| YouTube Channel

कष्टिः (kaSTiH)

 
Apte 1890
English
कष्टिः f. 1 Test, trial.
2 Injury, trouble, pain.
कृदन्तरूपमाला
Sanskrit
1 {@“कश गतिशासनयोः”@} 2 ‘कसि’ ‘कस’ इत्यनयोः पाठान्तरम्।
काशकः-शिका, काशकः-शिका, चिकशिषकः-षिका, 3 चाकशकः-शिका
कशिता-त्री, काशयिता-त्री, चिकशिषिता-त्री, चाकशिता-त्री
-- काशयन्-न्ती, काशयिष्यन्-न्ती-ती
-- 4 कशानः, काशयमानः, चिकशिषमाणः, चाकश्यमानः
कशिष्यमाणः, काशयिष्यमाणः, चिकशिषिष्यमाणः, चाकशिष्यमाणः
5 कट्-कड्-कशौ-कशः
-- -- कशितम्-तः, काशितः-तम्, चिकशिषितः, चाकशितः-तवान्
कशः, 6 कशा, प्रतिष्कशः, 7 काशः, चिकशिषुः, चिकाशयिषुः, चाकशः
कशितव्यम्, काशयितव्यम्, चिकशिषितव्यम्, चाकशितव्यम्
8 कशनीयम्, प्रनिकाशनीयम्, चिकशिषणीयम्, चाकशनीयम्
काश्यम्, काश्यम्, चिकशिष्यम्, चाकश्यम्
9 ईषत्कशः-दुष्कशः-सुकशः
-- -- कश्यमानः, काश्यमानः, चिकशिष्यमाणः, चाकश्यमानः
काशः, काशः, चिकशिषः, चाकशः
कशितुम्, काशयितुम्, चिकशिषितुम्, चाकशितुम्
कष्टिः, काशना, चिकशिषा, चिकाशयिषा, चाकशा
कशनम्, काशनम्, चिकशिषणम्, चाकशनम्
कशित्वा, काशयित्वा, चिकशिषित्वा, चाकशित्वा
प्रकश्य, प्रकाश्य, प्रचिकशिष्य, प्रचाकश्य
काशम् २, कशित्वा २, काशम् २, काशयित्वा २, चिकशिषम् २, चिकशिषित्वा २, चाकशम्
चाकशित्वा २।
प्रासङ्गिक्यः
01
=>
(१७८)
02
=>
(२-अदादिः-१०२४। अक। सेट्। आत्म।)
03
=>
[[२। ‘दीर्घोऽकितः’ (७-४-८३) इति अभ्यासे दीर्घः।]]
04
=>
[[३। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुक्।]]
05
=>
[[४। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इति षत्वम्। जश्त्वम्।]]
06
=>
[[५। पचाद्यचि टाप्।]]
07
=>
[[६। ‘प्रतिष्कशश्च कशेः’ (६-१-१५२) इति पचाद्यचि सुट्। षत्वं च। वार्ता- पुरुषः सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते। ‘प्राममद्य प्रवेक्ष्यामि भव- मेत्वं प्रतिष्कशः।’ इति काशिका।]]
08
=>
[[आ। ‘स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिंसी नतचितनिञ्जी।।’ धा। का। २-४५।]]
09
=>
[पृष्ठम्०१७४+ २९]
1 {@“कष हिंसायाम्”@} 2 काषकः-षिका, काषकः-षिका, चिकषिषकः-षिका, चाकषकः-षिका
कषिता-त्री, काषयिता-त्री, चिकषिषिता-त्री, चाकषिता-त्री
कषन्-न्ती, काषयन्-न्ती, चिकषिषन्-न्ती
-- कषिष्यन्-न्ती-ती, काषयिष्यन्-न्ती-ती, चिकषिषिष्यन्-न्ती-ती
काषयमाणः, काषयिष्यमाणः, चाकष्यमाणः, चाकषिष्यमाणः
कट्-कड्-कषौ-कषः
-- -- -- 3 कष्टम् 4 -ष्टः-ष्टवान् कषितम्-तः-तवान् काषितः-तम्, चिकषिषितः, चाकषितः-तवान्
कषः, 5 सत्कषः, 6 सर्वङ्कषः, कूलङ्कषः, कूलङ्कषा 7 8 अभ्रङ्कषो 9 करीषङ्कषा 10, 11 पत्काषी, 12 विकाषी, काषः, चिकषिषुः, चिकाषयिषुः, चाकषः
13 कषितव्यम्, काषयितव्यम्, चिकषिषितव्यम्, चाकषितव्यम्
कषणीयम्, काषणीयम्, चिकषिषणीयम्, चाकषणीयम्
काष्यम्, काष्यम्, चिकषिष्यम्, चाकष्यम्
ईषत्कषः-दुष्कषः-सुकषः
-- -- कष्यमाणः, काष्यमाणः, चिकषिष्यमाणः, चाकष्यमाणः
काषः, 14 निकषः, आकषः, काषः, चिकषिषः, चाकषः
कषितुम्, काषयितुम्, चिकषिषितुम्, चाकषितुम्
कष्टिः, काषणा, चिकषिषा, चिकाषयिषा, चाकषा
कषणम्, काषणम्, चिकषिषणम्, चाकषणम्
कषित्वा, काषयित्वा, चिकषिषित्वा, चाकषित्वा
प्रकष्य, प्रकाष्य, प्रचिकषिष्य, प्रचाकष्य
काषम् २, कषित्वा २, 15 निमूलकाषं 16 17 समूलकाषं 18 काषम् २, काषयित्वा २, चिकषिषम् २, चिकषिषित्वा २, चाकषम्
चाकषित्वा २।
प्रासङ्गिक्यः
01
=>
(१७९)
02
=>
(१-भ्वादिः-६८६। सक। सेट्। पर।)
03
=>
[[१। ‘कृच्छ्रगहनयोः कषः’ (७-२-२२) इति असह्ये दुष्प्रापे अर्थविशेषे निष्ठायाम- निट्। अन्यत्र ‘कषित’ इति।]]
04
=>
[[आ। ‘कष्टं विनर्दतः क्रूरान् शस्त्रघुष्टकरान् कपिः।।’ भ। का। ९-१८।]]
05
=>
[[B। ‘सुकर्मणः क्ष्माविबुधान् हविर्दुघाः तथाऽर्जुंनीः गाः स्म निहन्ति सत्कषम्।’ वा। वि। ३। ४६।]]
06
=>
[[२। ‘सर्वकूलाभ्रकरीषेषु कषः’ (३-२-४२) इति खच्। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्।]]
07
=>
[नदी, ]
08
=>
[[C। ‘सर्वङ्कषयशश्शाखं रामकल्पतरुं कपिः। आदायाभ्रङ्कषं प्रायान्मलयं फलशालिनम्।।’ भ। का। ६-१०३।]]
09
=>
[वायुः, ]
10
=>
[वात्या]
11
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः। ‘हिमकाषि--’ (६-३-५४) इति पद्भावः।]]
12
=>
[[४। ‘वौ कषलस--’ (३-२-१४३) इति घिनुण् ताच्छीलिकः।]]
13
=>
[पृष्ठम्०१७५+ २६]
14
=>
[[१। ‘गोचरसंचर--’ (३-३-११९) इति सूत्रे अनुक्तसमुच्चयार्थकचकारात् अन्यत्रापि संज्ञायां अधिकरणे घः।]]
15
=>
[[२। ‘निमूलसमूलयोः कषः’ (३-४-३४) इति णमुल्। उपपदसमासः। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुलन्तात् परत्र पूर्वप्रयुक्तधातोरेवानुप्रयोगः।]]
16
=>
[कषति]
17
=>
[[आ। ‘समूलकाषं चकषू रुदन्तः रामान्तिकं बृंहितमन्युवेगाः।’ भ। का। ३-४९।]]
18
=>
[कषति]