| YouTube Channel

कागदं (kAgadaM)

 
शब्दकल्पद्रुमः
Sanskrit
कागदं,
क्ली,
(कागः काकवर्णः मस्यादिर्दीयते अत्रइति काग + दा + घञर्थे आधारे कः कस्यचित्तस्य आगदो विस्तारितभाषणं यत्र वा ।) लेखन-पत्रविशेषः कागज इति आर्वी भाषा यथा, “भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ।कागदे चाष्टगन्धेन पञ्चगन्धेन वा पुनः
त्रिगन्धेनाथवैकेन विलिख्य धारयेन्नरः ।पञ्च सप्तत्रिलोकैर्व्वा शोधितं कवचं शुभम्”
इति श्रीघनानन्ददासविरचितमन्त्रकल्पद्रुमे हनू-मत्कवचम्