| YouTube Channel

कामलः (kAmalaH)

 
Apte Hindi
Hindi
कामलः
पुं*
- कम् - णिङ् - कलच्
वसन्त ऋतु
कामलः
पुं*
- कम् - णिङ् - कलच्
मरुस्थल
शब्दकल्पद्रुमः
Sanskrit
कामलः,
पुं,
स्त्री,
(कम + णिच् + कलच् ।) रोग-विशेषः काँओल कामला इति प्रसिद्धिः ।इति मेदिनी
तस्य निदानसम्प्राप्ती यथा, --“पाण्डुरोगी योऽत्यर्थं पित्तलानि निषेवते ।तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते”
तस्य लक्षणम् ।“हारिद्रनेत्रः सुभृशं हारिद्रत्वङ्नखाननः ।रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः
दाहाविपाकदौर्ब्बल्यसदनारुचिकर्षितः ।कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ।कालान्तरात् खरीभूता कृच्छ्रा स्यात्कुम्भकामला”
तस्यारिष्टलक्षणम् ।“कृष्णपीतशकृन्मूत्रो मृशं शूवश्च मानवः ।सरक्ताक्षिमुखच्छर्द्दिविण्मूत्रो यश्च ताम्यति
दाहारुचितृडानाहतन्द्रामोहसमन्वितः ।नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली”
इति माधवकरः
कामलः,
पुं,
(कामयते अभीष्टमस्मिन् कम + अ-धिकरणे + कलच् ।) वसन्तकालः मरुभूमिः ।(कामं लाति गृह्णातीति काम + ला + कः ।) का-मुके त्रि इति मेदिनी