ಕೊಟ್ಟ ದಾನವನ್ನು ಪ್ರತಿಗ್ರಹಿಸುವ ದೋಷಪರಿಹಾರಕ್ಕಾಗಿ ಹೇಳುವ ಯಜುರ್ವೇದದ ಒಂದು ಮಂತ್ರ
व्युत्पत्तिः - > कामस्य स्तुतिः
वाचस्पत्यम्
Sanskrit
कामस्तुति स्त्री त० प्रतिग्रहदोषापनुत्तये प्रतिग्रहीत्रा-पाठ्ये कामस्य स्तुतिरूपे मन्त्रभेदे मन्त्रः “कोऽदात्?कस्माअदात्? कामोऽदात् कामायादात् कामोदाता कामःप्रतिग्रहीता कामैतत्ते” यजु० ४८ यथाचास्यप्रतिग्रहदोषाभावज्ञापकत्वम् तथाऽस्य मन्त्रस्य व्याख्याने-न वेददीपे दर्शितम् यथा “दातुर्दानाभिमानाभावायस्वस्य प्रतिग्रहदोषाभावाय देहेन्द्रियसघात् कामं विवि-नक्ति कोऽदादिति कोनरोऽदात्? दत्तवान् कस्मैनरायादात्? प्रश्नद्वयस्योत्तरमाह कामोऽदात् कामा-यैवादात् त्वं दाता नाहं प्रतिग्रहीता त्वत्कामा-भिमानी देवो मत्कामाभिमानिनेऽदात् एवञ्च कामएवदाता कामएव प्रतिग्रहीता नान्यः हे काम! एतद्द्रव्यं ते तव दातृप्रतिग्रहीतृत्वात्” अय भावः तत्तत्फलकामनयव दात्रा तत्तद्द्रव्याणां दानात् स्वाभीष्टसिद्धयेच प्रतिग्रहीत्रा तेषां ग्रहणात कामाभिमानिनी देवस्यैवदानप्रतिग्रहयोः प्रयोजकत्वात् द्रव्यस्वामित्वं कामदेवस्यैवेतिन प्रतिग्रहीतुरिति उक्तमन्त्रपाठे प्रतिग्रहदोषः इति ।अतएव “प्रतिग्रहजदोषस्य शान्त्यै कामस्तुतिं पठेत्”स्मृतौ तत्पाठोविहितः