| YouTube Channel

काकोली (kAkolI)

 
Monier Williams Cologne
English
काकोली
f.
id.,
Car.
vi, 13
viii, 10.
Wordnet
Sanskrit
Synonyms:
काकोली, मधुरा, काकी, कालिका, वायसोली, क्षीरा, ध्मांक्षिका, वीरा, शुक्ला, धीरा, मेदुरा, ध्मांक्षोली, स्वादुमांसी, वयःस्था, जीवनी, शुक्लक्षीरा, पयस्विनी, पयस्या, शीतपाकी
noun
शतावर्याः इव लताप्रकारः।
"काकोल्याः मूलं भेषजरूपेण उपयुज्यते।"
शब्दकल्पद्रुमः
Sanskrit
काकोली,
स्त्री,
(काकोल + गौरादित्वात् ङीष् ।)अष्टवर्गे प्रसिद्धौषधविशेषः तत्पर्य्यायः मधुरा२ काकी कालिका वायसोली क्षीरा ६ध्माङ्क्षिका वीरा शुक्ला धीरा १० मेदुरा११ ध्माङ्क्षोली १२ स्वादुमांसी १३ वयःस्था १४जीवनी १५ शुक्लक्षीरा १६ पयस्विनी १७ इतिराजनिर्घण्टः
पयस्या १८ शीतपाकी १९ इतिरत्नमाला
अस्या गुणाः शीतत्वम् मधुरत्वम् ।क्षयपित्तानिलार्त्तिरक्तदाहज्वरनाशित्वम् कफ-शुक्रवर्द्धकत्वञ्च इति राजनिर्घण्टः
(क्षीरकाकोलीशब्दे चास्या विशेषविवरणंज्ञातव्यम्
काकोल्यादिगणोयथा, “काकोली-क्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदा-महामेदाछिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्र-पौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्योभधुकञ्चेति” ।“क्राकोल्यादिरयं पित्तशोणितानिलनाशनः ।जीवनो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा”
इति सुश्रुते सूत्रस्थाने ३८ अध्याये
)
वाचस्पत्यम्
Sanskrit
काकोली स्त्री काकोल + गौरा० ङीष् “जीवकर्षभकौमेदे काकोल्यौ ऋद्धिवृद्धिके अष्टवर्गोऽष्टभिर्द्रव्यैःकथितश्चरकादिभिः” इति भावप्रकाशीक्ताष्टवर्गान्तर्गतेलताभेदे तद्भेदलक्षणगुणादिकं भावप्र० उक्तं यथा“जायते क्षीरकाकोली महामेदोद्भवस्थले यत्र स्यात्क्षीरकाकोली काकोली तत्र जायते पीवरीस-दृशः कन्दः क्षीरं स्रवति गन्धवान् सा प्रोक्ताक्षीरकाकोली काकोल्यपि तथा भवेत् एषा किञ्चिद्-भवेत् कृष्णा भेदोऽयमुभयोरपि काकोली वायसोली चवीरा कायस्थिका तथा सा शुक्ला क्षीरकाकोली वयस्थाक्षीरवल्लिका कथिता क्षीरिणी धारा क्षीरशुक्ला पय-स्विनी काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु वृहणंवातदाहास्रपित्तशोषज्वरापहम्” “सोमामृताश्वगन्धासुकाकोल्यादौ गणे तथा क्षीरिप्ररोहेष्वपि वर्त्तयो-रोपणाः स्मृताः” “समङ्गा सोमसरला सोमवल्का स-चन्दना काकोल्यादिश्च कल्कःस्यात् प्रशस्तोव्रणरोपणे” ।“पृश्निपर्ण्यात्मगुप्ता हरिद्रे मालती सिता काको-ल्यादिश्च योज्यःस्यात् प्रशस्तोरोपणे घृते” इति सुश्रु०