| YouTube Channel

कानः (kAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कनी दीप्तिकान्तिगतिषु”@} 2 दीप्तिः = प्रकाशः, कान्तिः = शोभा--इति क्षीरस्वामी।
कानकः-निका, कानकः-निका, चिकनिषकः-षिका, 3 चङ्कनकः-निका
कनिता-त्री, कानयिता-त्री, चिकनिषिता-त्री, चङ्कनिता-त्री
4 कनन्-न्ती, कानयन्-न्ती, चिकनिषन्-न्ती
-- कनिष्यन्-न्ती-ती, कानयिष्यन्-न्ती-ती, चिकनिषिष्यन्-न्ती-ती
5 -- कानयमानः, कानयिष्यमाणः, चङ्कन्यमानः, चङ्कनिष्यमाणः
6 का-कानौ-कानः
-- -- -- 7 कान्तः-न्तं-न्तवान्, कानितं-तः, चिकनिषितः, चङ्कनितः-तवान्
कनः, कानः, चिकनिषुः, चिकानयिषुः, चङ्कनः
कनितव्यम्, कानयितव्यम्, चिकनिषितव्यम्, चङ्कनितव्यम्
कननीयम्, काननीयम्, चिकनिषणीयम्, चङ्कननीयम्
कान्यम्, 8 कन्या, कान्यम्, चिकनिष्यम्, चङ्कन्यम्
ईषत्कनः-दुष्कनः-सुकनः
-- -- कन्यमानः, कान्यमानः, चिकनिष्यमाणः, चङ्कन्यमानः
कानः, कानः, चिकनिषः, चङ्कनः
कनितुम्, कानयितुम्, चिकनिषितुम्, चङ्कनितुम्
कान्तिः, कानना, चिकनिषा, चिकानयिषा, चङ्कना
कननम्, काननम्, चिकनिषणम्, चङ्कननम्
कनित्वा, कानयित्वा, चिकनिषित्वा, चङ्कनित्वा
सङ्कन्य, सङ्कान्य, प्रचिकनिष्य, प्रचङ्कन्य
कानम् २, कनित्वा २, कानम् २, कानयित्वा २, चिकनिषम् २, चिकनिषित्वा २, चङ्कनम्
चङ्कनित्वा
9 कनकम्।
प्रासङ्गिक्यः
01
=>
(१६५)
02
=>
(१-भ्वादिः-४६०। सक। सेट्। पर।)
03
=>
[[४। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति अभ्यासस्य नुक्।]]
04
=>
[[आ। ‘ध्वणच्छिशून् धाणसमोणिताशुभान् शोणान् पृथुश्रोणिजनो दुदोह च। प्रश्लोणितान् प्रैणनविध्रणत्क्षितीन् अनुल्बणान् धेनुगणान् कनत्स्तनात्।।’ धा। का। १-५९।]]
05
=>
[पृष्ठम्०१६०+ २४]
06
=>
[[१। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे नलोपे रूपम्। एवं क्तिन्प्रत्ययेऽपि।]]
07
=>
[[२। ईदित्त्वात् निष्ठायां ‘श्वीदित--’ (७-२-१४) इतीण्णिषेधः। दीर्घः।]]
08
=>
[[३। कनेर्यत्प्रत्यये टापि कन्या इति भवति। ‘कन्यायाः कनीन च’ (४-१-११६) इति निर्देशोऽत्र लिङ्गमिति माधवधातुवृत्तौ।]]
09
=>
[[४। ‘क्वुन् शिल्पिसंज्ञयोः’ (द। उ। ३-५।) इति क्वुन्।]]
1 {@“कै शब्दे”@} 2 ‘शब्दे’ इति सामान्यत उक्तावपि शब्दविशेषे प्रयुज्यते।
3 कायकः-यिका, 4 कापकः-पिका, 5 चिकासकः-सिका, 6 चाकायकः-यिका
काता-त्री, कापयिता-त्री, चिकासिता-त्री, चाकायिता-त्री
7 कायन्-न्ती, कापयन्-न्ती, चिकासन्-न्ती
-- कास्यन्-न्ती-ती, कापयिष्यन्-न्ती-ती, चिकासिष्यन्-न्ती-ती
-- 8 व्यतिकायमानः, कापयमानः, -- चाकायमानः
व्यतिकास्यमानः, कापयिष्यमाणः, -- चाकायिष्यमाणः
9 काः-कौ-काः
-- -- -- कातम्-कातः-कातवान्, कापितः, चिकासितः, चाकायितः-तवान्
10 प्रकः, 11 कायः, 12 नरकः-नरिका, 13 कानः, 14 ध्वाङ्क्षकायी, कापः, चिकासुः, 15 चाकः
16 कातव्यम्, कापयितव्यम्, चिकासितव्यम्, चाकायितव्यम्
कानीयम्- 17 प्रकाणीयम्, कापनीयम्, चिकासनीयम्, चाकायनीयम्
18 केयम्, काप्यम्, चिकास्यम्, चाकाय्यम्
19 ईषत्कानः-दुष्कानः-सुकानः
-- -- कायमानः, काप्यमानः, चिकास्यमानः, चाकाय्यमानः
कायः, कापः, चिकासः, चाकायः
कातुम्, कापयितुम्, चिकासितुम्, चाकायितुम्
कातिः- 20 प्रका, कापना, चिकासा, चाकाया
21 प्रनिकानम्, कापनम्, चिकासनम्, चाकायनम्
कात्वा, कापयित्वा, चिकासित्वा, चाकायित्वा
प्रकाय, प्रकाप्य, प्रचिकास्य, प्रचाकाय्य
कायम् २, कात्वा २, कापम् २, कापयित्वा २, चिकासम् २, चिकासित्वा २, चाकायम्
चाकायित्वा
22 इत्यादिना कन् प्रत्ययः।
काकः = वायसः।]] काकः।
प्रासङ्गिक्यः
01
=>
(२६३)
02
=>
(१-भ्वादिः-९१६। अक। अनि। पर।)
03
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यनैमित्तिक आत्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः।]]
04
=>
[[२। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति पुक्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। ‘सन्यङोः’ (६-१-९) इति द्वित्वे, ‘सन्यतः’ (७-४-७९) इत्यभ्यासस्य इत्वम्। एवं सर्वत्र सन्नन्ते बोध्यम्। धातोरनुदात्तत्वात् सन इडागमो न।]]
06
=>
[[४। ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[५। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यत्र ‘अशिति’ इति प्रतिषेधात् आत्वं न। ‘एचोऽयवायावः’ (६-१-७८) इत्यायादेशः।]]
08
=>
[[६। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इत्यात्मनेपदम्, शानच्।]]
09
=>
[[७। आत्वे, सोः रुत्वविसर्गयोः रूपम्।]]
10
=>
[[८। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
11
=>
[[९। ‘इयाऽऽद्व्यधाश्रु--’ (३-१-१४१) इत्यादिना आदन्तलक्षणो णः प्रत्ययः। युगागमः।]]
12
=>
[[१०। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदेऽणपवादः कः प्रत्ययः। नरान् काय- तीति नरकः। स्त्रियां, ‘मामकनरकयोरुपसंख्यानम्’ (वा। ७-३-४४) इति इत्वम्।]]
13
=>
[[११। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच्।]]
14
=>
[[१२। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः। युक्। ध्वाङ्क्ष इव कायतीति ध्वाङ्- क्षकायी।]]
15
=>
[[१३। यङन्तादचि, ‘न धातुलोप आर्धधातुके’ (१-१-४) इति सूत्रस्य प्रत्याख्यानात् पृथगल्लोपे, यङो लुकि, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे रूपम्।]]
16
=>
[पृष्ठम्०२६८+ २४]
17
=>
[[१। ‘कृत्यचः’ (८-४-२९) इति णत्वम्।]]
18
=>
[[२। ‘अचो यत्’ (३-१-९७) इति यति, ‘ईद्यति’ (६-४-६५) इति धात्वाकारस्य ईकारे गुणः।]]
19
=>
[[३। ‘आतो युच्’ (३-३-१२८) इतीषदादिषूपपदेषु खलपवादो युच्।]]
20
=>
[[४। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
21
=>
[[५। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति पर्युदासाण्णत्वं न।]]
22
=>
[[६। ‘इण्भीकापा--’ [द। उ। ३-२१]