| YouTube Channel

काकरुत (kAkaruta)

 
Apte Hindi
Hindi
काकरुतम्
नपुं*
काकः - रुतम् -
कौवे की कर्कश ध्वनि
Shabdartha Kaustubha
Kannada
काकरुत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಾಗೆಯ ಶಬ್ದ /ಕಾಗೆಯ ಕೂಗು
व्युत्पत्तिः - > काकस्य रुतम्
प्रयोगाः - > "दिवा काकरुताद्भीता रात्रौ तरति नर्मदाम्"
L R Vaidya
English
kAka-ruta {% n. %} the shrill sound of a crow. It is considered as indicative of future good or evil under different circumstances.
Aufrecht Catalogus Catalogorum
English
काकरुत augury. Bd. 984.
वाचस्पत्यम्
Sanskrit
काकरुत
न०
काकस्य रुतम् काकशब्दे काकादिरवादेः भावि-शुभाशुमसूचकतया शकुनत्वं यथाह वृह० सं० ९५ अ० ।“प्राच्यानां दक्षिणतः शुभदः काकः करालको वामे ।विपरीतमन्यदेशेष्ववधिर्लोकप्रसिद्ध्यैव वैशाखे निरुपहतेवक्षे नीडः सुभिक्षशिवदाता निन्दितकण्टकिशुष्के-ष्वसुभिक्षभयानि तद्देशे नीडः प्राक्छाखायां शरदिभवेत्प्रथमवृष्टिरपरस्याम् याम्योत्तरयोर्मध्या प्रधान-वृष्टिस्तरोरुपरि शिखिदिशि मण्डलवृष्टिर्नैरृत्यां शार-दस्य निष्पत्तिः परिशेषयोः सुभिक्षं मूषकसम्पत्तुवायव्ये शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु ।शून्यो भवति देशश्चौराऽनावृष्टिरोगार्त्तः द्वित्रिचतुः ।शावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् अण्डावकिरण-मेकाण्डताप्रसूतिश्च शिवाय चौरकवर्णैश्चौराश्चित्रै-र्मृत्युः सितैश्च वह्निभयम् विकलैर्दुर्भिक्षभयं काकानांनिर्द्दिशेच्छिशुभिः अनिमित्तसंहतैर्ग्राममध्यगैः क्षु-द्भयं प्रवाशद्भिः रोधश्चक्राकारैरभिघातो वर्गवर्गस्थैः ।अभयाश्च तुण्डपक्षैश्चरणविघातैर्जनानभिभवन्तः कुर्वन्तिशत्रुवृद्धिं निशि विचरन्तो जनविनाशम् सव्येन खेभ्रमद्भिः स्वभयं, विपरीतमण्डलैश्च परात् अत्याकुलंभ्रमद्भिर्वातोद्भ्रामो भवति काकैः ऊर्ध्वमुखाश्चलपक्षाःपथि भयदाः क्षुद्भयाय धान्यमुषः सेनाङ्गस्था युद्धंपरिमोषं चान्यभृतपक्षाः भस्मास्थिकेशपत्राणि विन्य-सन् पतिबधाय शय्यायाम् मणिकुसुमाद्यवहनेन सुतस्यजन्माङ्गनायाश्च पूर्णाननेऽर्थलाभः सिकताधान्यार्द्र-मृत्कुसुमपूर्वैः भयदो जनसंवासाद् यदि भाण्डान्य-पनयेत्काकः वाहनशस्त्रोपानच्छत्रच्छायाङ्गकुट्टने मर-णम् तत्पूजायां पूजा विष्ठाकरणेऽन्नसम्प्राप्तिः ।यद्द्रव्यमुपनयेत्तस्य लब्धिरपहरति चेत्प्रणाशः स्यात् ।पीतद्रव्ये कनकं, वस्त्रं कार्पासिके, सिते रूप्यम् सक्षीरा-र्ज्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च प्रावृषि वृष्टिंदुर्द्दिनमनृतौ स्नाताश्च पांशुजालैः दारुणनादस्तरुकोट-रोपगो वायसो महाभयदः सलिलमवलोक्य विरुवन्वृष्टिकरो ऽब्दानुरावी वा दीप्तोद्विग्नो विटपे विकुट्ट-यन् वह्निकृद्विघुतपक्षः रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहेविदधत् ऐन्द्रादिदिगवलोकी सूर्य्याभिमुखो रुवन् गृहेगृहिणः राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति ।शान्तामैन्द्रीमवलोकयन् रुयाद्राजपुरुषमित्राप्तिः भवतिच सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च आग्नेय्यामन-लाजीविकयुवतिप्रवरधातुलाभश्च याम्ये माषकुलत्थाभोज्य गान्धर्विकैर्योगः नैरृत्यां दूताश्वोपकरण-दधितैलपललभोज्याप्तिः वारुण्यां मांससुरासवधान्य-समुद्ररत्नाप्तिः मारुत्यां शस्त्रायुघसरीजवल्लीफलाशना-प्तिश्च सौम्यायां परमान्नाशनतुरङ्गाम्बरप्राप्तिः ।ऐशान्यां सम्प्राप्तिर्घृतपूर्णानां भवेदनडुहश्च एवंफलंगृहपतेर्गृहपृष्ठसमाश्रिते भवति गमने कर्णसमश्चेत्क्षेमाय कार्य्यसिद्धये मवति अभिमुखमुपैति यातु-र्विरुवन्विनिवर्त्तयेद्यात्राम् वामे वाशित्वादौ दक्षिण-पार्श्वेऽनुवाशते यातुः अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः यदि वाम एव विरुयान् मुहुर्मुहुर्यायिनोऽनुलोमगतिः अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिण-श्चैवम् वामः प्रतिलोमगतिर्वाशन् गमनस्य विघ्नकृद्भवति ।तत्रस्थस्यैव फलं कथयति यद्वाञ्छितं गमने दक्षिण-विरुतं कृत्वा वामे विरुयाद्यथेप्सितावाप्तिः प्रतिवाश्यपुरो यायाद् द्रुतमग्रेऽर्थागमोऽतिमहान् प्रतिवाश्यपृष्ठतो दक्षिणेन यायाद् द्रुतं क्षतजकर्त्ता एकचरणोऽर्कमीक्षन् विरुवंश्च पुरी रुधिरहेतुः दृष्ट्वार्कमेकपाद-स्तुण्डेन लिखेद्यदा स्वपिच्छानि परतो जनस्य महतोबधमभिधत्ते तदा बलिभुक् सस्योपेते क्षेत्रे विरुवतिशान्ते ससस्यभूलब्धिः आकुलचेष्टो विरुवन् सीमान्तेक्लेशकृद्यातुः सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभि-मधुरेषु सक्षीराव्रणसुस्थितमनोज्ञवृक्षेषु चार्थकरः ।निष्पन्नसस्यशाद्वलभवनप्रासादहर्म्यहरितेषु धान्योच्छ्रय-मङ्गल्येषु चैव विरुवन् धनागमदः गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजङ्गस्य सद्यो ज्वरो महिषगे विरुवतिगुल्मे फलं स्वल्पम् कार्य्यस्य व्याघातस्तृणकूटे वामगेऽस्थिसंस्थे वा ऊर्ध्वाग्निप्लुष्टे ऽशनिहते काके वधोभवति कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कल-हश्च कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः ।छिन्नाग्रेऽङ्गच्छेदः कलहः शुष्कद्रुमस्थिते ध्वाङ्क्षे पुर-तश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः मृतपुरुषाङ्गाव-स्थितो ऽभिवाशन् करोति मृत्युभयम् भञ्जन्नस्थि चचञ्च्वा यदि वाशत्यस्थिभङ्गाय रज्ज्वस्थिकाष्ठकण्टकि-निःसारशिरोरुहानने रुवति भुजगगददंष्ट्रितस्कर-शस्त्राग्निभयान्यनुक्रमशः सितकुसुमाशुचिमांसाननेऽर्थ-सिद्धिर्यथेप्सिता यातुः वुन्वन् पक्षावूर्ध्वानने चविघ्नं मुहुः क्वणति यदि शृङ्खलां वरत्रां वल्लींवादाय वाशते बन्धः पाषाणस्थे भयं क्लिष्टा-पूर्वाधिकयुतिश्च अन्योऽन्यभक्षसङ्कामितानने तुष्टिरु-त्तमा भवति विज्ञेयः स्त्रीलाभो दम्पत्योर्वाशतो-र्युगपत् प्रमदाशिरौपगतपूर्ण्णकुम्भसंस्थेऽङ्गनार्थ-सम्प्राप्तिः घटकुट्टने सुतविपद् घटोपदहनेऽन्नसम्प्राप्तिः ।स्कन्धावारादीनां निवेशसमये रुवंश्चलत्पक्षः सूचयतेऽन्यस्थानं निश्चलपक्षस्तु मयमात्रम् प्रविशद्भिः सैन्या-दीन् सगृध्रकङ्कैर्विनामिषं ध्वाङ्क्षैः अविरुद्धैस्तैः प्रीति-र्द्विषतां युद्धं विरुद्धेश्च बन्धः शूकरसंस्थे पङ्काक्ते शूकरे द्विकेऽर्थाप्तिः क्षेमं खरोष्ट्रसंस्थे केचित्प्राहुर्बधं तु खरे ।वाहनलाभो ऽश्वगते, विरुवत्यनुयायिनि क्षतजपातः अन्येऽप्यनुव्रजन्तो यातारं काकवद्विहगाः द्वात्रिंशत्प्रविभक्तेदिक्चक्रे यद्यथा समुद्दिष्टम् तत्तत्तथाऽभिधेयं गुण-दोषफलं यियासूनाम् का इति काकस्य रुतं स्वनि-लयसंस्थस्य निष्फलं प्रोक्तम् कवैति चात्मप्रीत्यैक इति रुते स्निग्धमित्राप्तिः कर इति कलहंकुरुकुरु, हर्षमथ कटकटेति दधिभक्तम् केके विरुतंकुकु वा धनलाभं यायिनः प्राह खरे खरे पथिका-गममाह कखाखेति यायिनो मृत्युम् गमनप्रतिषेधक-माखलखल सद्योऽभिवर्षाय काकेति विघातं काक-टीति चाहारदूषणं प्राह प्रीत्यास्पदं कवकवेतिबन्धमेवं कगाकुरिति करकौ विरुते वर्षं गुडवत्त्रासाय, वडिति वस्त्राप्तिः कलयेति संयोगः शूद्रस्यब्राह्मणैः साकम् फडिति फलाप्तिः फलवाहिदर्शनंटडिति प्रहाराः स्युः स्त्रीलाभः स्त्रीति रुते गडि-ति गवां, पुडिति पुष्पाणाम् युद्धाय टाकुटाक्वितिगुहु वह्निभयं कटेकटे कलहः टाकुलि चिण्टिचिकेकेकेति पुरञ्चेति दोषाय काकद्वयस्यापि समा-नमेतत् फलं यदुक्तं रुतचेष्टिताद्यम् पतत्त्रिणो ऽन्यऽपि यथव काको वन्याः श्ववच्चोपरिदंष्ट्रिणो ये स्थलसलिलचराणां व्यत्ययो मेघकाले प्रचुरसलिलवृष्ट्यैशेषकाले भयाय मधु भवननिलीनं तत्करोत्याशु शून्यंमरणमपि निलीनाम क्षिका मूर्घ्निनीला विनिक्षिपन्त्यःसलिले ऽण्डकानि पिपीलिका वृष्टिनिरोधमाहुः ।तरुस्थलं वापि नयन्ति निम्नाद् यदा तदा ताः कथ-यन्ति वृष्टिम् कार्य्यंतु सूलशकुने ऽन्तरजे तदह्निविन्द्यात् फलं नियतमेवमिमे विचिन्त्याः प्रारम्भयान-समयेषु तथा प्रवेशे ग्राह्यं क्षुतं शुभदं क्वचिदप्यु-शन्ति शुभं दशापाकमविघ्नसिद्धिं मूलाभिरक्षामथवा सहायान् इष्टस्य संसिद्धिमनामयत्वं वदन्ति तेमानयितुर्नृपस्य क्रोशादूर्ध्वं शकुनिविरुतं निष्फलंप्राहुरेके तत्रानिष्टे प्रथमशकुने मानयेत्पञ्च षट् ।प्राणायामान्नृपतिरशुभे षोडशैव द्वितीये प्रत्यागच्छेत्स्वभवनमतो यद्यनिष्टस्तृतीयः” ।काकस्य वर्ण्णादिभेदेन विप्रादिभेदकथनपूर्व्वकं कालभेदेनतद्रुतादिफलमुक्तं वसन्तराजशाकुने यथा“अथोच्यते काकरुतं रुतानां मूर्द्ध्नि स्थितं शाकुन-भाषितानाम् अचिन्तितावेदितकार्य्यसिद्धिः पूर्वा-दिकाष्ठाप्रहरक्रमेण ये ब्राह्मणक्षत्रियवैश्यशूद्राःकाका भवन्त्यन्त्यजपञ्चमास्ते वर्णाकृतिभ्यां ऋषिभा-षिताभ्यां सदाभियुक्तैरुपलक्षणीयाः वृहत्प्रमाणोगुरुदीर्घतुण्डो दृढस्वरः कृष्णवपुः विप्रः पिङ्गाक्ष-नीलाक्षविमिश्रवर्णः स्यात् क्षत्रियस्तीक्ष्णरवोऽतिशूरः ।यः पाण्डुनीलः सितनीलचञ्चुर्नात्यर्थरूढो रटितश्चवैश्यः भस्मच्छविर्भूरिककारशब्दः शूद्रः कृशाङ्गश्चपलोनिरूक्षः विरूक्षसूक्ष्मास्यतनुर्विशङ्को यः कन्ध-रादीप्तरवं विभार्त्ति स्थिरारवः स्थैर्य्यसमेतबुद्धिःकाकोऽन्त्यजातिः खलु पञ्चमोऽत्र द्रोणाभिधः कृष्ण-वपुर्द्विजो यो ग्राह्यः काकः स्वलु मुख्यवृत्त्या तस्मा-दृते श्यामगलो निरीक्ष्यः श्वेतश्च निन्द्योऽद्भुतदर्शनेऽसौ विप्रः स्फुटं जल्पति पृछ्यमानो न्यूनं ततः क्षत्रि-यजातिराह आख्याति वैश्यस्त्वधिवासनेन ब्रवीतिशूद्रो वलिदानलोभात् प्रश्नं कृतं जल्पति कृष्णवर्णःसदा समस्तं विहगोऽन्त्यजातिः सद्यस्त्रिसप्ताहदशाह-पक्षैः पञ्चापि काकाः फलदाः क्रमेण शान्ते प्रदीप्तेच रटन् विहङ्गः शुभप्रदो दीप्तपराङ्मुखः सन् नक्वापि रौद्रो रटितः प्रशस्तः सर्वत्र शस्तो मधुरश्च रक्तः ।दीप्तस्थितो यः परुषस्वरेण विरौति दीप्ताभिमुखः का-र्य्यम् निष्पाद्य निर्नाशयते सम्यग्दीप्तोन्मुखः शान्त-रवो हि सिद्ध्यै शान्तप्रदीप्ताभिमुखो विधाय शब्दंप्रविश्याथ पुनः प्रदीप्ताम् यो रौति काको मधुरस्वरेणहृत्वा विरुद्धं ददाति सिद्धिम् विधाय दीप्तामिमुखोविरावं ततः प्रशान्ताभिमुखो विरौति यो वायसोऽसौविनिहन्त्यसम्यक् कार्य्याणि सर्वाणि पुनः करोति” विप्रादिश०सूर्य्योदये पूर्वदिशि प्रशस्तस्थाने स्थितो यो ऽभिमुखंविरौति नाशं रिपोश्चिन्तितकार्य्यसिद्धिं स्त्रीरत्नलाभं सकरोति काकः ध्वाङ्क्षः प्रभाते यदि वह्निभागे विरौति तिष्ठन्रमणीयदेशे शत्रून् प्रणश्यत्यचिराद्विशङ्कः प्रयाति यो-षित् समवाप्यते तत् रुवन् प्रभाते दिशि दक्षिणस्यांकाकः समावेदयतेऽतिदुःखम् रोगार्त्तिमृत्युं परुष-स्वरेण रम्येण चेष्टागमयोषिदाप्तिम् नैरृत्यभागे यदिच प्रभाते करोति काकः सहसा विरावम् क्रूरं ततःकर्म्म समभ्यपैति दूतागमो मध्यमिका सिद्धिः प्रातःप्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः ।स्त्रीवस्त्रभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तदास्यात् ध्वाङ्क्षस्य शब्दे पवनालयस्थे वस्त्रान्नयानाभि-मतागमाः स्युः पान्थागमः प्राक्तनवृत्तिनाशः स्यादन्यदेशेगमनं स्वदेशात् दिश्युचरस्यां सुरवः प्रभाते निरीक्ष-माणो बलिभुग् नराणाम् ददाति दुःखं भुजगाच्चभीतिं दरिद्रतां नष्टधनेष्टलाभम् दिशीशवत्यां यदिरौति काक आगच्छतस्तद्वनितान्त्यजाती व्याधेर्निमित्तंप्रियवस्त्रलाभो भवेत्तदा रोगबलेऽवसानम् ब्रह्मप्रदेशेस्थितवायसस्य प्रभातकाले मधुरस्वरेण अभीप्सितार्था-गमनं ध्रुवं स्यात् स्वामिप्रसादो द्रविणस्य लाभः” ।इति सूर्य्योदये काकशकुनम् “पूर्वत्र याभे प्रथमेसशब्दः काको भवेच्चिन्तितकार्य्यसिद्ध्यै अर्भाष्टलोकागमनंतथा स्यान्नष्टार्थलाभो नियतं नराणाम् आग्नेयभागेयदि चाद्ययामे स्त्रीलाभविद्वेषिबधौ भवेताम् कृतान्त-भागे बलिभुग्विरावः स्त्रीलाभसौख्यप्रियसङ्गकारी नैरृत्य-कोणे प्रिययीषिदाप्तिर्म्मिष्टाशनं सिद्ध्यति चिन्तितोऽर्थः ।दिशि प्रतीच्यां विरुते भवेतामभ्यर्थनीयागमनाम्बुवृष्टी ।वायव्यकोणे करटः शुभः स्यात् नृपप्रसादो ऽध्वगदर्शनं ।सौम्ये भीस्तस्करशोकवार्त्ता सौम्या वार्त्ता धनलाभ-वार्त्ता ईशानदेशे ऽभिमतेन सङ्गस्त्रासो हुताशाद्बहु-लोकसङ्गः ब्रह्मप्रदेशे सुखकामभोगः सम्मानसम्पद्द्रविणे-ष्टसिद्धिः” इति प्रथमप्रहरे क्षकु० “प्राच्यां द्वितीये प्रहरेविरावैः काकस्य कश्चित् पथिकोऽभ्युपैति चौराद्भयं व्याकु-लता बह्वी जायेत काचिन्महती शङ्का हुताशदेशेनियतं कलिः स्यात् प्रियागमाकर्णनयोषिदाप्तिः याम्येतु वृष्टिर्महती भीतिः प्रियस्य चेष्टस्य समागमः स्यात् ।रक्षोदिशि प्राणभयं तदा स्युः स्त्रीभोज्यलाभाखिलरुक्-प्रणाशाः भवेत् प्रतीच्यां प्रबला बलाप्तिर्योषागमो वृद्धिसुवर्षणं समीरभागे ध्वजचौरसङ्गो दूतागमस्त्रीपिशितान्नलाभः सौम्ये गणेष्टागमनं जयं रम्येरवे, चौरभयं त्वरण्ये महेश्वराशाविरुतश्च काकश्चौरा-ग्निसंत्रासविरुद्धवार्त्ताः ब्रवीति रूक्षैरटनैररूक्षैःसदार्य्यगुर्वागमनं जयं ब्रह्मप्रदेशे प्रहरे द्वितीयेकाकः सुशब्दो नृपतिप्रसादम् मिष्टान्नभोज्यं ददातिपुंसां करोत्यसौ चौरभयं कुशब्दः” इति द्वितीयप्रहरश० “ऐन्द्र्यां विरूक्षः प्रहरे तृतीये वृद्धिं तथा चौरभयंब्रवीति कृष्णस्तु राजागमनं जयं करोति यात्रांशुभकार्य्यसिद्धिम् अग्नेर्विभागेऽग्निभयं कलिश्चविरुद्धवार्त्ता विफला यात्रा भवेद्विरुद्धैर्बलिभुग्वि-रावैर्जयादिवार्त्ता भवेद्विशुद्धैः ककुभ्यवाच्या कु-रुतेऽतितूर्णं रोगं तथाप्तागमनं विहङ्गः क्षुद्राणिकार्य्याणि यान्ति सिद्धिं सर्वाणि तन्मुख्यतया नरा-णाम् क्रव्याददेशे जलदागमः स्यान्मिष्टान्नलाभो रि-पवो सन्ति शूद्रागमः स्वामिविरुद्धवार्त्ता भवन्तियात्रासु कार्य्यनाशः स्यात् पश्चिमे नष्टधनस्य लाभोदूराध्वयानं सुहृदागमश्च योषागमोऽभीष्टजयादि-वार्त्ता यात्रासु रम्ये रटितेऽर्थसिद्धिः वातालये दु-र्दिनमेव वार्त्ता चौराभिनष्टार्थसमागमश्च सन्तोष-वार्त्ता वरयोषिदाप्तिर्यात्रा रवे स्यान्मधुरे प्रशस्ता या-मे तृतीये विरुवन्त्युदीच्यां कार्य्यार्थलाभो नृपसेवकानाम् ।भोज्यप्रवृद्ध्यै शुभदा वार्त्ता प्रयाणकं वैश्यसमा-गमश्च दिश्यन्धकारेः कुरुते सुशब्दो भोज्यं जयं हानिकली कुशब्दः ब्रह्मप्रदेशे तिलतण्डुलाभ्यां भोज्यं चताम्बूलयुतं ददाति” इति तृतीयप्रहरशकु० “ऐन्द्र्यांतुरीयप्रहरेऽर्थलाभो भूमीशपूजा भयवृद्धिरोगाः वह्ने-र्विभागे भयरोगमृत्युः शिष्टागमो वायसवाशितेन ।याम्ये रवे तस्करवैरिभीती स्यातां विशिष्टागमरोगमृत्युः ।स्यात् यातुधान्यां महती प्रवृद्धिरभीष्टसिद्धिः पथि चौर-युद्धम् दिशि प्रतीच्यां प्रहरे चतुर्थे द्विजातिरभ्येति ततोऽर्थलाभः आयाति योषिद्विजयाम्बुवृष्टिः सिद्धिःप्रयाणे नृपतेर्वरश्च वायव्यभागे करटस्य शब्दैरायाति योषित् प्रयमानिनी या ध्रुवं प्रवासो दिन-सप्तकेन शीघ्रागमः स्यात् गमने कृते कुवेरभागेपथिको ऽभ्युपैति ताम्बूललाभः कुशलस्य वार्त्ता ।वैश्याद्धनाप्तिस्तुरगादिरूढा यात्रा विरुद्धे म्रियते चरोगी स्थाणौ स्थितः स्याद्बलिभुग्विरावैः सुवर्णवार्त्तासरुजो विनाशः ब्रह्मप्रदेशे प्रहरे चतुर्थे वार्त्ताभवेन्मध्यमिका सिद्धिः” इति चतुर्थप्रहरशकु० ।“यद्भाषितं शाकुनिकैर्विमिश्रं शुभाशुभं दिक्प्रहर-क्रमेण तत्राशुभं यच्छति दीप्तशब्दः श्रेयष्करः शान्तर-वश्च काकः रम्यं रवं दीप्तदिशि प्रसर्पन् शान्तां दिशंभूरि फलं ददाति तदैव तुच्छं वितरत्यसौ वै दीप्तास्थितः पश्यति दीप्तकाष्ठाम् यथोपदिष्टं फलमत्र-दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् ध्वाङ्क्षोऽधिरूढो विरु-वन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् काकःपशान्ताभिमुखोऽतितुच्छ’ दीप्ताश्रितो दुष्टफलं ददाति ।श्यामाश्रितः शान्तदिगीक्षणेन रूक्षारवो ऽल्पं कथयत्यनि-ष्टम् शान्तस्वरः शान्तककुप्प्रदेशे तिष्ठन् प्रदीप्तां ककुभञ्चपश्यन् ददात्यभीष्टं फलमेमल्पं दीप्तां पश्यंस्तुतदेव तूर्णम् आकारचेष्टारवभागविज्ञाश्चत्वारिकाष्ठादिनयोः क्रमेण सदाभियुक्ताश्च निरूपयन्ति य-स्माच्च ते काकरुतं मनुष्याः” इति काकरुते दिक्चक्र-भेद शकु० “वर्षकालमधिकृत्य किञ्चन प्रोच्यते बलिभजोयथाक्रमम् आलयाण्डकविचारसुन्दरं शाकुनं सकल-शाकुनोत्तमम् वैशाखमासे निरुपद्रवेषु द्रुमेषु काकस्यशुभाय नीडम् निन्द्येषु शुष्केषु सकण्टकेषु द्रुमेषु दु-र्भिक्षमलाभहेतुः प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्यकाकेन कृतः कुलायः तद्वृष्टिरिष्टा शकुनप्रमोदो नीरो-गता स्याद्विजयश्च राज्ञः आग्नेयशाखारचिते नीडेस्याद्वृष्टि रिष्टार्त्तिभयं कलिश्च दुर्भिक्षशत्रूद्भवदेश-भङ्गो भवन्ति रोगाश्च चतुष्पदानाम् याम्यासु शाखासुच वायसेन नीडे कृतेऽल्पं जलपातमाहुः व्याधि-प्रकोपं मरणं समन्तादन्नक्षयं शत्रुविरोधितां नै-रृत्यशाखारचिते नीडे तस्माच्छनैर्वर्षति वर्षकाले ।पीडा नृणां विप्लवचौरभीतिदुर्भिक्षयुद्धानि भवन्त्य-वश्यम् नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैःकथिता वृष्टिः नीरोगता क्षेमसुभिक्षवृद्धिः सम्पत्-प्रमोदाश्च भवन्ति लोके वायव्यशाखासु कृते नीडेप्रभूतवाताल्पजलाश्च मेघाः स्युर्मूषिकोपद्रवशस्यनाशपक्षद्वयोद्वेगमहारिरोधाः कौवेरशाखामधिकृत्यनीडे कृते भवेत् प्रावृषि वृष्टिरिष्टा भवन्ति क्षेमसुभि-क्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मित् ईशानशाखासुच वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः स्याद्बान्धवानांकलहप्रवृत्ति र्म्मर्य्यादया हीयत एष लोकः वृक्षाग्र-नीडे त्वतिवर्षकाले मध्ये पुनर्म्मध्यमतोयपातः तुच्छापिवृष्टिर्न भवत्यधस्तात् स्फुटं दिशोक्तं दिशः स्फुटत्वम् ।अवृष्टिरोगादिभयादिवृद्धिं विद्याच्च भूमौ वलिभुक्कुलाये शुष्के वृक्षे डमरान्ननाशौ प्राकाररन्ध्रे चभयं प्रभूतम् निम्नप्रदेशे तरुकोटरे वा वल्मीकरन्ध्रे व्रत-तिष्वपीह काकस्य नीडे रुगवृष्टिदोषैर्भवन्ति शून्यानियमेन देशाः” इति काकनीडशकुनम् अथकाकाण्डशकुनम् “एकं भवेद्वारुणमग्निसंज्ञं द्वि-तीयकं मारुतकं तृतीयम् ऐन्द्रं तथा नाम चतुर्थमेवमण्डानि काक्याः परिकीर्त्तितानि काक्या भवेद्वारुण-मण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः मन्दप्रवर्षोऽनलसंज्ञके ऽण्डे भोप्तस्य वीजस्य भवेत् प्ररोहः जा-तानि शस्यानि समीरणेऽण्डे खादन्ति कीटाः शलभाःशुकाद्याः क्षेमं सुभिक्षं सुखिता धरित्री स्यादैन्द्रडोऽण्डेऽभिमता सिद्धिः” इति काकाण्डश० “यात्रा-निमित्तानि कीर्त्तयामः सकृत्प्रजानां शकुनानि यानि ।विज्ञायतानि प्रजहात्यनर्थानथांश्च सर्वान कुरुतेऽध्वनीनः ।भुङ्क्षे बलिं पक्षिषु मन्त्रपूतं त्वं प्राणिषु प्राणिषि वर्षलक्षम् ।गुप्तेन स्त्रीं भजसे नमोऽस्तु तुभ्यं स्वगेन्द्राय सकृत्-प्रजाय विलोक्य काकं विनिवेद्य तस्मै मन्त्रेण पूजांदधिभक्तयुक्ताम् उदीर्य्य कार्य्यं निजमध्वगेन विलोक-नीयं शकुनं तदर्थम् वामेन शब्दं मधुरं विमुञ्चन् व्रजंस्त्ववामेन करोति काकः सर्वार्थसिद्धिं पुनरागमञ्चा-शुभप्रदेशे तु तदन्थरूपम् प्रदक्षिणं संप्रविधाय मार्गेवामेन काको विनिवर्त्ततेऽसौ यातुः करोतीहितकार्य्य-सिद्धिं क्षेमञ्च शीघ्रं पुनरागमञ्च वामे कलं रौत्यनु-लोमयायी यो वायसो ऽसौ सकलार्थसिद्ध्यै स्यातांक्रमाद्दक्षिणवामशब्दौ सिद्ध्यै, विरुद्धौ विपरीतभूतौ पृष्ठेविरावं मधुरं विमुञ्चन्ननुव्रजं श्चापि मतो हिताय ।प्रायेण यातारमनुव्रजन्तः सर्वेऽपि काकैः कथिता वि-हङ्गाः कृत्वा रवं यः पुरतः प्रयाति उपस्थितो योमुदमादधाति कण्डूयते यः स्वशिरोऽङ्घ्रिणाऽसौपुंसां तदाभीष्टफलं ददाति स्तम्भे गजाना नियतंगजाप्तिं गजेऽधिरुढः पृथिवीपतित्वम् तुरङ्गमे वाहन-भूमिलाभं करोति काको विजयं ध्वजे प्रनष्टलाभंविजयं कूपे, क्षिप्रं नदीरोधंसि कार्य्यसिद्धिम् पूर्णेघटेऽद्भिश्च धनाप्तिवृद्धिं ध्वाङ्क्षोऽधिरूढः कुरुते स-शब्दः प्रासादधान्योच्चयहर्म्म्यपृष्ठनिष् पन्नशस्यावनिशाद्वलादौ ध्वाङ्क्षो ऽधिरूढो धनसाधनाय रौति श्रियंयच्छति युग्मरावः पृष्ठे पुरो वा यदि गोमयस्थो तथावटाद्येषु तरुष्वपीह स्थितो रुवन् भोजनपानमिष्टंविष्ठां कुर्वन् वितरत्यवश्यम् अन्नाद्यविष्ठाफलसूल-पुष्पमत्स्यादिभिः पूर्णमुखः सदैव संदृष्टमात्रो ऽभि-मतार्थसिद्ध्यै मिष्टान्नभोज्याय सदैव काकः नारीशिरः-पूर्णघटस्थितस्य काकस्य शब्दैर्वनिताधनाप्तिः शय्याधि-रूढस्य तस्य शब्दैः समागमः स्यात् स्वजनेन सार्द्धम् ।गोपृष्ठदूर्वातरुगोमयेषु तुण्डानि घर्षन्नवलोकिताग्रः ।आहारमन्यस्य तथा ददानो ददाति भोज्यं बलिभु-खिचित्रम् धान्यं यवं वा दधिं वापि चाज्यं विरौतिपश्यन्निधिलाभकारी करोति लाभं पुरतः दृष्टोयस्यास्ति वक्त्रे तृणमप्यशुष्कम् वृक्षेषु रम्याङ्कुरपत्र-पुष्पच्छायाफलाद्येषु सकृत्प्रजस्य शब्देन सिध्यन्त्य-सकृन्नराणां सदैव सर्वाणि समीहितानि प्रशान्तनादःशिखरे तरूणां स्त्रीसङ्गसौख्यं करटोऽसिधत्ते धा-न्यादिकूटेषु तथान्नलाभो गोपृष्ठगो गोवनिताधनाप्तिम् ।क्षेमं विधत्ते करभस्य पृष्ठे खरस्य पृष्ठेऽरिभयं बधञ्च ।क्रीडस्य पृष्ठे बधमर्थलाभं तस्यैव पृष्ठे घनलग्नपङ्के ।सद्योज्वरं सैरिभपृष्ठसंस्थो मृताङ्गसंस्थो मरणं करीति ।कार्य्यक्षतिं रिक्तघटस्य संस्थः काकः कलिं काष्ठमधि-ष्ठितश्च यो दक्षिणं कूजति दक्षिणैन प्रयाति यश्चाभि-मुखोऽभ्युपैति यो याति पृष्ठे प्रतिलोमगत्या कृता-रवः पातयते रक्तम् वामे रवो दक्षिणतस्ततो यःसोऽनर्थहेतुर्बलिभोजनस्य वामप्रदेशे प्रतिलोमयानंविघ्नाय लाभो गृह एव तेन प्रयाति पृष्ठे यदि द-क्षिणेन कृतारवस्तद्रुधिरं पुरः स्यात् वल्लीवरत्रादिच यो गृहीत्वा प्रदक्षिणं याति सर्पभीत्यै गोपुच्छ-वल्मीककृतास्पदश्च रुवन् भवेत् सर्पविलोकनाय स्या-न्मृत्यवेऽङ्गारचितास्थिसंस्थः काकः प्रकुर्वन् करचर्वणंच रुवन् पुरो हानिरुजौ करोति मृत्युं पुनर्नि-ष्ठुरपृष्ठशब्दः प्रसार्य्य रिक्तं वदनं आस्ते सर्वत्रनिन्द्यो बलिभोजनोऽसौ वामोऽप्यसृक्पातभयं मृतिंवा सन्ताडयन् वा रसचर्म्मखण्डम् चञ्च्वाऽस्थिभङ्गंध्रुवमस्थिभङ्गबन्धौ बधं जल्पति युध्यमानः वामोऽपिरोगं कुरुते विशुष्के तिक्तेऽपि वृक्षे कलिकार्य्यनाशौ ।पक्षौ विधुन्वन् विरुवंश्च रूक्षं सकण्टके मृत्युमुपाद-धाति बधो भवेद्भूरुहभग्नशाखे बन्धो लताभिः परि-वेष्टिते स्यात् रम्ये तरौ कण्टकयुक्तवृक्षे सदा भवेतांकलिकार्य्यसिद्धी छन्नाधिरूढो रवेण यायात् प्रयातिचेत् स्यात् खलु रक्तपातः अवस्कराम्भस्तृणकाष्ठकूप-भस्मादिसंस्थो विनिहन्ति कार्य्यम् वल्लीवरत्राकचशुष्ककाष्ठचर्म्मास्थिजीर्णाम्बरवल्कलानि अङ्गाररक्तोत्-पलकर्पराणि दृष्टानि चेत् काकमुखे तदानीम् ।पुण्यक्षयः पापसमागमश्च महद्भयं रोगसमुद्भवश्च बन्धोबधः सर्वघनापहार इत्यादिकं स्यात् पथि मन्दिरे ।ऊर्द्ध्वाननश्चञ्चलपक्षयुग्मः काकः कुनादी विदधाति मृ-त्युम् छायायुधच्छत्रघटास्थियानवादित्रकाष्ठादिक-कुट्टनानि सङ्कोचितैकाङ्घ्रिरुपेतचिन्तो दीप्तस्वरो भास्कर-मीक्षते काष्ठादिकं कुट्टयतेऽथ वा यो युद्धाधिका-नर्थकरः खगोऽसौ तुण्डेन पिच्छं विलिखन् रवेणयो रौति तूर्णञ्च निरीक्षते कम् एकेन पादेन तथोप-विष्टो ब्रूते बन्ध पुरतो जनस्य विड्गोमयौ न्यस्य-ति यस्य मूर्द्ध्नि तस्याऽनलत्रासरुजौ भवेताम् यस्यास्थि-खण्डं विसृजत्यसौ तु प्रयाति तूर्णं नगरीं यमस्य ब्रह्म-प्रदेशे विरुवन् यियासोः कलत्रदोषं जनयत्यवश्यम् ।मनुष्यमातङ्गतुरङ्गमाणां शिरोधिरूढो निधनायतेषाम् नदीतटे वाऽथ रटन्नटव्यां खरस्वरो व्याघ्रभयायगन्तुः नैवातुरः क्वापि मतो हिताय दुष्टचेष्टो वित-नोति शान्तिम् यात्रोद्यमे सैन्यबधाय काको दृष्टोरथे साश्वनृमस्तकेषु आयाति यस्याभिमुखो बलस्ययुद्धोद्यमे तस्य पराजयः स्यात् सगृध्रकङ्कैः कटके नृ-पस्य काकैः प्रविष्टैः पिशितं विनापि संयुध्यमानैररिभिः समं स्यान्महाहवे सन्धिरयुध्यमानैः चिह्न-ध्वजच्छत्रकृताधिरोहः समुद्यतं शत्रुबलं प्रपश्यन् आजौजयं जल्पति भूमिपानां कृतध्वनिः क्षीरतरौ काकः ।गतिस्वरौ वायससंप्रयुक्तौ प्राच्यां फलायोदितवैपरीत्यात् ।एवं जनोऽप्याचरति प्रभूतो यथोदितं तत्र यथागमार्थम् ।दिग्यामचक्रेऽपि शुभाशुभानि फलानि यानि प्रतिपा-दितानि प्रतिष्ठमानस्य भवन्ति तानि तथाविधानीतिवदन्ति तज्ज्ञाः” इति यात्राङ्गकाकश० ।“स्थानस्थितिभ्यां कथयन्ति काकाश्चेष्टाविशेषेण शुभाशु-भानि प्रबोधिताः प्राक्तनकर्म्मभिर्ये तल्लक्षणायक्रियते प्रयत्नः निष्कारणं संवलिता रुवन्तो ग्रामेऽन्ननाशाथ भवन्ति काकाः रोधञ्च चक्राकृतयोवदन्ति सव्यापसव्यभ्रमणाद्भयञ्च विघातमाहुबहुवर्ग-संस्था रात्रौ रुवन्तो जनताविनाशम् लोकञ्च चञ्च-चरणप्रहारैरुद्वेजयन्तः परचक्रवृद्धिम् यः स्नातिधूल्यान्तु विलोक्य रौति वृष्टिं समाशंसति वायसोऽसौ जलस्थलप्राणिविपर्य्ययेण वर्षासु वृष्टिं भयम-न्यदा तु मध्यंदिने वेश्मनि यस्य काको विरौतिरौद्रं विधुनोति वाङ्गम् हरन्ति चौरा द्रविणानितस्य ध्रुवं तथान्यो भवति प्रमादः रुवन्नदृष्टस्तृण-पूर्णवक्त्रो हुताशभीतिं करटः करोति स्यात् प्रस्थि-तस्याप्यथ वा स्थितस्य दुःखं प्रभूतं दिवसत्रयेण ।छायासु लाभं, भुवि भूमिलाभं, विघ्नं जले, ग्रावणिकार्य्यनाशम् करोति काको विरुवन्नरस्य प्रस्थायिनःस्थानगतस्य वापि द्वारप्रदेशे रुधिरानुलिप्तो विरौतिकाकः शिशुनाशनाय पक्षौ विधुन्वन् विरुवंश्च रूक्षं शान्तेच दीप्ते भवने शस्तः भूयस्तथोर्द्ध्वे प्रविधाय पक्षौकाकः कुनादं प्रलयं करोति क्रुद्धोऽधिरुढः कर-टान्तरञ्च रोगेण मृत्युं कुरुते नराणाम् द्रव्येहते वाऽपहृते खगेन विनाशलाभावपि तादृशस्य ।रुक्मस्य पीते, रजतस्य शुक्ले, चेलस्य कार्पाममये भवे-ताम् प्रश्ने कृते रोगविनाशबुद्ध्या हन्त्याशु रोगंसुरवः प्रदीप्ते शान्ते प्रदेशे करटश्चिरेण स्वल्पा-रवो रोगमपाकरोति प्रश्ने शुभे शान्तदिगाश्रयस्थःशान्तस्वरो यः शुभमादघाति यो वायसस्तं शुभदंवदन्ति तद्व्यत्यये व्यत्ययहेतुरुक्तः विरौति कुम्भे मणि-केऽथ वा यः गर्भवत्याः सुतजन्महेतुः उड्डीयतेकण्टकिनीञ्च शाखामादाय राजागमनाय काकः ।अन्नादिविष्ठापिशितादिभि र्यः पूर्णाननो ऽभीष्टफल-प्रदोऽसौ सन्त्रादिसिद्धौ बणिजादिलामे शस्तोविवाहादिविधौ काकः इष्टार्थदोऽश्वादिकवाह-नस्थश्छत्त्रादिस स्थस्तदवाप्तकारी बध्वागमं जल्पतितोरणस्थो हृद्यार्थदो हृद्यतरुस्थितश्च वायसः कुल-कुलध्वनिं यदा व्याहरेद्भवनसं मुखं तदा अभ्युपैतिपथिकस्तदा ध्वनिं सर्व्वकार्य्यशुभदं वदत्यसौ ।इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिकावदन्ति यद्वायसो मैथुनसन्निविष्टो दृश्येत यद्वा धवलः २कदाचित् उद्वेगविद्वेषभयप्रवासघनक्षयव्याधि-भयप्रहाराः बुद्धिप्रणाशाकुलताप्रवादा नृणांभवन्त्यद्भुतदर्शनेन शमाय तत् सूचितदुःखराशेःस्नानं बहिस्तत्क्षणमेव कुर्य्यात् आत्मीयशक्त्या चसदक्षिणानि द्विजाय दद्यात् वसनानि तानि ।नयेदहःशेषमपुण्यहान्या शयीत भूमावकृतान्नभक्षः ।हविष्यभोजी भजेच्च नारीं दिनानि सप्त त्रिगुणानियावत् अकाकघातव्रतमादधीत बलिं दद्याद्बलि-भोजनेभ्यः स्नात्वा प्रभाते विदधीत शान्तिं दद्यात्स्वशक्त्या द्रविणं गुणिभ्यः देशे तु यत्राद्भुतमेत-दुग्रमालोक्यते तत्र समापतन्ति अवृष्टिदुर्भिक्ष-भयोपसर्गचौराग्निशत्रूद्भवधर्म्मनाशाः कर्म्मणितस्योपशमाय राजा प्रवर्त्तयेत् शान्तिकपौष्टिकानि ।अन्नाद्यगोभूमिवसूनि दद्यात् युद्धं विदध्यान्न याव-दव्दम्” इति स्थानविशेषस्थितकाकचेष्टा शकु० अथकाकध्वनिभेदश० “ककामिति क्षेमविधो विरावःकेकामितीष्टाशनपानहेतुः करोति कूंकूमिति चार्थ-लाभं, क्कं क्कं ध्वनिः काञ्चनलाभमाह केंके-मिति स्त्रीवरयोषिदाप्त्यै भोगाय कांकामिति शब्दतःस्यात् अपत्यलाभः कुव इत्यनेन गन्तुः फलं केकवइत्यनेन कौं कोमितीदं शुभलाभकारि कुंकुंनिनादःप्रियसङ्गमाय क्रां क्रुमिति क्रामिति त्रयोऽमीक्रां क्रामिति द्वौ रवौ रणाय क्रां क्रामिति क्रौमिति द्विरुक्तं क्रूं क्रूमिति क्रौ कुकुकू इतीदम् रुतं प्रदिष्टं मरणाय नॄणां गन्तुःप्रणाशं कुरुते खगाख्यः क्रीं क्रीमितीष्टार्थविनाशनाय ज्वलज्वलेत्यग्निभयाय शब्दः कीकीति कोकाविति यः कथञ्चिन्मुहु र्मुहुः स्यात् मतो बधायस्यात् का इतीदं विफलं सदैव मित्राप्तये स्यात् इतीदृशञ्च काका इतीदं तु विघातकारि करोति काकोवदति स्वतुष्ट्यै आहारदोषाय काकटीति स्यादा-कुलं कुक्कुनिभं रणाय केके ध्वनिः काकुटि किंटिकीति त्रयं त्विदं स्यात् पुरदूषणाय यत् का इतित्रिस्तदनुस्वरेण शब्दद्वयं स्यान्महते रणाय कामि-त्ययं वाहननाशनञ्च ददाति हर्षं कुकुकुर्व्वितीदम् ।यत्का इतीदं विरुतं सुदीर्घकृतस्वरेणोच्चरितम् प्रमा-दात् उत्साहहीनः श्रमदैन्ययुक्तः वायसः कार्य्य-विनाशनाय सामिषं वकवकेति भोजयेद्वारयेत् कलि-कलीति वाशनम् अभ्युपैति स्वररूक्षभाषिते प्रोषितःशवशवारवे शवः स्यात् कलिः कवकवध्वनौ नृणांजायते कणकणाध्वनौ रणः आव्रजेत् कुलुकुलुध्वनौप्रियः सौदनं कटकटध्वनौ दधि एवंप्रकारा बहवोऽपरेऽपि प्रशान्तदीप्ता बलिभोजनानाम् भवन्ति शब्दाःखलु तेषु केचिदस्माभिरुक्ताः खलु लक्षणीयाः ।इति काकध्वनिभेदशकुनम् “हितं नरेभ्योमुनिभिः पुराणैर्ज्ञानं यदुक्तं बलिपिण्डयुक्त्या ।तदुच्यते संप्रति येन काका वदन्ति नित्यं बलिलाभ-तुष्टाः अदक्षिणस्यां दिशि यत्र काकैर्युतो भवेत् क्षीर-तरुः प्रभूतः गत्वा निवृत्ते ऽहनि तत्र काका निमंन्त्रणीया बलिपिण्डभोज्ये प्रातस्ततः क्षीरतरोरधस्ता-द्विशोध्य लिप्येत गोमयेन भूमिप्रदेशे चतुरस्रमस्यमध्ये ऽर्च्चयेत् ब्रह्ममुरारिभानून् इन्द्राग्निवैवस्वतयातु-धानजलेशवायुद्रविणेशशम्भून् अभ्यर्च्चयेदष्टसु दिक्षुभक्त्या क्रमेण चाष्टावपि लोकपालान् नमोयुतैः सप्रण-वैश्च सर्व्वान्निजाभिधानैः प्रयतो मनुष्यः अर्घासनालेपन-पुष्पधूपनेवेद्यदीपाक्षतदक्षिणाभिः आब्रह्म काकां-स्तरुसन्नि विष्टानाध्याय तत्प्राक्तनमन्त्रयुक्त्या ततस्तदर्थं बलिमाज्यसिक्तं मन्त्रेण दद्यात् दधिपिण्डयुक्तम् ।“उदीर्य्यं कार्य्यं स्वमथावसृत्य ततः प्रदेशे करटस्य चेष्टाः ।स्तब्धोकृताङ्गश्च शुभाशुभार्थं संलक्षयेन्निश्चलपाणि-पादः पूर्व्वेण स्वादन् सुखवित्तवृद्धिं करोति वह्नेर्दिशि वह्निभीतिम् काकोऽथेनाशं दिशि दक्षिणस्यांनैरृत्यदिग्गोवरकृत्यदिष्टः जलेशदेशेऽभिमतार्थसिद्धि-र्वायोर्दिशीतिप्रभवाल्पवृष्टिः सौम्ये सुखारोग्यसमी-हितार्थमीशानदेशे वितरत्यभीष्टम् बलौ विलुप्ते करटैःसमन्तात् कार्य्ये विमिश्रं परिभावनीयम् बलिंविकीर्य्यापिन भक्षयन्ति काकास्तदानीं भयदा भवन्ति क्षीरद्रुमा-रामचतुष्पथेषु सरित्समीपे त्रिदशालयेषु देयोबलिर्भूतदिनाष्टमी षुकुल्माषदध्योदनतण्डुलाद्यैः” इतिकाकबलिदानशकु० “पिण्डत्रयस्याथ विधानमेतदाख्यायते यत् किल नारदाद्यैः दृष्टं मुनीन्द्रैरशुभ-शुभञ्च यथावदस्मिन् कथयन्ति काकाः गत्वा शुभेऽह्निप्रहरे चतुर्थे देशेषु पूर्व्वप्रतिपादितेषु नरेण पिण्ड-त्रयभोजनार्थं काकाः प्रयत्नेन निमन्त्रणीयाः ।ततः प्रभाते ह्युपलिप्य भूमिं तस्याञ्च पूर्व्वोदितमन्त्र-युक्त्या ब्रह्माच्युतेशाप्पतिलोकपालाः काकाश्च पुंसांक्रमतोऽर्च्चनीयाः दध्योदनाद्यर्विहितं निवेश्यपिण्डत्रये मण्डलकस्य मध्ये अभ्यर्च्चयेदक्षतपुष-धूपैर्मनोहरैर्यत्नपरो मनुष्यः तेषु क्षिपेत् प्राग्दिग-नुक्रमेण पिण्डेषु हेम प्रथमे, द्वितीये रूप्यं, तथालौहलवं तृतीये, शेषं कुर्य्याद्वलिपिण्डतुल्यम् ।त्रिःसप्तकृत्वो विनिवेशपिण्डे पिण्डा निवेश्या बलिभो-जनेभ्यः मन्त्रोक्तमावाहनतोषितेभ्यः कार्य्यं विचा-र्याऽपसरेत्ततश्च काकेन भुक्ते ससुवर्णपिण्डे ज्ञेयं नरेणो-त्तममात्मकार्य्यम् भुक्ते सरूप्ये खलु मध्यमं स्याद्भुक्ते सलोहे त्वधमं प्रदिष्टम् विवादबाणिज्यविवाहवृष्टिक्षेमाश्व-चिन्ताकृषिभोगरोगाः संग्रामसेवानृपकार्य्यदेशाःइत्यादयोऽस्मिन् परिभावनीयाः चेष्टाः सुरामा विद-धाति याति प्रदक्षिणं दक्षिणपक्षमुच्चैः ग्रीवांतथोच्चां कुरुते सशब्दः स्थानं मनोज्ञं श्रयति द्रुमञ्च ।एवविधां यो विदधाति चेष्टां पिण्डं समादाय शुभंखगोऽसौ अभीष्टकार्य्यादधिकं करोति चेष्टाविपर्य्या-सतयान्यथात्वम् पिण्ड समादाय यदि प्रधानंशान्तां दिशं गच्छति काकपक्षी पूर्णं फलं तत्कुरुते नराणां चिकीर्षिते वस्तुनि यत्र तत्र काकोगृहीत्वा यदि मुख्यपिण्डं प्रयाति दीप्तां ककुभं तदानीम् ।अत्यत्तमं कार्य्यफलं प्रदर्श्य ततः समस्तं विनिहन्त्य-वश्यम् द्वितीयकं यद्यपहृत्य पिण्डम् प्रडीयते शान्त-दिगाश्रयेण फलं तदानीं शुभदं नराणां याप्यं खगोजल्पति कार्य्यजातम् काके समादाय जघन्यपिण्डंयाते प्रदीप्तां ककुभं वदन्ति कार्य्यं जघन्यादधिकं जघन्यंस्यान्मध्यमं मध्यमपिण्डभागे” इति वलिदाने पिण्ड-त्रयशकुनम् “महर्षयो वायसशाकुनस्य वदन्ति सारा-दपि सारमूतम् पिण्डाष्टकं यत्तदशेषमेतदाख्यायतेकार्य्यविनिश्चयार्थम् शुभेऽह्नि काकानधिवास्य सायंपिण्डाष्टकं भोक्तुमथ प्रभाते यत्काकभोग्यानिसमस्तवस्तून्यादाय यायाद् बहिरप्रमत्तः एकान्तदेशेतरुपार्श्वभूमौ मृद्गोमयाभ्यामुपलेपितायाम् सत्पञ्च-गव्येन समुक्षितायां सौम्योपहारैरुपशोभितायाम् ।विधाय पूजां कुलदेवतानां मध्ये ततोऽष्टास्वपि दिक्षुदेयम् भक्तेन सर्पिर्दधिमिश्रितेन पिण्डाष्टकं प्राग्दि-गनुक्रमेण पक्षीन्द्रवह्न्यन्तकराक्षसेन्द्रान् विष्णुंविरिञ्चिं धनदं महेशम् पूर्व्वादिकाष्ठाक्रमयोजितेषुन्यस्येत् क्रमादष्टसु पिण्डकेषु! नमोयुतैस्तान् प्रण-वैश्च सर्व्वांस्ततोऽर्च्चयेत्तन्निजनामन्त्रैः अर्घासनाले-पनपुष्पधूपैर्नैवेद्यदीपाक्षतदक्षिणाभिः अभ्यर्च्चितेभ्योविधिनोदितेन पिण्डाष्टकं तत् वितरेत् द्विजेभ्यः मन्त्रेणसंमन्त्र्य निवेदनार्थं कार्य्यं विचिन्त्यापसरेच्च किञ्चित् ।काकेन पिण्डे प्रथमे गृहीते तिष्ठन् प्रजन् वापि भवेत्कृतार्थः उद्वेगशोकौ विफलं प्रयाणे, हानिःकलिर्व्वा भवति द्वितीये याम्ये रुगापद्भयमृत्यवः स्युःपिण्डे चतुर्ये विजयो रणेषु स्याद्वैष्णवेऽभीष्टमकष्ट-साध्यं भवेत् प्रवासो विफलश्च षष्ठे नास्तीह तन्नि-श्चयमेव कार्य्यं भुक्ते यत् सिद्ध्यति सौम्यपिण्डे ।सन्तापशौकौ विफला यात्रा पिण्डेऽष्टमे वायसभक्षितेच पिण्डं गृह्णात्यथ वा भुङ्क्ते चञ्चूनखैर्विक्षि-पति द्विजो यः कार्य्येषु सर्वेषु प्रशस्तो व्रवीतिघोरं समरं पुंसाम्