| YouTube Channel

काञ्जिकं (kAJjikaM)

 
शब्दकल्पद्रुमः
Sanskrit
काञ्जिकं,
क्ली,
(अन्ज + धात्वर्थनिर्द्देशे ण्वुल् + टाप् अतइत्वञ्च अञ्जिका कु कुत्सिता अञ्जिका व्यक्तिर्यस्यकोः कादेशः ।) वारिपर्य्युषितान्नाम्लजलम् काँजीइति भाषा तत्पर्य्यायः आरनालकम् सौवीरम्३ कुल्माषम् अभियुतम् अवन्तिसोमम्६ धान्याम्लम् कुञ्जलम् इत्यमरः ३९
कुल्मासम् कुल्माषाभियुतम् १० काञ्चिकम् ११काञ्जीकम् १२ काञ्जिका १३ कञ्जिकम् १४ काञ्जी१५ भक्तवारि १६ धान्यमूलम् १७ धान्ययोनि१८ तुषाम्बु १९ इति तट्टीका
गृहाम्लम् २०महारसम् २१ इति रत्नमाला
तुषोदकम् २२शुक्लम् २३ चुक्रम् २४ धातुघ्नम् २५ उन्नाहम् २६रक्षोघ्नम् २७ कुण्डगोलकम् २८ सुवीराम्लम् २९ ।इति हेमचन्वा
वीरम् ३० अभिशवम् ३१ अम्ल-सारकम् ३२ अस्य गुणा वातशोथपित्तज्वर-दाहमूर्च्छाशूलाध्मानविबन्धनाशित्वम् ।“काञ्जिकं दधि तैलन्तु बलीपलितनाशनम् ।दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम्”
मर्द्दनान्न भक्षणात् इति राजनिर्घण्टः
अ-पि भेदकत्वम् तीक्ष्णत्वम् उष्णत्वम् ।पित्तरुचिवस्तिशुद्ध्यग्निवृद्धिकारित्वम् स्पर्शे शी-तलत्वम् श्रमक्लमनाशित्वञ्च पुरातनस्य तस्यगुणः हृत्पाण्डुकृमिरोगनाशित्वम् अग्निवृद्धि-कारित्वञ्च इति राजबल्लभः
*
“कुल्माषधान्यमण्डेन चाशृतं काञ्जिकं भवेत्
यन्मस्त्वादिशुचौ भाण्डे गुडक्षौद्रकाञ्जिकम् ।धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते”
इति वैद्यकपरिभाषा