कामकः-मिका (kAmakaH-mikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“कमु कान्तौ”@} 2 कान्तिः = इच्छा।
3 कामकः 4 कामकः मिका, कामकः-मिका, 5 चिकामयिषकः-षिका, चिकमिषकः-षिका, 6 चङ्कामकः-मिका
चङ्कमकः-मिका
कामयिता-त्री, कमिता-त्री, कामयिता-त्री, चिकामयिषिता-त्री, चिकमिषिता-त्री, चङ्कामयिता-त्री
चङ्कमिता-त्री
-- 7 कामयन्-न्ती, कामयिष्यन्-न्ती-ती
-- 8 कामयमानः, कामयमानः, चिकामयिषमाणः चिकमिषमाणः चङ्काम्यमानः
चङ्कम्यमानः
कामयिष्यमाणः, कामयिष्यमाणः, चिकामयिषिष्यमाणः, चिकमिषिष्यमाणः, चङ्कामयिष्यमाणः
चङ्कमिष्यमाणः
9 कान्-कामौ-कामः
-- -- -- 10 कामितम्-तः-तवान्, 11 कान्तम्-न्तः-न्तवान्, कामितम्-तः, चिकामयिषितः, चिकमिषितः, चङ्कामितः चङ्कमितः तवान्
12 कामः-कमः, 13 प्रकामी, 14 मांसकामः-मांसकामा, 15 हन्तुकामः 16, 17 हरिकामा, 18 कम्रः 19, 20 कमनः, 21 कामुक 22 ः-कामुकी-कामुका, कामः, चिकामयिषुः, चिकमिषुः, चङ्कामः-चङ्कमः
कामयितव्यम्, कमितव्यम्, कामयितव्यम्, चिकामयिषितव्यम्, चिकमिषितव्यम्, चङ्कामयितव्यम्
चङ्कमितव्यम्
23 प्रकामनीयम्, प्रकमनीयम्, कामनीयम्, चिकामयिषणीयम्, चिकमिषणीयम्, चङ्कामनीयम्
चङ्कमनीयम्
24 काम्यम्- 25 कम्यम्, काम्यम्, चिकामयिष्यम्, चिकमिष्यम्, चङ्काम्यम्-चङ्कम्यम्
ईषत्कामः-दुष्कामः-सुकामः, ईषत्कमः-दुष्कमः-सुकमः
-- 26 काम्यमानः, काम्यमानः, काम्यमानः, चिकामयिष्यमाणः, चिकमिष्यमाणः, चङ्काम्यमानः-चङ्कम्यमानः
27 कामः-कामः, कामः, चिकामयिषः, चिकमिषः, चङ्कामः-चङ्कमः
कामयितुम्-कमितुम्, कामयितुम्, चिकामयिषितुम्, चिकमिषितुम्, चङ्कामयितुम्
चङ्कमितुम्
कामना- 28 कान्तिः, कामना, चिकामयिषा-चिकमिषा, 29 चङ्कामा-चङ्कमा
कामनम्, कमनम्, कामनम्, चिकामयिषणम्-चिकमिषणम्, चङ्कामनम्-चङ्कमनम्
कामयित्वा, 30 कमित्वा, कान्त्वा, कामयित्वा, चिकामयिषित्वा चिकमिषित्वा चङ्कामयित्वा-चङ्कमित्वा
प्रकाम्य-प्रकम्य, प्रकाम्य, प्रचिकामयिष्य-प्रचिकमिष्य, प्रचङ्काम्य-प्रचङ्कम्य
31 कामम् २ कामयित्वा २ कामम् २ कमित्वा २ कान्त्वा २ कामम् २ कामयित्वा २ चिकामयिषम् २, चिकामयिषित्वा २, चिकमिषम् २, चिकमिषित्वा २, चङ्कामम् २ -चङ्कमम् २
चङ्कामयित्वा २ -चङ्कमित्वा २
32 कमठः, 33 कन्तुः, 34 कमलम्, 35 कंसः।
36
01 (१६८)
02 (१-भ्वादिः-४४३। सक। सेट्। आत्म।)
03 [[१। ‘कमेर्णिङ्’ (३-१-३०) इति स्वार्थे णिङ्। अमन्तत्वेन मित्त्वं तु न, ‘न कम्य- मिचमाम्’ (ग। सू। भ्वादौ) इति निषेधात्। अतः, ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः। एवं घञ्यपि।]]
04 [[२। ‘आयादय आर्धधातुके वा’ (३-१-३१) इति णिङो वैकल्पिकत्वात् णिङभावपक्षे, ण्वुलि वृद्धौ रूपम्। ‘नोदात्तोपदेशस्य--’ (७-३-४) इति निषेधस्तु न
\n\n ‘अनाचमि- कमिवमीनाम्’ (वा। ७-३-३४) इति निषेधात्।]]
05 [[३। णिङ्पक्षे रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
06 [[४। यङन्तात् ण्वुलि ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति अभ्यासे नुक्।]]
07 [[५। णिजन्तात् ‘णिचश्च’ (१-३-७४) इत्युभयपदी, न तु णिङन्तात्।]]
08 [[६। शानचः शित्त्वेन आर्धधातुकत्वाभावात् नित्यं णिङ्। णिङो ङित्त्वात् ‘अनुदात्तङित आत्मनेपदम्’ (१-३-१२) इति आत्मनेपदमेव।]]
09 [[७। णिङन्तात् शुद्धाच्च धातोः क्विपि ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति नत्वम्।]]
10 [[८। णिङ्पक्षे ‘णेरनिटि’ (६-४-५१) इति निष्ठायां णिङो लोपः। सूत्रे ‘णेः’ इत्यनेन णिङोऽपि ग्रहणम्।]]
11 [[९। णिङभावपक्षे, धातोरुदित्त्वात् क्त्वायाम् इड्विकल्पः। तेन ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्णिषेधे, ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे च रूपम्।]]
12 [पृष्ठम्०१६४+ २६]
13 [[१। ताच्छील्ये णिनिः।]]
14 [[२। ‘शीलिकामिभक्ष्याचरिभ्यो णः’ (वा। ३-२-१) इति अणपवादः णः। तेन स्त्रियां टाप्।]]
15 [[३। ‘तुं काममनसोरपि।’ (वा। ६-३-१०९) इति तुमुनो मकारस्य लोपः।]]
16 [[आ। ‘इन्द्राबृहस्पत्युपकॢप्तमन्त्रा उत्साहिनोऽग्नीवरुणौ तथाऽन्ये। सुरा भवन्तं बत हन्तुकामाः प्रबोधयांचक्रुरधोक्षजं तम्।।’ वा। वि। २। ३३।]]
17 [[B। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदुपग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी।।’ इति प्र। सर्वस्वे।]]
18 [[४। ‘नमिकम्पिस्म्यजसकमहिंसदीपो रः’ (३-२-१६७) इति ताच्छीलिको रः प्रत्ययः।]]
19 [[C। ‘कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः। इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन् नृपम्।।’ भ। का। ७-२४।]]
20 [[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच् ताच्छीलिकः। ‘ताच्छीलिकेषु ‘वाऽसरूपः--’ (३-१-९४) इति विधिर्नास्तीति प्रायिकम्
\n\n तेन कम्रा कमना युवतिः, इति सिद्धम्--’ इति सि। कौमुदी।]]
21 [[६। ‘लषपतपदस्थाभूकमगम--’ (३-२-१५४) इत्यादिना तच्छीलादिषु उकञ्। स्त्रियां, ‘जानपद--’ (४-१-४२) इति विहितः ङीष् ‘कामुकी मैथुनेच्छा चेत्, कामुकाऽन्या, ’ (वा। ४-१-४२) इति वार्तिकेन अर्थविशेषे नियमितः।]]
22 [[ड्। ‘प्रघिण्य भूषाः परिघुण्य मालिकाः प्रघृण्य घोणापुटघूर्णिचन्दनम्। पणाय्यरूपाः पनिताकृतीन् ययुर्भामिन्य एवाक्षमया स्वकामुकान्।।’ धा। का। १-५७।]]
23 [[७। ‘न भाभूपूकमिगमि--’ (८-४-३४) इति ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति च णत्वनिषेधः।]]
24 [[८। णिङन्तात्--णिजन्ताच्च ‘अचो यत्’ (३-१-९७) इति यत्।]]
25 [[९। शुद्धाद्धातोः ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
26 [पृष्ठम्०१६५+ २०]
27 [[आ। ‘यायास्त्वमिति कामो मे गन्तुमुत्सहसे न च। इच्छुः कामयितुं त्वं माम् इत्यसौ जगदे तया।।’ भ। का। ५-५९।]]
28 [[B। ‘सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्। कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता।।’ भ। का। ५-६५।]]
29 [[१। ‘यस्य हलः’ (६-४-४९) इति यलोपे, अतो लोपे च रूपमेवम्।]]
30 [[२। णिङभावपक्षे धातोरुदित्त्वात् ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घे रूपम्।]]
31 [[३। ‘न कम्यमि--’ (ग। सू। भ्वादौ) इति मित्त्वनिषेधात् णिङन्तात् णिजन्ताच्च न दीर्घविकल्पः।]]
32 [[४। ‘कमेरठः’ (द। उ। ५। ५।) इत्यठः प्रत्ययः। कमठः = कूर्मः, भिक्षाभाजनं वा।]]
33 [[५। औणादिके (द। उ। १-११२) कुप्रत्यये तुगागमः। कन्तुः = कामी।]]
34 [[६। औणादिके (द। उ। ८-१०७) कलप्रत्यये रूपम्। कमलम् = पद्मम्।]]
35 [[७। औणादिके (द। उ। ९-२१।) सप्रत्यये रूपम्।]]
36 [पृष्ठम्०१६६+ २४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
