| YouTube Channel

कामशक्ति (kAmazakti)

 
वाचस्पत्यम्
Sanskrit
कामशक्ति स्त्री कामस्य शक्तिर्नायिकाभेदः पदार्था-दर्शे राघवभट्टोक्ते कामदेवपत्नीभेदे सा पञ्चाशद्विधायथा “रतिः प्रीतिः कामिनी ३, मोहिनी ४कमलप्रिया विलासिनी कल्पलता ७, श्यामलाच शुचिस्मिता विस्मिताक्षी १० विशालाक्षी ११, लेलिहाना १२ दिगम्बरा १३ वामा १४ कुब्जा १५धरा १६ नित्या १७, कल्याणी १८ मोहिनी १९ तथा ।सुलोचना २० सुलावण्या २१, तथैव विमर्द्दिनी २२ ।कलहप्रिया २३ चेकाक्षी २४, सुमुखी २५ नलिनी २६तथा जटिला २७ पालिनो २८ चेव शिवा २९ मुग्धा ३०रसा ३१ भ्रमा ३२ चारुलोला ३३ चञ्चला ३४च, दीर्घजिह्वा ३५ रतिप्रिया ३६ लोलाक्षी ३७भृङ्गिणी ३८ चैव० पाटला ३९ मादिनी ४० तथा ।माला ४३ हंसिनी ४२ विश्वतोमुखी ४३ नन्दिनी ४४तथा राञ्जनी तथा कान्तिः ४६ कलकण्ठी ४७वृकोदरा ४८ मेघश्यामा ४० रुषोन्मत्ता ५०, एवंपञ्चाशदीरिताः शक्तयः कुङ्कुमनिभाः सर्व्वाभरण-भूषिताः नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्पलक्षमाः”इति तन्त्रसारे कामरतिन्यासे पञ्चाशद्वर्ण्णात्मकमातृ-काया एकैकवर्ण्णयोगेन कामशबददर्शितानां पञ्चाशतःकामानां योगेन एतासां न्यासोऽभिहितः तत्र-नाममात्रे क्वचिद्भोदोऽस्ति “पञ्चाशद्वर्ण्णगुणितापञ्चाशद्वर्ण्णमालिकाम् सूते तद्वर्ण्णतोभिन्नां तथा रुद्रा-दिकान् क्रमादिति” शा० ति० पद्यव्या० राघवभट्टेनआदिपदेन पञ्चाशत्कामास्तच्छक्तयश्च ग्राह्या इति कीर्त्त-णात् पञ्चाशदेव कामशक्तयः अतः शब्दकल्पद्रुमेकामशब्दे रतिभेदस्यैकपञ्चाशत्त्व यत् प्रतिज्ञातं तत्-प्रामादिकमेव किञ्च एकपञ्चाशत्कामशक्तयो रतिशब्देद्रष्टव्या इत्युक्तिरापि प्रतिज्ञामात्रं रतिशब्दे तत्र तन्नामा-नुल्लेखनात् पञ्चाशत्कामानामेकपञ्चाशत् शक्तयोऽ-ऽनुपपन्ना एवेति बोध्यम्