| YouTube Channel

कव्यबाल (kavyabAla)

 
शब्दकल्पद्रुमः
Sanskrit
कव्यबालः,
पुं,
(कव्यं बल्यते दीयते अस्मै कव्य +बल् दाने + सम्प्रदाने घञ् ।) पितृगणविशेषः ।इति त्रिकाण्डशेषः
(यथा, वायुपुराणे ।“कव्यबालोऽनलः सोमः यमश्चैवार्य्यमा तथा ।अग्निस्वात्ता वर्हिषदः सोमपाः पितृदेवताः”
)
वाचस्पत्यम्
Sanskrit
कव्यबाल
पु०
कव्यं बलते ददाति अत्र बल--दानेआधारे घञ् वह्नौ तत्र दाने हि पितॄणां दाननि-प्पत्तेस्तथात्वम् कव्यं बल्यते दीयते बल--दानेसम्प्रदाने घञ् पितृदेवभेदे त्रिका० “कव्यबालीऽनलःसोमः यमश्चैवार्यमा तथा अग्निष्वात्ता बर्हिषदःसोमपाः पितृदेवताः वायु०
पु०
लस्य बा डःकव्यबाडोऽप्यत्र