| YouTube Channel

कश्यपः (kazyapaH)

 
Apte
English
कश्यपः [kaśyapḥ],
a.
Having black teeth.
पः A tortoise.
A sort of fish.
A kind of deer.
N.
of a Ṛiṣi, the husband of Aditi and Diti, and thus the father both of gods and demons, (so called because he drank कश्य 'liquor'
cf.
कश्यपस्तस्य पुत्रो$भूत कश्यपानात् कश्यपः Mārk.
P.
) [He was the son of Marīchi, the son of Brahmā. He bears a very important share in the work of creation. According to Māhabhārata and other accounts, he married Aditi and 12 other daughters of Dakṣa, and begot on Aditi the twelve Ādityas. By his other twelve wives he had a numerous and very diversified progeny: serpents, reptiles, birds, demons, nymphs of the lunar constellation. He was thus the father of gods, demons, men, beasts, birds and reptiles-in fact of all living beings. He is therefore
oft
en called Prajāpati].
Comp.
-नन्दनः an epithet of Garuḍa.
Apte 1890
English
कश्यपः a. Having black teeth.
पः 1 A tortoise.
2 A sort of fish.
3 A kind of deer.
4 N. of a Ṛṣi, the husband of Aditi and Diti, and thus the father both of gods and demons, (so called because he drank कश्य ‘liquor
cf. कश्यपस्तस्य पुत्रोऽभूत् कश्यपानात् कश्यपः Mārk. P.) [He was the son of Marīci, the son of Brahmā. He bears a very important share in the work of creation. According to Mahābhārata and other accounts, he married Aditi and 12 other daughters of Dakṣa, and begot on Aditi the twelve Ādityas. By his other twelve wives he had a numerous and very diversified progeny: serpents, reptiles, birds, demons, nymphs of the lunar constellation. He was thus the father of gods, demons, men, beasts, birds and reptiles-in fact of all living beings. He is therefore often called Prajāpati].
Comp.
नंदनः an epithet of Garuḍa.
Apte Hindi
Hindi
कश्यपः
नपुं*
- कश्य-पा-क
कछुवा
कश्यपः
नपुं*
- कश्य-पा-क
"एक ऋषि, अदिति और दिति के पति"
शब्दकल्पद्रुमः
Sanskrit
कश्यपः,
पुं,
(कश्यं सोमरसादिजनितं मद्यं पिब-तीति कश्य + पा + अस्य नामनिरुक्ति-र्यथा मार्कण्डेयपुराणे १०४ ।“ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः ।कश्यपस्तस्य पुत्त्रोऽभूत् कश्यपानात् कश्यपः”
)मुनिभेदः कलागर्भजो मरीचिमुनेरौरसः पुत्त्रः ।अस्य भार्य्या दक्षस्य सप्तदशकन्याः तासां तत्पु-त्त्राणाञ्च नामानि यथा अदितेर्देवाः दिते-र्दैत्याः दनोर्दानवाः काष्ठाया अश्वादयः ४अरिष्टाया गन्धर्व्वाः सुरसाया राक्षसाः ६इलाया वृक्षाः मुनेरप्सरोगणाः कोधवशायाःसर्पाः ताम्रायाः श्येनगृध्रादयः १० सुरभेर्गो-महिषाः ११ सरमायाः श्वापदाः १२ तिमेर्यादो-गणाः १३ विनताया गरुडारुणौ १४ कद्रोर्नागाः१५ पतङ्ग्याः पतङ्गाः १६ यामिन्याः शलभाः १७ ।इति श्रीभागवतम्
*
(मार्कण्डेयपुराणमते अस्य त्रयोदशभार्य्याः ।यदुक्तं तत्रैव १०४ अध्याये अदितिः दितिः २दनुः विनता खसा कद्रुः मुनिः ७क्रोधा रिष्टा इरा १० ताम्रा ११ इला १२प्रधा १३ महाभारतमतेऽपि अस्य त्रयोदशभार्य्या यदुक्तं तत्रैव ६५ ११--१३ ।“मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः ।प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा ।क्रोधा प्राधा तिश्वा विनता कपिला मुजिः ।कद्रुश्च मनुजव्याघ्र ! दक्षकन्यैव भारत” !
परमेश्वरस्यैव कश्यप इति नामास्ति यथा, “तेनैवेमाः सर्व्वाः प्रजाः उत्पादितास्तस्मात् सर्व्वाइमाः प्रजाः काश्यप्य इत्युच्यन्ते कश्यपः कस्मात्पश्यको भवतीति निरुक्त्या पश्यतीति पश्यःसर्व्वज्ञतया सकलं जगद्विजानाति पश्यः ।पश्य एव निर्भ्रमतयातिसूक्ष्ममपि वस्तु यथार्थंजानात्येवातः पश्यक इति आद्यन्ताक्षरविप-र्य्ययासिद्धेः सिंहः कृतेस्तर्कुरित्यादिवत् कश्यपइति हयवरट् इत्येतस्योपरि महाभाय्यप्रमाणेनपदं सिध्यति”
इति दयानन्दकृतायां वेदभाष्यो-पक्रमणिकायां २९१ सङ्ख्यकपत्रे
कश्यं अज्ञानंअविद्यामित्यर्थः तत्पिबति शोषयति नाश-यति यद्वा कश्यं विज्ञानघनम् पाति रक्षतिस्वात्मनीति परब्रह्म तथा तापनिश्रुतिः२ ११
“सा होवाच गान्धर्व्वी ऋषिं वै दुर्व्वाससं कोऽयंब्रह्मन् ! दा एतस्य प्रजालोकस्य पालयिता भर्त्तावा जगतः सहोवाच तत्त्ववित् प्रवरो महान्दुर्व्वासाः तदेव ब्रह्म वा आत्मा एतस्य पाताहर्त्ता प्रजानां गोप्ता वावह कश्यपो योऽयम-ज्ञानभोक्ता गान्धर्व्वि”
कच्छपः तथा शतपथब्राह्मणे--“स यत्कूर्म्मो नाम प्रजापतिः प्रजा असृजतयदसृजताकरोत्तद्यदकरोत्तस्मात् कूर्म्मः कश्यपोवै कूर्म्मस्तस्मादाहुः सर्व्वाः प्रजाः काश्यप्यः”
यथा यजुर्व्वेदे २४ २७ ।“अपामुद्रो मासां कश्यपः” “कश्यपः कच्छपः” ।इति वेददीधितिः
कश्यं मद्यं पिबतीति ।कश्य + पा + “सुरापः श्यावदन्तः स्यात्” ।इति वचनात्तथात्त्वम् श्यावदन्ते त्रि, यथा, कात्यायनश्रौतसूत्रे १० ३५ ।“प्रसृप्तेभ्यश्चान्यत् कण्वकश्यपयाचमानवर्ज्जम्”
)मृगविशेषः इति मेदिनी
मत्स्यभेदः इतिविश्वः
कृदन्तरूपमाला
Sanskrit
1 {@“दृशिर् प्रेक्षणे”@} 2 दर्शकः-र्शिका, दर्शकः-र्शिका, 3 दिदृक्षकः-क्षिका, 4 दरीदृशकः-शिका
5 द्रष्टा-द्रष्ट्री, दर्शयिता-त्री, दिदृक्षिता-त्री, दरीदृशिता-त्री
6 पश्यन्-न्ती, 7 8 पश्यन् 9, दर्शयन्-न्ती, 10 11 सन्दिदृक्षन्-न्ती
द्रक्ष्यन्-न्ती-ती, दर्शयिष्यन्-न्ती-ती, 12 सन्दिदृक्षिष्यन्-न्ती-ती
-- 13 संपश्यमानः, दर्शयमानः, 14 दिदृक्षमाणः, दरीदृश्यमानः, सन्द्रक्ष्यमाणः, दर्शयिष्यमाणः, दिदृक्षिष्यमाणः, दरीदृशिष्यमाणः
15 तादृक्-तादृशौ-तादृशः
-- -- -- दृष्टम्-दृष्टः-दृष्टवान्, दर्शितः, दिदृक्षितः, दरीदृशितः-तवान्
16 17 पश्यः, उत्पश्यः, 18 तादृशः, यादृशः, 19 सदृक्-सदृशः, अन्यादृक्- अन्यादृशः, ईदृक्-कीदृक्-ईदृशः-कीदृशः- 20 ईदृक्षः-कीदृक्षः, तादृक्षः, यादृक्षः, सदृक्षः, अन्यादृक्षः, सदृशी, तादृशी, 21 पापदृश्वा 22 -पारदृश्वरी, विवेकदृश्वा, 23 यमास्यदृश्वरी, 24 असूर्यम्पश्याः 25 26, 27 उग्रम्पश्यः 28, 29 कश्यपः, 30 31 सुदर्शनः, 32 ददृशिवान्-ददृश्वान् 33, मार्गदर्शी, दर्शः, 34 दिदृक्षुः, 35 सन्दिदर्शयिषुः, दरीदर्शः
द्रष्टव्यम्, दर्शयितव्यम्, दिदृक्षितव्यम्, दरीदृशितव्यम्
दर्शनीयम्, दर्शनीयम्, दिदृक्षणीयम्, दरीदृशनीयम्
दृश्यम्, दर्श्यम्, दिदृक्ष्यम्, दरीदृश्यम्
36 ईषद्दर्शनः-दुर्दर्शनः-सुदर्शनः
-- -- दृश्यमानः, दर्श्यमानः, दिदृक्ष्यमाणः, दरीदृश्यमानः
दर्शः, 37 आदर्शः, 38, 39 दर्शः दर्शः, दिदृक्षः, दरीदृशः
द्रष्टुम्, 40 द्रष्टुम्, 41 दर्शयितुम्, दिदृक्षितुम्, दरीदृशितुम्
42 दृक्, दृष्टिः, 43 दृष्टिः, दर्शना, दिदृक्षा, दरीदृशा
दर्शनम्, 44 पश्यः, दर्शनम्, दिदृक्षणम्, दरीदृशनम्
45 दृष्ट्वा, दर्शयित्वा, दिदृक्षित्वा, दरीदृशित्वा
सन्दृश्य, प्रदर्श्य, प्रदिदृक्ष्य, प्रदरीदृश्य
46 कन्यादर्शं 47, 48 मांसशोणितसन्दर्शं, विप्रदर्शम्
दर्शम् २, दृष्ट्वा २, दर्शम् २, दर्शयित्वा २, दिदृक्षम् २, दिदृक्षित्वा २, दरीदृशम्
दरीदृशित्वा
49 इति कुप्रत्यये, यथाक्रमं पश्वादेशे रूपम्।
पशुः = मन्त्रबाह्यो जनः।]] पशुः।
प्रासङ्गिक्यः
01
=>
(८६५)
02
=>
(१-भ्वादिः-९८८। सक। अनि। पर।)
03
=>
[[१। सन्नन्तान्ण्वुलि, सनो झलादित्वेन, ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वेन, अमभावे, द्वित्वादिषु कृतेषु, ‘त्रश्च--’ (८-२-३६) इत्यादिना धातुशकारस्य षकारे, ‘षढोः कः सि’ (८-२-४१) इति तस्य ककारे, षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[२। यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासे रीगागमः।]]
05
=>
[[३। तृचि, ‘सृजिदृशोर्झल्यमकिति’ (६-१-५८) इति अमागमे, यणादेशे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[४। शतरि, शपि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ- पश्यर्च्छ--’ (७-३-७८) इति पश्यादेशे, पररूपे, रूपमेवम्। एवं शानजन्तेऽपि ज्ञेयम्।]]
07
=>
[हरिं]
08
=>
[[५। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति हेतौ शता। हरिदर्शनं मोक्षहेतुरित्यर्थः।]]
09
=>
[विमुच्यते]
10
=>
[ग्रामं]
11
=>
[[६। ‘दृशेश्च--’ (वा। १-३-२९) इत्यत्र ‘अकर्मकात्’ इत्युक्त्या, सकर्मकादस्मात् सम्पूर्वकात् तु यथाप्राप्तं परस्मैपदमेव भवतीति, तदन्तादस्मात् सनि परस्मै- पदमेव, नात्मनेपदमिति ध्येयम्।]]
12
=>
[ग्रामं]
13
=>
[[७। सम्पूर्वकादकर्मकादस्मात्, ‘दृशेश्चेति वक्तव्यम्’ (वा। १-३-२९) इति शानच्।]]
14
=>
[[८। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तादात्मनेपदमेव।]]
15
=>
[[९। ‘त्यदादिषु दृशोऽनालोचने कञ् च’ (३-२-६०) इत्यनेन क्विन्-कञ् इत्युभौ प्रत्ययौ भवतः। तत्र क्विनि, त्यदादीनां उपपदभूतानां ‘आ सर्वनाम्नः’ (६-३-९१) इत्यनेन दृग्दृशवतुषु परेषु आत्वे, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे रूपम्। एवम्, यादृक्, तादृक्, ईदृक् इत्यादयोऽपि ज्ञेयाः।]]
16
=>
[पृष्ठम्०७६५+ २९]
17
=>
[[१। कर्तरि, ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) इति शप्रत्यये, शपि, ‘पाघ्राध्मा- स्थाम्नादाण्दृश्यर्ति--’ (७-३-७८) इत्यादिना पश्यादेशे, पररूपे पश्यः इति भवतिः। ‘अनुपसर्गात्’ इति, अत्र सम्बध्यते, इति केचित्। तेन पश्यः इत्येव सिद्ध्यति। तूत्पश्य इति।]]
18
=>
[[२। ‘त्यदादिषु दृशोऽनालोचने कञ्च’ (३-२-६०) इत्यनेन कनि प्रत्यये सर्वनाम्नो दृग्दृशवतुषु दीर्घे रूपम्। स्त्रियाम्, ‘टिड्ढाणञ्’ (४-१-१५) इत्यादिना ङीप्।]]
19
=>
[[३। ‘समानान्ययोश्च’ (वा। ३-२-६०) इति क्विन्कञौ प्रत्ययौ भवतः। तत्र, ‘दृग्दृशवतुषु’ (६-३-८९) इत्यनेन समानशब्दस्य सभावे सदृक् सदृशः सदृक्षः इति भवति। ईदृक् इत्यादिषु क्विन्कञोः प्रत्यययोः ‘इदंकिमोरीश्की’ (६-३-९०) इत्यनेन प्रकृतेः की इत्येतौ आदेशौ भवत इति विशेषः।]]
20
=>
[[४। ‘दृशेः क्सश्च वक्तव्यः’ (वा। ३-२-६०) इति क्सप्रत्यये रूपम्।]]
21
=>
[[५। कर्मण्युपपदे, भूतकाले, ‘दृशेः क्वनिप्’ (३-२-९४) इति क्वनिप्। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इत्येव क्वनिप्प्रत्ययेऽस्मादपि सिद्धे, अत्र सूत्रे पुनर्वचनं मनिनादिनिवृत्त्यर्थम्। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीप्, रेफादेशश्च।]]
22
=>
[[आ। ‘मां घ्नता भवताऽकारि निश्शङ्कं पापदृश्वना।।’ भ। का। ६। १३०।]]
23
=>
[[B। ‘यमास्यदृश्वरी तस्य ताटका वेत्ति विक्रमम्।’ भ। का। ५। ३४।]]
24
=>
[[६। ‘असूर्यललाटयोर्दृशितपोः’ (३-२-३६) इति खश्। शित्त्वात् पश्यादेशः। खित्त्वात् मुम्। असूर्य इति निपातनात् नञोऽसमर्थसमासः।]]
25
=>
[[C। ‘असूर्यम्पश्यया मूर्त्या हृता तां मृगयावहे।।’ भ। का। ६। ९९।]]
26
=>
[राजदाराः]
27
=>
[[७। ‘उग्रम्पश्येरम्मदपाणिन्धमाश्च’ (३-२-३७) इत्यनेन खश्प्रत्ययान्तो निपातितः। उग्रमिति क्रियाविशेषणम्। ‘उग्रम्पश्यः क्रूरदृष्टिरुग्रं पापं विदन्नपि।’ इति प्र। सर्वस्वे।]]
28
=>
[[ड्। ‘उग्रम्पश्याकुलेऽरण्ये शालीनत्वविवर्जिता।’ भ। का। ४। २३।]]
29
=>
[[८। पश्यतीति पश्यः। एव पश्यकः--स्वार्थे कन्। ‘पश्यकः कश्यपोऽभवत्’ इति पौराणिकवचनात् पृषोदरादित्वात् कल्मशम्-कश्मलम् इत्यादिष्विव वर्णव्यत्ययः।]]
30
=>
[पृष्ठम्०७६६+ २८]
31
=>
[[१। सुष्ठु दर्शयतीति सुदर्शनः। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः।]]
32
=>
[[२। क्वसौ, ‘दृशेश्चेति वक्तव्यम्’ (वा। ७-२-६८) इति इड्विकल्पे रूपद्वयम्।]]
33
=>
[[आ। ‘प्राह्णतनादित्यकरोपमप्तः पुरीं ददृश्वान् गजतावृतां सः।।’ वा। वि। २। २३।]]
34
=>
[[B। ‘संकथेच्छुरभिधातुमनीशा सम्मुखी बभूव दिदृक्षुः।’ शि। व। १०। ४१।]]
35
=>
[[C। ‘सन्दिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्।’ भ। का। ५। ६४।]]
36
=>
[[३। ईषदाद्युपपदेषु ‘भाषायां शासियुधिदृशि--’ (वा। ३-३-१३०) इति खलपवादो युच्प्रत्ययः। ‘अयं युच् वा।’ इति प्र। कौमुदी। तेन, पक्षे ईषद्दर्शः-दुर्दर्शः- सुदर्शः इत्यपि साधु।]]
37
=>
[[४। करणेऽधिकरणे चार्थे, ‘पुंसि संज्ञायां घः --’ (३-३-११८) इति घप्रत्ययः। आदर्शः = दर्पणम्।]]
38
=>
[[ड्। ‘अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु।।’ शि। व। ३। ३५।]]
39
=>
[[५। दृश्येते सूर्याचन्द्रमसावस्मिन् दिवसे इत्यधिकरणे, ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। दर्शः = अमावास्या।]]
40
=>
[[६। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थक्रियायां तुमुन्।]]
41
=>
[[E। ‘वयमद्यैव गच्छामो रामं द्रष्टुं त्वरान्विताः।’ भ। का। ७। २९।]]
42
=>
[[७। स्त्रियाम्, सम्पदादित्वात् (वा। ३-३-९४) भावे क्विप्। ‘क्तिन्नपीष्यते’ (वा। ३-३-९४) इत्युक्त्या दृष्टिरित्यपि साधुः।]]
43
=>
[[८। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। दृष्टिः = नेत्रम्।]]
44
=>
[[९। यद्यपि, ‘पश्यार्थैश्चानालोचने’ (८-१-२५) इत्यत्र निर्देशबलात् दर्शनम् = पश्यः, भावे शप्रत्ययोऽयम्। ल्युडपवादोऽयमिति प्रतीयते, तथाऽपि, ‘अदर्शनम् लोपः’ (१-१-६०) इति ल्युडन्तस्यापि सूत्रकारनिर्देशात् ल्युडपि भवति।]]
45
=>
[पृष्ठम्०७६७+ २७]
46
=>
[[१। कर्मण्युपपदे ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति णमुल्। यां यां कन्यां पश्यति तास्सर्वा अपि वरयतीति भावः।]]
47
=>
[वरयति]
48
=>
[[आ। ‘मांसशोणितसन्दर्शं तुण्डघातमयुध्यत।।’ भ। का। ५। १०१।]]
49
=>
[[२। ‘अर्जिदृशि--’ [द। उ। १। ११२]