| YouTube Channel

कान्तं (kAntaM)

 
Hindi
Hindi
सुंदर चमक,
शब्दकल्पद्रुमः
Sanskrit
कान्तं,
क्ली,
(कनते दीप्यते इति कन + कर्त्तरि क्तः ।)कुङ्कुमम् इति राजनिर्घण्टः
लौहविशेषः ।तस्य लक्षणं यथा, --“स्वादुर्यत्र भवेन्निम्बकल्को रात्रिन्दिवोषितः ।कान्तं तदुत्तमं यच्च रूप्येणावर्त्तितं मिलेत्”
तस्य परीक्षा यथा ।पात्रे यस्मिन् विसरति जले तैलविन्दुर्निषिक्तोविद्धं गन्धं विसृजति निजं रूपितं निम्बकल्कैः ।पाके दुग्धं भजति शिखराकारतां नैति भूमौकान्तं लौहं तदिदमुदितं लक्षणोक्तं चान्यत्”
इति सुखबोधः
अपि ।“यत्पात्रे प्रसरति जले तैलविन्दुर्निषिक्तोहिङ्गुर्गन्धं त्यजति भजते स्वादुतां निम्बकल्कः ।पाच्यं दुग्धं भवति सिकतापुञ्जवन्नैति भूमौकृष्णाङ्गः स्यात् सजलचणकः कान्तलौहंवदन्ति”
इतिवैद्यकम्
(वैद्यकरसेन्द्रसारसंग्रहे वृहत्सर्व्वज्वरहरलौहेऽस्य व्यवहारो यथा, --“पारदं गन्धकं शुद्धं ताम्रमभ्रञ्च माक्षिकम् ।हिरण्यं तारतालञ्च कर्षमेकं पृथक् पृथक्
मृतं कान्तं पलं देयं सर्व्वमेकीकृतं शुभम्”
)