| YouTube Channel

काण्डतिक्तः (kANDatiktaH)

 
Wordnet
Sanskrit
Synonyms:
भूनिम्बः, किराततिक्तः, अनार्यतिक्तः, भूतिकम्, कैरातः, रामसेनकः, हैमः, काण्डतिक्तः, किरातकः, कटुतिक्तः
noun
पर्वतप्रदेशेषु प्राप्यमाणः औषधीयक्षुपः यः एकवर्षीयः वा द्विवर्षीयः वा भवति, यस्य उन्नतिः द्व्यङ्गुलादारभ्य चतुरङ्गुलपर्यन्तं भवति।
"भूनिम्बस्य मूलरूपं नेपालदेशे प्राप्यते।"
शब्दकल्पद्रुमः
Sanskrit
काण्डतिक्तः,
पुं,
(काण्डे स्कन्धे तिक्तः ।) भूनिम्बः इतिराजनिर्घण्टः
(अस्य पर्य्यायो यथा, --“किराततिक्तः कैरातः कटुतिक्तः किरातकः ।काण्डतिक्तो नोर्य्यतिक्तो भूनिम्बो रामसेनकः”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे गुणा-दयोऽस्य किराततिक्तशब्दे ज्ञेयाः
)