| YouTube Channel

कामला (kAmalA)

 
Monier Williams Cologne
English
कामला
f.
N.
of an Apsaras,
L.
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
56,
पादेऽक्षराणि-
14
मात्राः - 20
सङ्ख्याजातिः - शक्वरी
मात्रा-विन्यासः
दा दा दा दा दा दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Apte Hindi
Hindi
कामला
स्त्री*
- कम्+णिङ्+कलच्+टाप्
केले का पौधा
Shabdartha Kaustubha
Kannada
कामल - कामला
पदविभागः - > पुल्लिङ्गः /स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಮಾಲೆ ರೋಗ
L R Vaidya
English
kAmala {% (I) a. (f. ला) %} Lustful.
Wordnet
Sanskrit
Synonyms:
पाण्डुः, पाण्डुरोगः, पाण्डुरः, कामला, कुम्भकामला, हलीमकम्, नागभेदः, श्वेतहस्ती, सितवर्णः
noun
व्याधिविशेषः यस्मिन् रक्ते पित्तवर्णकस्य आधिक्यात् त्वङ्नेत्रादयः पीताः भवन्ति।
"पाण्डुरोगो गरिष्ठोपि भवेद्धातुक्षयङ्करः।"
शब्दकल्पद्रुमः
Sanskrit
कामला,
स्त्री,
पुं,
(कामल + टाप् ।) खनामख्यात-रोगः अथ पाण्डुरोगभेदस्य कामलाया निदान-पूर्व्विकां संप्राप्तिमाह ।“पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते ।तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते”
पित्तं कर्तृ दग्ध्वा संदूष्य रोगाय कामला-रूपाय पाण्डुरोगिण एवातिशयितपित्तलसेवयाकामला भवति नायं नियमः किन्तु कामलास्वतन्त्रापि भवति यथा राजयक्ष्मा कासादुपे-क्षिताद्भवति नायं नियमः किन्तु राजयक्ष्मास्वतन्त्रापि भवति तद्वदेषापि
*
कामलाया लक्षणमाह ।“हारिद्रनेत्रः सुभृशं हारिद्रत्वङ्नखाननः ।पीतरक्तशकृन्मूत्रो भेकवर्णो हतेन्द्रियः
दाहाविपाकदौर्ब्बल्यसदनारुचिकर्षितः”
हारिद्रं हरिद्रावर्णम् पीतरक्तशकृन्मुत्रः पीतेरक्ते वा शकृन्मूत्रे यस्य सः भेकवर्णः वृहद्भेक-वर्णः तस्या भेदावाह “कामला बहुपित्तैषाकोष्ठशाखाश्रया मता” एषा कोष्ठाश्रया अपराशाखाश्रया तत्र कोष्ठकामलामाह “कालान्त-रात् खरीमूता कृच्छ्रा स्यात् कुम्भकामला” ।कालान्तरात् खरीभूता अतिरूक्षीकृतसर्व्वधातुः ।कुम्भकामला कोष्ठकामलेत्यर्थः सा कृच्छ्रा कष्ट-साध्या
*
कुम्भकामलिनोऽरिष्टलक्षणमाह
“छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः ।नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली”
उभयोरपि कामलयोररिष्टलक्षणमाह ।“कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः ।सरक्ताक्षिमुस्वच्छर्द्दिविन्मूत्रो यश्च ताम्यति
दाहारुचितृडानाहतन्द्रामोहसमन्वितः ।नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते”
*
अथ कामलाचिकित्सा ।“त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसः ।प्रातर्म्माक्षिकसंयुक्तः शीतलः कामलापहः
अञ्जने कामलार्त्तानां द्रोणीपुष्पीरसी हितः ।गुडूचीपत्रकल्कं वा पिबेत्तक्रेण कामली
धात्रीलोहरजोव्योषनिशाक्षौद्राज्यशर्कराः ।लीढा निवारयन्त्याशु कामलामुद्धतामपि
कुम्भाख्यकामलायान्तु हितः कामलिको विधिः ।गोमूत्रेण पिबेत् कुम्भकामलायां शिलाजतु
दग्ध्वाक्षकाष्ठैर्मलमायसन्तुगोमूत्रनिर्व्वापितमष्टवारान् ।विचूर्णलीढं मधुनाचिरेणकुम्भाह्वयं पाण्डुगदं निहन्ति”
इति भावप्रकाशः
*
“मरीचतिलपुष्पाभ्यामञ्जनं कामलापहम्”
इति गारुडे १८७ अध्यायः
“तण्डुलीयकगोक्षुरमूलं पीतं पयोऽन्वितम् ।कामलादिहरं प्रोक्तं मुखरोगहरं तथा”
इति तत्रैव १८८ अध्यायः