| YouTube Channel

काकबलिः (kAkabaliH)

 
शब्दकल्पद्रुमः
Sanskrit
काकबलिः,
पुं,
(काकेभ्यो देयो बलिरन्नादिकम् ।)काकसम्पदानकान्नादि तद्दानविधिर्यथा ।ओँ यमद्वारावस्थितनानादिग्देशीयवायसेभ्यो नमः ।इति पाद्यादिभिरभ्यर्च्च्य प्रार्थयेत् ।“ओँ काकत्वं यमदूतोऽसि गृहाण बलिमुत्तमम् ।यमलोकगतं प्रेतं त्वमाप्यायितुमर्हसि
ओँ काकाय काकपुरुषाय वायसाय महात्मने ।अत्र पिण्डं प्रयच्छामि कथ्यतां धर्म्मराजनि”
इति पूरकपिण्डदानान्त हलायुधः
*
बलिवैश्वदेवान्तर्गततद्विधिर्यथा, --“ऐन्द्रवारुणवायष्याः सौम्या वै नैरृतास्तथा ।वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्”
ओँ काक्येभ्यो नमः इति दद्यात् तदुपरि अद्भिःसिञ्चेत् इत्याह्निकाचारतत्त्वम्
*
गयायां तद्विधिर्यथा, --“बलिः काकशिलायाञ्च काकमोक्षणमोक्षदः” ।इति श्रीवायुपुराणे श्वेतवाराहकल्पे गयामा-हात्म्ये अध्यायः
तत्र तृतीयदिनकृत्ये काक-बलिदानं यथा, --“ततः काकबलिं क्षिप्त्वा पुनः स्नानं समाचरेत् ।ऐन्द्रवारुणवायव्या याम्या वै नैरृतास्तथा
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्”
इति श्रीवायुपुराणे अध्यायः