| YouTube Channel

काणयित्वा (kANayitvA)

 
Kridanta Forms
Sanskrit
कण् (क꣡णँ꣡ निमीलने - चुरादिः - सेट्)
ल्युट् = काणनम्
अनीयर् = काणनीयः - काणनीया
ण्वुल् = काणकः - काणिका
तुमुँन् = काणयितुम्
तव्य = काणयितव्यः - काणयितव्या
तृच् = काणयिता - काणयित्री
क्त्वा = काणयित्वा
ल्यप् = प्रकाण्य
क्तवतुँ = काणितवान् - काणितवती
क्त = काणितः - काणिता
शतृँ = काणयन् - काणयन्ती
शानच् = काणयमानः - काणयमाना
कृदन्तरूपमाला
Sanskrit
1 {@“कण शब्दार्थः”@} 2 ‘कणेः कणति शब्दार्थे, काणयेण्णौ निमीलने।।’ 3 इति देवः।
काणकः-णिका, काणकः-णिका, चिकणिषकः-षिका, 4 चङ्कणकः-णिका
कणिता-त्री, काणयिता-त्री, चिकणिषिता-त्री, चङ्कणिता-त्री
कणन्-न्ती, काणयन्-न्ती, चिकणिषन्-न्ती
-- कणिष्यन्-न्ती-ती, काणयिष्यन्-न्ती-ती, चिकणिषिष्यन्-न्ती-ती
-- -- काणयमानः, काणयिष्यमाणः, 5 चङ्कण्यमानः, चङ्कणिष्यमाणः
6 काण्-काणौ-काणः
-- -- -- कणितम्-तः, काणितः-तम्, चिकणिषितः, चङ्कणितः-तवान्
कणः, 7 उत्कणः, 8 कङ्कणः, काणः, चिकणिषुः, चिकाणयिषुः, चङ्कणः
कणितव्यम्, काणयितव्यम्, चिकणिषितव्यम्, चङ्कणितव्यम्
कणनीयम्, काणनीयम्, चिकणिषणीयम्, चङ्कणनीयम्
काण्यम्, काण्यम्, चिकणिष्यम्, चङ्कण्यम्
ईषत्कणः-दुष्कणः-सुकणः
-- -- कण्यमानः, काण्यमानः, चिकणिष्यमाणः, चङ्कण्यमानः
काणः, 9 कणः, काणः, चिकणिषः, चङ्कणः
कणितुम्, काणयितुम्, चिकणिषितुम्, चङ्कणितुम्
10 कणितिः, काणना, चिकणिषा, चिकाणयिषा, चङ्कणा
कणनम्, काणनम्, चिकणिषणम्, चङ्कणनम्
11 कणित्वा, काणयित्वा, चिकणिषित्वा, चङ्कणित्वा
सङ्कण्य, सङ्काण्य, सञ्चिकणिष्य, सञ्चङ्कण्य
काणम् २, कणित्वा २, काणम् २, काणयित्वा २, चिकणिषम् २, चिकणिषित्वा २, चङ्कणम्
चङ्कणित्वा
12 कण्ठः, 13 कण्वः।
प्रासङ्गिक्यः
01
=>
(१५७)
02
=>
(१-भ्वादिः-४४९। सक। सेट्। पर।)
03
=>
(श्लो-९०)
04
=>
[[१। यङि अभ्यासस्य ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुक्।]]
05
=>
[[२। शानचः शित्त्वात् ‘कर्तरि शप्’ (३-१-६८) इति शप्। तस्य ‘अतो गुणे’ (६-१-९७) इति पररूपम्। ‘आने मुक्’ (७-२-८२) इति मुक्।]]
06
=>
[[३। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः।]]
07
=>
[[आ। ‘अणद्दिशः केलिरणैर्मनोज्ञया वाण्या भणन्तो मणिभूषणोत्कणाः। बनात्कुमाराः क्वणिताग्र्यवेणवो व्रणद्विषाणभ्रणिताभ्रमाययुः।।’ धा। का। १-५८।]]
08
=>
[[४। ‘कं शुभं कणति इति कङ्कणम् = करभूषणम्। पचाद्यच् (३-१-१३४)।’ इत्यमरसुधा।]]
09
=>
[[५। ‘गोचरसंचर--’ (३-३-११९) इति सूत्रे चकारस्यानुक्तसमुच्चयार्थकत्वात् अस्यापि धातोः घप्रत्ययः संज्ञायां भवति। कणः = लेशः सूक्ष्मतण्डुलश्च।’ इति मा। धा। वृत्तौ।]]
10
=>
[[६। ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति पर्युदासादिड् भवति। यथा भणिति- रित्यत्र।]]
11
=>
[पृष्ठम्०१५२+ २४]
12
=>
[[१। औणादिके (द। उ। ५-६) ठप्रत्यये रूपम्। कण्ठः = गलः।]]
13
=>
[[२। औणादिके (द। उ। ८-१२५) क्वन् प्रत्यये रूपम्। कण्वं = पापम्। कण्वः = ऋषिः।]]
1 {@“कण गतौ”@} 2 घटादिः।
अस्य घातोः पूर्वोकणतिवत् 3 शुद्धात्-सन्नन्तात्-यडन्ताच्च रूपाणि ज्ञेयानि।
ण्यन्ते परम्-- 4 कणकः-णिका, ईषत्कणः-दुष्कणः-सुकणः
कणयिता-त्री, कण्यमानः
5 कणयन्-न्ती, कणः
कणयिष्यन्-न्ती-ती, कणयितुम्
कणयमानः, कणना
कणयिष्यमाणः, कणनम्
कणितः-तवान्, कणयित्वा
कणयिषुः, 6 प्रकणय्य
कणयितव्यम्, 7 कणम्
कणनीयम्, काणम्
8 कण्यम्, काणयित्वा
इति रूपाणीति विशेषः।
एतच्च गत्यर्थकत्वे एव 9।
अन्यार्थकत्वे तु काणयिता-इत्यादीनि रूपाण्येव, पूर्ववत्।
10
प्रासङ्गिक्यः
01
=>
(१५८)
02
=>
(१-भ्वादिः-७९४। सक। सेट्। पर।)
03
=>
(१५७)
04
=>
[[३। घटादिपाठात् मित्त्वम्। ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः।]]
05
=>
[[आ। ‘अगन्मनीषः कणयन् मुकुन्दमस्मान् वियोगं रणयन् दूतः। चणन् विषादं विशणन् विचिन्तां श्रणन् विमोहं श्रथितोऽस्तु सद्यः।।’ धा। का। २। ९।]]
06
=>
[[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
07
=>
[[६। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घो वा।]]
08
=>
[[४। ‘अचो यत्’ (३-१-९७) इति यत्।]]
09
=>
(धातूनामनेकार्थकत्वात्)
10
=>
[पृष्ठम्०१५३+ २५]
1 {@“कण निमीलने”@} 2 ‘कणेः कणति शब्दार्थे, काणयेण्णौ निमीलने।’ 3 इति देवः।
काणकः-णिका, चिकाणयिषकः-षिका
काणयिता-त्री, चिकाणयिषिता-त्री
काणयन्-न्ती, चिकाणयिषन्-न्ती
काणयिष्यन्-न्ती-ती, चिकाणयिषिष्यन्-न्ती-ती
काणयमानः, चिकाणयिषमाणः
काणयिष्यमाणः, चिकाणयिषिष्यमाणः
काण्-काणौ-काणः, -- काणितम्-तः, चिकाणयिषितः-तवान्
4 काणः 5, चिकाणयिषुः
काणयितव्यम्, चिकाणयिषितव्यम्
काणनीयम्, चिकाणयिषणीयम्
काण्यम्, चिकाणयिष्यम्
ईषत्काणः-दुष्काणः-सुकाणः
-- काण्यमानः, चिकाणयिष्यमाणः
काणः, चिकाणयिषः
काणयितुम्, चिकाणयिषितुम्
काणना, चिकाणयिषा
काणनम्, चिकाणयिषणम्
काणयित्वा, चिकाणयिषित्वा
सङ्काण्य, सञ्चिकाणयिष्य
काणम् २, काणयित्वा २, चिकाणयिषम्
चिकाणयिषित्वा २। 6
प्रासङ्गिक्यः
01
=>
(१५९)
02
=>
(१०-चुरादिः-१७१६। सक। सेट्। उभ।)
03
=>
(श्लो। ९०)
04
=>
[[आ। ‘सञ्चर्चयन् अपनयानथ बुक्कयिष्णुः श्वेवोग्रशब्दनपरः कररुद्धकाणः। मल्लो जिजम्भिषुरसूदितवीर्यमीशं मुष्ट्या जजास बहु पाशितवांश्च दोष्णा।।’ धा। का। ३-३८।]]
05
=>
[[१। स्वभावात् एकस्य नेत्रस्य दर्शनशक्तिराहित्ये एवायं प्रयुज्यते।]]
06
=>
[पृष्ठम्०१५४+ २७]