| YouTube Channel

काकाण्ड (kAkANDa)

 
Monier Williams Cologne
English
काकाण्ड
m.
a kind of bean,
Suśr.
Diospyros tomentosa,
L.
Melia Bukayun,
L.
शब्दकल्पद्रुमः
Sanskrit
काकाण्डः,
पुं,
(काक्या अण्ड इव फलं यस्य काकी-त्यस्य पुंवद्भावः ।) महानिम्बः काकतिन्दुः ।इति राजनिर्घण्टः
(“माषैः समान फलमात्मगुप्त-मुक्तञ्च काकाण्डफलन्तथैव”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये
यस्मिन्व्यवह्रियते तद्यथा, --“काकाण्डसुरसगवाक्ष्यापुनर्नवा वायसी शिरीषफलैः ।उद्बुद्धविषजलमृतलेपौषधनस्यपानानि”
इति चरके चिकित्सास्थाने २५ अध्याये
)
वाचस्पत्यम्
Sanskrit
काकाण्ड
पु०
काक्या अण्ड इव फलं यस्याः पुंवत् महा-निम्बे तस्य गुणादि सुश्रुतेनोक्तं यथा “माषैः समानंफलमात्मगुप्तमुक्तञ्च काकाण्डफलं तथैव” कोलशिम्ब्याम्स्त्री गौरा० ङीष् तदन्तः महाज्योतिष्मत्यां राजनि० ।६ त० काक्याअण्डे पुंन०