कामधेनुः (kAmadhenuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकामधेनुः
कामः - धेनुः -
"समृद्धि की गौ, सब इच्छाओं को पूरा करने वाली स्वर्गीय गाय"
Wordnet
Sanskrit कामधेनुः
पुराणे वर्णिता इष्टकामदुघा गौः।
"कामधेनुः स्वर्गे निवसति।"
कामधेनुः
एका देवता ।
"कामधेनोः उल्लेखः ब्रह्मपुराणे वर्तते"
कामधेनुः
एकः रचनाप्रकारः ।
"कामधेनुः इति विविधासु शास्त्रशाखासु वर्तते"
कामधेनुः
एका देवता ।
"कामधेनोः उल्लेखः ब्रह्मपुराणे वर्तते"
कामधेनुः
ग्रन्थप्रकारविशेषः ।
"कामधेनुः इति नाम्ना नैके ग्रन्थाः सन्ति"
शब्दकल्पद्रुमः
Sanskritकामधेनुः, (कामप्रतिपादिका धेनुः ।) स्वनाम-ख्यातगौः । तस्या उत्पत्तिर्यथा, --“दक्षस्य तनया याभूत् सुरभिर्नाम नामतः ।गवां माता महाभागा सर्व्वलोकोपकारिणी” ॥
तस्यान्तु तनया जज्ञे कश्यपात्तु प्रजापतेः ।नाम्ना सा रोहिणी शुभ्रा सर्व्वकामदुघा नृणाम् ॥
तस्यां जज्ञे शूरसेनाद्वसोरतितपोज्ज्वलात् ।कामधेनुरिति ख्याता सर्व्वलक्षणसंयुता” ॥
“तस्यां जज्ञे शुनःशेफान्मुनेरतितमोज्ज्वलात्” ।इति पुस्तकान्तरे पाठः ॥
“सा सिताभ्रप्रतीकाशा चतुर्व्वेदचतुष्पदा ।स्तनैश्चतुर्भिर्धर्म्मार्थकामाप्रसवकारिणी” ॥
* ॥
तस्या गर्भे शिववाहनवृषोत्पत्तिर्यथा, --“सा स्वयम्भुशरीरात्तु कालेन महता सती ।निर्म्मलं यौवनं कामधेनुराप मनोहरम् ॥
तां चरन्तीं मेरुपृष्ठे चारुरूपां मनोहराम् ।ददर्श स तु वेतालः कामुकश्चाभ्यपद्यत ॥
तं कामुकन्तु वेतालं विदित्वा कामधेनुका ।पशुधर्म्मात् स्वयं भेजे तं पुत्त्रं शशभृद्भृतः ॥
सोऽवाप तस्यां परममामोदं शङ्करात्मजः ।सा चापि परमं तस्मिन् मदनात् प्रतिहर्षिता ॥
तयोः प्रवृत्ते सुरते तस्या गर्भोऽभवत्तदा ।काले प्राप्ते तु सुसुवे कामधेनुर्म्महाबृषम् ॥
सोऽचिरेणैव कालेन सुमहान् वृषभोऽभवत् ।भहाककुदसंयुक्तश्चारुशृङ्गद्वयान्वितः ॥
उत्क्षिप्तविचलत्कर्णयुगलो दीर्घवालधिः ।ककुदेन च शृङ्गाभ्यां कर्णाभ्यां स सिताभ्रवत् ॥
विचरन् ददृशे देवैः शृङ्गैरिव हिमाचलः ।वेतालस्त्वकरोत्तस्य नाम भृङ्ग इति द्विजाः ! ॥
स तु भृङ्गो ज्ञानशाली समाराधयदीश्वरम् ।सोऽपि तुष्टो वरं तस्मै ददाविष्टं महेश्वरः ॥
तमेव वाहनं चक्रे कृत्वा देवतनुं वृषम् ।स चिरायुश्च बलवान् पृथिवीधरणक्षमः ॥
भृङ्गो नाम महातेजाः केतुश्चाप्यभवत् पतेः ।भृङ्गोऽभूद्वाहनो यस्माच्छङ्करस्य महावृषः ॥
अतो भृङ्गिरिति ख्यातिं स च प्राप महेश्वरात्” ॥
इति श्रीकालिकापुराणे ९१ अध्यायः ॥
* ॥
अमीवृप्रदा धेनुः । तद्दानफलं यथा, --“वर्षो हरिः सर्व्व एव पवित्र-स्तत्रापि वर्षे शरदेव शुद्धा ।तस्यां शुभः कार्त्तिको नाम मास-स्तत्रापि पुण्यो हि बभूव दर्शः ॥
यम्यां हरेर्द्दैत्यमयाद्विमुक्ताउरःस्थलं प्राप्य सुखं सुशेते ।लक्ष्मीः पुराद्यापि विनिर्म्मिता वैकामप्रदा धेनव एव यत्र ॥
अहर्मुखे यत्र दिने समस्ताःसुधेनवो भूमितले भ्रमन्ति ।गृहे न यस्मिन् कथयन्ति लीलांहानिः क्षयस्तत्र च प्रत्ययो मे ॥
तस्मात्त्वमत्रैव च कामधेनुंदद्याः समुद्दिश्य तु केशवस्य ।विप्राय वै सर्व्वगुणोपपन्नांकृत्वा व्रतं कृच्छ्रमतो हरेस्तु ॥
सम्यक् प्रदत्तैस्तु गवां सहस्वैःसवत्सवस्त्रैः सहितैश्च हेम्ना ।काले फलं यल्लभते मनुष्योन कामधेनोश्च समं द्विजेभ्यः ॥
कन्यारथानां करिवाजियुक्तैशतैः सहस्रैः सततं द्विजेभ्यः ।दत्तैः फलं यल्लभते मनुष्यःसमं तथा स्यान्नतु कामधेनोः” ॥
* ॥
तद्भेदाः तद्दानविधिश्च यथा, --“नन्दा सुनन्दा सुरभी सुशीला सुमनास्तथा ।निर्गता मथ्यमानेऽब्धौ उषःस्नानं शुभप्रदम् ॥
तत्र स्नात्वा समभ्यर्च्च्य धेनुं पूज्य प्रयत्नतः ।गोदानफलमाप्नोति नरो विगतकल्मषः ॥
एकादश्यामुपोष्याथ नरो दिनचतुष्टयम् ।घृतेन स्नापयेद्विष्णुं गव्येन पयसापि वा ॥
नक्ताशी गोरसैर्हव्यैः पूजयेन्मधुसूदनम् ।गन्धपुष्पैः सुनैवेद्यैर्वस्त्राभरणकुण्डलैः ॥
शङ्खासिचक्रोद्यतबाहुविष्णो-र्गदाब्जहस्तस्य तु शङ्खपाणेः ।अर्घं प्रयच्छामि जनार्द्दनस्यश्रिया युतस्यापि धराधरस्य ॥
श्रियः पतिं श्रीधरमेव कान्तंश्रियाः सखायं हि श्रियोऽधिमूलम् ।नमाम्यहं श्रीधरं श्रीनिवासंसमर्च्चितो मे प्रददातु कामान् ॥
एवं पूज्य विधानेन श्रिया युक्तैस्तु नामभिः ।पृथक् जागरणं कुर्य्यात् श्रिया सार्द्धं जगत्पतेः ॥
या देवी भार्गवं भेजे कुलंसर्व्वत्र पूजिता ।आयातु सा गृहं नन्दा सुप्रीता वरदा मम ॥
याङ्गिरसञ्च सा देवी सुनन्दा प्रत्युपस्थिता ।आयातु मे गृहे सा तु सुप्रीता वरदा सती ॥
सुरभी या भरद्वाजं कामधेनुः सुकामदा ।सदाभवद्गृहं सात्र ममायातु सुरार्च्चिता ॥
सुशीला कश्यपं या तु भेजे सर्व्वत्र कामदा ।सा मे भवतु सुप्रीता कामधेनुर्गृहे सदा ॥
सुमना या वशिष्ठन्तु संप्राप्य मुमुदे शुभा ।सा मे गृहं सदायातु कामदा देवपूजिता ॥
एवं पूज्य विधानेन प्रभाते विमले शुभे ।शुक्लाम्बरधरः स्नातः शुक्लमाल्यानुलेपनः ॥
कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः ।अनुलिप्ते महीपृष्ठे कृष्णाजिनसुसंस्तृते ॥
तिलप्रस्थेन चाकीर्णे चतुःस्वर्णविभूषिते ।क्षौमवस्त्रान्विते शुभ्रे मध्वाज्यपात्रसंयुते ॥
शुभवस्त्रैः समावृत्य सर्व्वरत्नैरलङ्कृताम् ।सुवर्णशृङ्गीं सुखुरां चतुःस्वर्णां मनोरमाम् ॥
क्षीराब्धिपयसोपेतां धेनुं मन्त्रैः प्रपूजयेत् ।या धेनुः सर्व्वदेवानां ऋषीणां भावितात्मनाम् ॥
क्षीराब्धेर्निर्गता या च सा मे भवतु सुस्थिरा ।घृतक्षीराभिषेकञ्च कृत्वा विष्णोः प्रयत्नतः ॥
समभ्यर्च्च्य यथान्यायं गन्धपुष्पादिभिः क्रमात् ।गावो ममाग्रतः सन्तु गावः पार्श्वे च पृष्ठतः ॥
गावो मे हृदये नित्यं गवां मध्ये वसाम्यहम् ।प्राङ्मुखोदङ्मुखो वापि सितयज्ञोपवीतिनीम् ॥
इमां त्वं प्रतिगृह्वीष्व देवदेव ! जगत्पते ॥
सवत्सालड्कृतां धेनुं गोविन्द ! प्रीयतामिति ॥
एवं विप्राय तां दद्यात् कृत्वा चैव प्रदक्षिणम् ।अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ! ॥
अनेन विधिना यस्तु कामधेनुं प्रयच्छति ।सर्व्वकामसमृद्धार्थः स्वर्गलोकञ्च गच्छति ॥
किं दत्त्वा शतशोर्वीन्तु राहुग्रस्ते दिवाकरे ।तत्फलं प्राप्यते राजन् कामधेन्वा यदश्नुते” ॥
इत्याद्ये बह्निपुराणे कामधेनुप्रदाननामाध्यायः ॥
* ॥
अन्यत् वाल्मीकीयरामायणे बालकाण्डे ५३ सर्गेमहाभारते १ । १०१ अध्याये च द्रष्टव्यम् ॥
* ॥
अथ कामधेनुमहादानम् ।“अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् ।सर्व्वकामफलं नॄणां महापातकनाशनम् ॥
लोकेशावाहनं तद्वद्धोमकर्म्माधिवासनम् ।तुलापुरुषवत्कार्य्यं कुण्डमण्डपवेदिकम् ॥
स्वल्पे ह्येकाग्निवत् कुर्य्यात् गुरुरेव समाहितः ।काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत्” ॥
धेनुं वत्सञ्चेत्यनेन धेन्वर्थोपात्तसुवर्णेनैव स्वे-च्छया वत्सकल्पनमुक्तम् ॥
“उत्तमा पलसाहस्री तदर्द्धेन तु मध्यमा ।कनीयसी तदर्द्धेन कामधेनुः प्रकीर्त्तिता ॥
शक्तितस्त्रिपलादूर्द्ध्वमशक्तोऽपीह कारयेत् ।वेद्यां कृष्णाजिनं न्यस्य गुडप्रस्थसमन्वितम् ॥
न्यसेदुपरि तां धेनुं महारत्नैरलङ्कृताम् ।कुम्भाष्टकसमोपेतां नानाफलसमन्विताम्” ॥
महारत्नैरुत्कृष्टरत्नैः ॥
“तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ।इक्षुदण्डाष्टकं तद्वन्नानाफलसमन्वितम् ।भाजनञ्चासनं तद्वत्ताम्रदोहनकन्तथा ॥
कौषेयवस्त्रद्वयसंप्रयुक्तांदीपातपत्राभरणाभिरामाम् ।सचामरां कुण्डलिनीं सघण्टांमणित्रिकां चन्द्रकरौप्यपादाम्” ॥
मणित्रिका अक्षमाला ।“रसैश्च सर्व्वैः पुरतोऽभिजुष्टांहरिद्रया पुष्पफलैरनेकैः ।अजाजिकुस्तुम्बुरुशर्कराभि-र्व्वितानकञ्चोपरि पञ्चवर्णम्” ।रसैः सर्व्वैरिति लवणादिभिः षड्भिः । अजाजीजीरकः । कुस्तुम्बुरु धन्याकम् ॥
“स्नातस्ततो मड्गलवेदघोषैःप्रदक्षिणीकृत्य सपुष्पहस्तः ।आवाहयेत्तां गुडधेनुमन्त्रै-र्द्विजाय दद्यादथ दर्भपाणिः” ॥
बहुतरमत्स्यपुराणपुस्तकेषु गुडधेनुमन्त्रैरितिपाठदर्शनात् गुडधेनूक्तया लक्ष्मीरित्यादिमन्त्र-पाठश्चात्र कर्त्तव्यः । द्विजाय दद्यादिति श्रुतेःकृत्स्नैव कामधेनुर्गुरवे देया ऋत्विग्भ्यस्तु दक्षि-णामात्रम् ॥
“त्वं सर्व्वदेवगणमन्दिरमङ्गभूताविश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् ।तद्दानशस्त्रशकलीकृतपातकौघःप्राप्तोऽस्मि निर्वृतिमतीव परां नमामि ॥
लोके यथेप्सितफलार्थविधायिनीं त्वा-मासाद्य को हि भवदुःखमुपैति मर्त्यः ।संसारदुःखशमनाय यतस्व कामंत्वां कामधेनुमिति देवगणा वदन्ति ॥
आमन्त्र्य शीलकुलरूपगुणान्वितायविप्राय यः कनकधेनुमिमां प्रदद्यात् ।प्राप्नोति धाम स पुरन्दरदेवजुष्टंकन्यागणैः परिवृतः पदमिन्दुमौलेः” ॥
* ॥
अत्र यजमानः समुपजातकामधेनुमहादानेच्छःतुलापुरुषलिखितं खङ्गचर्म्ममयाच्छन्नसन्नाहतुला-पुरुषस्थापनीयहरिप्रतिमासालङ्गारतुलाहस्तप्ना-प्तप्रतिमावहिःसर्व्वसम्भारमधिकत्वेन सुवर्णपल-सहस्रनिर्म्मितामुत्तमां सुवर्णपलशतपञ्चकनिर्म्मि-तां मध्यमां सुवर्णसार्द्धपलशतद्वयनिर्म्मितां कनी-यसीं अशक्तौ पलत्रयादूर्द्ध्वं यथाशक्त्युपात्तसुवर्ण-घटितामुत्कृष्टरत्नालङ्कृतां सवत्सां धेनुम् । धेन्व-वस्थापनार्थं कृष्णाजिनं गुडप्रस्थञ्च धेन्वलङ्करणार्थंयथेच्छकाञ्चनघटितचन्द्रतिलकललाटपट्टिकाकुण्ड-लयुगघण्टारौप्यखुरचतुष्टयस्फाटिकाक्षमालाचा-मराणि । धेन्वाच्छादनार्थं कौषेयवस्त्रयुगम् । धेनु-पार्श्वस्थापणार्थं कुम्भाष्टकातिप्रचुरविविधफला-ष्टादशधान्येक्षुदण्डाष्टककांस्यपात्रासनताम्रदोह-नदीपसामग्रीछत्रपादुकायुगानि । धेन्वग्रतः स्था-पनार्थं मधुरादिरसषट्कहरिद्रानानाविधकुसु-मार्हणद्रव्यजीरकधन्याकशर्कराश्चोत्पादयेत् ।ततस्तुलापुरुषोक्तसमयानामन्यतमस्य पूर्व्वतरदिनेगुर्वृत्विग्यजमानजापकास्तुलापुरुषबद्धविष्यभोज-नादिकं कृत्वा निवेदनसङ्कल्पवाक्ययोस्तुलापुरुष-पदस्थाने हिरण्यकामधेनुपदं प्रक्षिप्य निवेदनंसङ्कल्पञ्च कुर्य्युः । अपरदिने च यजमानस्तुलापु-रुषवद्गोविन्दाद्याराधनादिमधुपर्कदानान्तं गो-विन्दाद्यभ्यर्च्चनब्राह्मणानुज्ञापनदानसंकल्पपूण्याहा-दिवाचनवरणवाक्येषु तुलापुरुषपदस्थाने हिरण्य-कामधेनुपदं प्रक्षिप्य कुर्य्यात् । ततो गुर्वृत्विग्-यजमानजापका उपवसेयुः । अपरदिने च कृत-नित्यास्तुलापुरुषवदग्निस्थापनादिमध्यब्राह्मणवाच-नान्तं कर्म्म यथायथं कुर्य्युः । एवञ्च मध्यब्राह्मण-वाचनान्तं कर्म्म तुलापुरुषग्रन्थमनुसन्धायानुष्ठा-तव्यम् । तत ऋत्विजः सवत्सां धेनुं प्रधानवेदी-मध्यलिखितचक्रोपरि कृष्णाजिनमास्तीर्य्य तदुपरिगुडप्रस्थं निधाय तत्रारोप्य पूर्व्वोक्तालङ्कारैरलङ्कृत्यकौषेयवस्त्रयुगेनाच्छाद्य धेनुपार्श्वे च पूर्णकुम्भाष्टकंनानाविधफलानि अष्टादशधान्यानि रत्ननानावि-धफलमिक्षुदण्डाष्टककांस्यभाजनपट्टिकाताम्रदो-हनदीपातपत्रपादुकायुगान्यारोपयेयुः । घेन्वग्रतःमधुरादिरसषट्कहरिद्राविविधपुष्पार्हणसामग्री-जीरकधन्याकशर्क्कराश्चारोप्य मङ्गलगीतवाद्यव-न्दिघोषेषु यज्ञकुण्डसमीपस्थकुम्भचतुष्टयजलेन स्व-स्ववेदोक्ताभिषेचनिकमन्त्रैर्यजमानं स्नापयेयुः ।ततो यजमानः शुक्लमाल्याम्बरधरो धृतसर्व्वाल-ङ्कारः कुशहस्तः पुष्पाञ्जलिमादाय कामधेनुं प्रद-क्षिणीकृत्य या लक्ष्मीरित्यादि देवगणा वदन्ती-त्यन्तं पठित्वा कामधेनुं पुष्पाञ्जलिना सम्पूज्यगुरवे दद्यात् । तद्यथा, ॐ अद्यामुकसगोत्राया-मुकवेदामुकशाखाध्यायिने अमुकशर्म्मणे तुभ्यंमत्स्यपुराणोक्तहिरण्यकामधेनुमहादानफलप्राप्ति-कामोऽहं एतां कृष्णाजिनन्यस्तगुडप्रस्थारोपितांउत्कृष्टरत्नसौवर्णचन्द्रतिलकपट्टककुण्डलयुगलघ-ण्टारौप्यखुरस्फाटिकाक्षमालाचामरालंकृतां कौ-षेयवस्त्रयुगाच्छादितां पूर्णकुम्भाष्टकनानाफलाष्टा-दशधान्यफलसहितेक्षुदण्डाष्टककांस्यपात्रासनता-म्रदोहनदीपछत्रपादुकायुगसर्व्वरसहरिद्रानाना-विधकुसुमफलजीरकधन्याकशर्करायुतां पञ्चवर्ण-वितानकसहितां सवाससां हिरण्यकामधेनुंददे । गुरुः स्वस्तीत्युक्त्वा सावित्रीं पठित्वाहिरण्यकामधेनुरियं विष्णुदैवतेति उक्त्वा यथा-शाखं कामस्तुतिं पठेत् । ततो गुर्वृत्विग्भ्योदक्षिणान्दद्यात् । ॐ अद्य कृतैतद्दानदक्षिणा-मिमां उत्पत्तियोग्यां भूमिमेतानि च रत्नानिददे । स्वस्तीति ब्राह्मणा ब्रूयुः । गुरुस्तु स्वस्त्यन-न्तरं धेनुपुच्छं गृह्णीयात् । ततो यजमानस्तुला-पुरुषवज्जापकेम्यो दक्षिणां दत्त्वा दीनानाथादीं-स्तर्पयित्वा ब्राह्मणवाचनञ्च कृत्वा त्वरया गुरवेकामधेनुं प्रतिपादयेत् । पलत्रयादूर्द्ध्वं यथाशक्तिस्वल्पमहादानदाने तु गुरुरेव स्वगृह्योक्तविधिनासर्व्वं ब्रह्माण्डवत् कुर्य्यात् ॥
इति हिरण्यकाम-धेनुमहादानं समाप्तम् । इति दानसागरः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
