| YouTube Channel

कान्दर्पिक (kAndarpika)

 
Spoken Sanskrit
English
कान्दर्पिक - kAndarpika -
n.
वाचक - vAcaka -
adj.
- treating of
धर्षिन् - dharSin -
adj.
- ill-treating
अपकरण - apakaraNa -
n.
- ill-treating
दाशार्ण - dAzArNa -
adj.
- treating of it
दाशार्ह - dAzArha -
adj.
- treating of it
प्रद्युम्नागमनीय - pradyumnAgamanIya -
adj.
- treating of it
मात्राशितीय - mAtrAzitIya -
adj.
- treating of it
नारायणीय - nArAyaNIya -
adj.
- treating of him
वज्रनाभीय - vajranAbhIya -
adj.
- treating of him
वामन - vAmana -
adj.
- treating of him
वात्स्य - vAtsya -
adj.
- treating of vatsa
चिकित्सु - cikitsu -
adj.
- treating medically
विवेचन - vivecana -
adj.
- treating critically
कौष्ठिक - kauSThika -
adj.
- treating of leprosy
षोडशराजिक - SoDazarAjika -
adj.
- treating of 16 kings
प्रकरण - prakaraNa -
n.
- treating with respect
उपक्रमणीय - upakramaNIya -
adj.
- treating of attendance
प्रसादिन् - prasAdin -
adj.
- treating with kindness
विप्रकारिन् - viprakArin -
adj.
- treating with contempt
कान्दर्पिक - kAndarpika -
n.
मदनशलाका - madanazalAkA -
f.
- aphrodisiac
वाजीकरण - vAjIkaraNa -
m.
- aphrodisiac
व्यवायवायिन् - vyavAyavAyin -
m.
- aphrodisiac
शूक - zUka -
n.
- aphrodisiac
बीजकृत् - bIjakRt -
n.
- aphrodisiac
वाजीकर - vAjIkara -
n.
- aphrodisiac
वीर्यवृद्धिकर - vIryavRddhikara -
n.
- aphrodisiac
वृष्य - vRSya -
n.
- aphrodisiac
रतिफल - ratiphala -
adj.
- aphrodisiacal
कामकेलिरस - kAmakelirasa -
m.
- kind of aphrodisiac
मदप्रसेक - madapraseka -
m.
- aphrodisiacal fluid
नारसिंहचूर्ण - nArasiMhacUrNa -
n.
- particular aphrodisiac
फलघृत - phalaghRta -
n.
- particular aphrodisiac
वाजीक्रिया - vAjIkriyA -
f.
- use or application of aphrodisiacs
कामवृद्धि - kAmavRddhi -
m.
- shrub of supposed aphrodisiac properties
कामेश्वरमोदक - kAmezvaramodaka -
m.
- kind of plant with aphrodisiac properties
कान्दर्पिक kAndarpika
n.
Monier Williams Cologne
English
कान्दर्पिक
n.
‘treating of aphrodisiaca’,
N.
of the seventy-sixth Adhyāya of
VarBṛS.
वाचस्पत्यम्
Sanskrit
कान्दर्पिक
न०
कन्दर्पस्तद्विवृद्धिः प्रयोजनमस्य ठक् कन्दर्प-वृद्धिसाधने वृ० स० उक्ते विधानभेदे तद्विधानं तत्रकान्दर्पिकनामकषट्सप्ततितमेऽध्याये उक्तं यथा ।“रक्तेऽधिके स्त्री, पुरुषस्तु शुक्रे, नपुंसकं शोणितशुक्र-साम्ये यस्म दतः शुक्रविवृद्धिदानि निषेवितव्यानि रसा-यनानि हर्म्य पृष्ठमुडुनाथरश्मयः सोत्पलं मधु मदा-लसा प्रिया वल्लकी स्मरकथा रहः स्रजो वर्ग एषमदनस्य वागुरा माक्षीकधातुमधुपारदलोहचूर्ण्णपथ्या-शिलाजतुविडङ्गघृतानि योऽद्यात् सैकानि विंशति-रहानि जरान्वितोऽपि सो ऽशीतिकोऽपि रमयत्यबलांयुवेव क्षीरं शृतं यः कपिकच्छुमूलैः पिबेत् क्षयं स्त्रीषुन सोऽभ्युपैति माषान् पयःसर्पिषि वा विपक्वान्षड्ग्रासमात्रांश्च पयोऽनुपानान् विदारिकायाः स्वर-सेन चूर्ण्णं मुहुर्मुहुर्भावितशोषितं शृतेन दुग्धेनसशर्करेण पिबेत्स यस्य प्रमदाः प्रभूताः धात्रीफलानांस्वरसेन चूर्ण्णं सुभावितं क्षौद्रसिताज्ययुक्तम् लीढ्वानु-पायाथ पयो ऽग्निशक्त्या कामं निकामं पुरुषो निषे-वेत् क्षीरेण वस्ताण्डयुजा शृतेन सम्प्लाव्य कामोबहुशस्तिलान् यः सुशोषितानत्ति पिबेत्पयश्च तस्या-ग्रतः किं चटकः करोति माषसूपसहितेन सर्पिषाषष्टिकौदनमदन्ति ये नराः क्षीरमप्यनुपिबन्ति तामु तेशर्वरीषु मदनेन शेरते तिलाश्वगन्धाकपिकच्छुमूलैर्विदा-रिकाषष्टिकपिष्टयोगः आजेन पिष्ट्वा पयसा घृतेनपक्त्वा भवेच्छस्कलिकाऽतिवृष्या क्षीरेण वा गोक्षुरकोप-योगं विदारिकाकन्दकभक्षणं वा कुर्वन्न सीदेद्यदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् साजमोदलवणाहरीतकी शृङ्गवेरसहिता पिप्पली मद्यतक्रतरलो-ष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् अत्यम्लतिक्तलव-णानि कटूनि वात्ति सक्षारशाकबहुलानि भोजनानि ।दृक्च्छुक्रवीर्यरहितः करोत्यनेकान् व्याजान् जरन्निवयुवाप्यबलामवाप्य” भावप्र० तदुपायविधानाद्युक्तं यथा ।“अथ वाजीकरणाधिकारः तत्र वाजीकरणस्य लक्षण-माह यद्द्रव्यं पुरुषं कुर्याद्वाजीव सुरतक्षमम् तद्-वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः अत्र प्रसङ्गात्क्लैव्यस्य लक्षणं संख्यां निदानं चाह क्लीवः स्यात्सुरताशक्तस्तद्भावः क्लैव्यमुच्यते तच्च सप्तविधं प्रोक्तंनिदानं तस्य कथ्यते तैस्तैर्भावैरहृद्यसिस्तु रिरंसोर्मनसिक्षते ध्वजः पतत्यतो नॄणां क्लैव्यं समुपजायते द्वेष्य-स्त्रीसंप्रयोगाच्च क्लैव्यं तन्मानसं स्मृतम् तैस्तैर्भावैः-भयशोकक्रोधादिभिः, --अहृद्यैः--हृदयाहितैः--दुःस्थत्वात्क्षते पीडिते अस्वस्थीकृते इति यावत् ध्वजः--शिश्नः ।पतति नतून्नमति संप्रयोगोर्मथुनम् “कटुकाम्लौष्ण-लवणैरतिमात्रोपसेवितैः पित्ताच्छुक्रक्षयो दृष्टः क्लैव्यंतस्प्रात्प्रजायते कटुकादिनातिमात्रेण प्रवृद्धेन पित्तेनशुक्रस्य दग्धत्वात् क्लैव्यं भवति पित्तजमिति द्विती-यम् अतिव्यवायशीलो यो वाजीक्रियारतः ।ध्वजभङ्गमवाप्नोति शुक्रक्षयहेतुकः शुक्रक्षयेण तृती-यम् “महता मेढ्ररोगेण चतुर्थी क्लीवता भवेत् वीर्य-वाहिशिराच्छेदान्मे हनादुन्नतिर्भवेत् बलिनः क्षुब्धमनसोनिरोधाद् ब्रह्मचर्यतः षष्ठं क्लैव्यं स्मृतं तत्तु शुक्र-स्तम्भनिमित्तकम् बलिनः पुष्टस्य क्षुब्धमनसः कामात्संचलतः मनसो, ब्रह्मचर्यम् अमैथुनं तस्मान्निरोधात् शुक्रस्य, क्लैव्यं भवति जन्मप्रभृति यत्क्लैव्यं सहजं तद्धि सप्त-मम् असाध्यं क्लैव्यमाह असाध्यं सहजं क्लैव्यंमर्मच्छेदाच्च यद्भवेत् मन्मर्मछेदाद्वीर्यवाहिशिराच्छेदात्अथ क्लैव्यस्य चिकित्सा क्लैव्यानामिह साध्यानांकार्यो हेतुविपर्ययः मुख्यं विकित्सितं यस्मान्निदान-परिवर्ज्जनम् अथ क्लैव्यस्य चिकित्सायां वाजीकरणविधिमाह नरो वाजीकरान् योगान् सम्यक् शुद्धोनिरामयः सप्तत्यन्तं प्रकुर्वीत बर्षादूर्ध्वन्तु षोडशात् ।नच वै षोडशादर्वाक् सप्तत्याः परतो आयुष्-कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति क्षयवृद्ध्युप-दंशाद्या रोगाश्चातीव दुर्ज्जयाः अकालमरणञ्च स्या-द्भजते स्त्रियमन्यथा विलासिनामर्थवतां रूपयौवन-शालिनाम् नराणां बहुभार्य्याणां विधिर्वाजी-करो हितः स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम् योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेत-साम् हिता वाजीकरा योगाः प्रीणयन्त्यबलाः सदा ।एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया वाजीकर-णान्याह भोजनानि विचित्राणि पानानि विविधानिच गीतं श्रोत्राभिरामाश्च वाचः स्पर्शसुखास्तथा ।यामिनी सान्द्रतिलका कामिनी नवयौवना गीतं श्रोत्र-मनोज्ञञ्च ताम्बूलं मदिराः स्रजः गन्धा मनीज्ञारूपाणि चित्राण्युपवनानि मनसश्चाप्रतीघातं वाजीकुर्व्वन्ति मानवम् माक्षीकधातुमधुपारदलोहचूर्णम्पथ्याशिलाजतुविडङ्गघृतानि लिह्यात् एकाग्रविंश-तिदिनानि गदार्दितोऽपि साशीतिकोऽपि रमयेत्प्रमदांयुवेव” तत्रौषधभेदास्तु तत एवावसेयाः