| YouTube Channel

काञ्जिकवटकः (kAJjikavaTakaH)

 
शब्दकल्पद्रुमः
Sanskrit
काञ्जिकवटकः,
पुं,
(काञ्जिकयोगेन कृतो वटकः ।)वटकविशेषः काँजि वडा इति भाषा तस्यपाकप्रकारो यथा, --“मन्थनी नूतना धार्य्या कटुतैलेन लेपिता ।निर्म्मलेनाम्बुनापूर्य्य तस्याञ्चूर्णं विनिक्षिपेत्
राजिकाजीरलवणहिङ्गुशुण्ठीनिशाकृतम् ।निक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत्
ततो दिनत्रयादूर्द्ध्वमम्लाः स्युर्वटका ध्रुवम्”
अस्य गुणाः ।“काञ्जिकवटको रुच्यो वातहरः श्लेष्मकारकः शीतः ।दाहं शूलमजीर्णं हरते नेत्रामयेष्वहितः”
इति भावप्रकाशः