काञ्जिक (kAJjika)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishकाञ्जिक [kāñjika] काञ्जिका [kāñjikā] काञ्जी [kāñjī] काञ्जीकम् [kāñjīkam], काञ्जिका काञ्जी काञ्जीकम् Sour gruel.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiकाञ्जिकम्
- कुत्सिका अञ्जिका प्रकाशो यस्य - कु - अञ्ज् - ण्वुल् - इत्वम् को कादेशः
"खटास से युक्त एक प्रकार का पेय, काँजी"
Anekartha-Dvani-Manjari
Sanskritसौवीर
पु
सौवीर, काञ्जिक
सौवीरोऽश्वविशेषः स्यात् सौवीरं काञ्जिकं मतम् ॥ ७१ ॥
verse 2.1.1.71
page 0012
अभिधानचिन्तामणिः
Sanskritकाञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।
कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥
चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।
महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥
तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
काञ्चिक (क्ली), काञ्जिक (क्ली), धान्याम्ल (क्ली), अरनाल (क्ली), तुषोदक (क्ली), कुल्माष (क्ली), अभिषुत (क्ली), अवन्तिसोम (क्ली), शुक्त (क्ली), कुञ्जल (क्ली), चुक्र (पुंक्ली), धातुघ्न (क्ली), उन्नाह (क्ली), रक्षोघ्न (क्ली), कुण्डगोलक (क्ली), महारस (क्ली), सुवीराम्ल (क्ली), सौवीर (क्ली), म्रक्षण (क्ली), तैल (क्ली), स्नेह (पुंक्ली), अभ्यञ्जन (क्ली), वेषवार (पुं), उपस्कर (पुं)
अभिधानरत्नमाला
Sanskritधान्याम्ल
धान्याम्ल, आरनाल, सन्धान, काञ्जिक, सौवीर, अभिषव, अवन्तिसोम, तुषोदक, शुक्त
धान्याम्लमारनालं सन्धानं काञ्जिकं च सौवीरम् ।
अभिषवमवन्तिसोमं तुषोदकं शुक्तमिच्छन्ति ॥ ३१८ ॥
verse 2.1.1.318
page 0038
अमरकोशः
SanskritWord: काञ्जिकम्
Root: काञ्जिक
Gender: नपुं
Number: all
Meaning(s):
⇒ sour gruel
⇒ water of boiled rice in a state of spontaneous fermentation
Shloka(s):
2|9|39|1 ► आरनालकसौवीरकुल्माषाभिषुतानि च। (वैश्यवर्गः)
2|9|39|2 ► अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके॥ (वैश्यवर्गः)
Synonym(s):
➠ 2|9|39|1 ⇢ आरनालकम् (आरनालक) (नपुं)
➠ 2|9|39|1 ⇢ सौवीरम् (सौवीर) (नपुं)
➠ 2|9|39|1 ⇢ कुल्माषम् (कुल्माष) (नपुं) ⇒ forced rice, sort of bean [Phaseolus - Bot.], species of peas [Dolichos - Bot]
➠ 2|9|39|1 ⇢ अभिषुतम् (अभिषुत) (नपुं)
➠ 2|9|39|2 ⇢ अवन्तिसोमम् (अवन्तिसोम) (नपुं)
➠ 2|9|39|2 ⇢ धान्याम्लम् (धान्याम्ल) (नपुं)
➠ 2|9|39|2 ⇢ कुञ्जलम् (कुञ्जल) (नपुं)
➠ 2|9|39|2 ⇢ काञ्जिकम् (काञ्जिक) (नपुं) ⇒ sour gruel, water of boiled rice in a state of spontaneous fermentation
Related word(s):
अवयव_अवयवीसंबन्धः ➡ हरिद्रासर्षपमरीचादिचूर्णम्
उपाधि ➡ प्राकृतिकखाद्यम्
शब्दकल्पद्रुमः
Sanskritकाञ्जिकं, (अन्ज + धात्वर्थनिर्द्देशे ण्वुल् + टाप् अतइत्वञ्च । अञ्जिका । कु कुत्सिता अञ्जिका व्यक्तिर्यस्यकोः कादेशः ।) वारिपर्य्युषितान्नाम्लजलम् । काँजीइति भाषा । तत्पर्य्यायः । आरनालकम् २ सौवीरम्३ कुल्माषम् ४ अभियुतम् ५ अवन्तिसोमम्६ धान्याम्लम् ७ कुञ्जलम् ८ । इत्यमरः । २ । ९ । ३९ ॥
कुल्मासम् ९ कुल्माषाभियुतम् १० काञ्चिकम् ११काञ्जीकम् १२ काञ्जिका १३ कञ्जिकम् १४ काञ्जी१५ भक्तवारि १६ धान्यमूलम् १७ धान्ययोनि१८ तुषाम्बु १९ । इति तट्टीका ॥
गृहाम्लम् २०महारसम् २१ । इति रत्नमाला ॥
तुषोदकम् २२शुक्लम् २३ चुक्रम् २४ धातुघ्नम् २५ उन्नाहम् २६रक्षोघ्नम् २७ कुण्डगोलकम् २८ सुवीराम्लम् २९ ।इति हेमचन्वा ॥
वीरम् ३० अभिशवम् ३१ अम्ल-सारकम् ३२ । अस्य गुणा । वातशोथपित्तज्वर-दाहमूर्च्छाशूलाध्मानविबन्धनाशित्वम् ।“काञ्जिकं दधि तैलन्तु बलीपलितनाशनम् ।दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम्” ॥
मर्द्दनान्न च भक्षणात् । इति राजनिर्घण्टः ॥
अ-पि च । भेदकत्वम् । तीक्ष्णत्वम् । उष्णत्वम् ।पित्तरुचिवस्तिशुद्ध्यग्निवृद्धिकारित्वम् । स्पर्शे शी-तलत्वम् । श्रमक्लमनाशित्वञ्च । पुरातनस्य तस्यगुणः । हृत्पाण्डुकृमिरोगनाशित्वम् । अग्निवृद्धि-कारित्वञ्च । इति राजबल्लभः ॥
* ॥
“कुल्माषधान्यमण्डेन चाशृतं काञ्जिकं भवेत् ॥
यन्मस्त्वादिशुचौ भाण्डे स गुडक्षौद्रकाञ्जिकम् ।धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते” ॥
इति वैद्यकपरिभाषा ॥
वाचस्पत्यम्
Sanskritकाञ्जिक अन्ज--धात्वर्थनिर्देशे ण्वुल् कुत्सिता अञ्जिकाव्यक्तिर्यस्य । आरनाले (काँजि) हेमच० ।तस्य ग्रणादि साव० प्र० उक्तं यथा “काञ्जिकं रोचनं रुच्यंपाचनं वह्निदीपनम् । शूलाजीर्ण्णविबन्धघ्नं कोष्ठशुद्धि-करं परम्” अन्यत्र वैद्यके च “संहितं धान्यमण्डादिकाञ्जिकं कथ्यते जनैः । काञ्जिकम्भेदि तीक्ष्णोष्णं रोचनंपाचनं लघु । दाहज्वरहरं स्पर्शात् पानाद्वातकफापहम् ।नाषादिवटकैर्यत्तु क्रियते तद्गुणाधिकम् । लघु वातहरंतत्तु रोचनं पाचनम्परम् । शूलाजोर्णविबन्धानांनाशनं वस्तिशोधनम् । धान्याम्लमच्छतरमामनिवारिहारि शुण्ठीरजोलवणजीरकसंस्कृतं यत् । आवासितंसुरभि हिङ्गुकणेन यत्नात् तेनाशुशुक्षणिकणोऽधिकतांप्रयाति । एलामहौषधविभावितमाणिमन्थं संसिद्ध-मामलकमेदककाञ्जिकं यत् । मन्दं विवर्द्धयति जाठर-वीतिहोत्रं निर्वाणदीपमिव गन्धकचूर्ण्णयोगः । काञ्जिकंरुचिदं हृद्यं स्वच्छमग्निकरं परम् । वातहृद्बलदंश्रेष्ठं गुर्वाहारस्य पाचकम्” । अन्यत्र च “काञ्जिकंदधितैलन्तु बलीपलितनाशनम् । गात्रशैथिल्यदानायमर्द्दनान्न च भक्षणात्” । भावप्र० तद्भेदतद्विधाना-द्युक्तं यथा--“कुल्माषधान्यमण्डेन संहितं काञ्जिकंभवेत् । यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्र-काञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदु-च्यते । तुषाम्बुसंहितम् ज्ञेयमामैर्विदलितैर्यवैः ।यवेस्तु निस्तुषैः पक्वैः सौवीरं साधितं भवेत् । आर-नालन्तु गोधूमैरामैः स्यान्निस्तुषीकृतैः । पक्वैर्वा संहितैस्तत्तु सौवीरसदृशं गुणैः । कल्माषधान्यमण्डादि संहितंकाञ्जिकं विदुः । शिण्डिका संहिता ज्ञेया मूलकैःसर्षपादिभिः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
