| YouTube Channel

कवनीयम् (kavanIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कु शब्दे”@} 2 3 ‘सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्।
तथाहि-- कवतिस्तावत्--अव्यक्ते शब्दे वर्तते--उष्ट्रः कोकूयते--इति।
कुवति- रप्यार्तस्वरे वर्तते--चोकूयते वृषल इति, पीडित इत्यर्थः।
कौतिस्तु शब्दमात्रे।’ इति दैवव्याख्याने पुरुषकारेन्यासवचनमुपात्तमिहानुसन्धेयम्।]] ‘अव्यक्तशब्दे कवते, कुवते त्वार्तशब्दने।
कौतीति शब्दमात्रे स्यात्--’ 4 इति देवः।
5 कावकः-विका, कावकः-विका, 6 चुकूषकः-षिका, 7 चुकावयिषकः-षिका, 8 चोकूयकः-यिका
कोता-त्री, कावयिता-त्री, चुकूषिता-त्री, चुकावयिषिता-त्री, चोकूयिता-त्री
9 कुवन्- 10 ती, कावयन्-न्ती, चुकूषन्-न्ती, चुकावयिषन्-न्ती
-- कोष्यन्-न्ती-ती, कावयिष्यन्-न्ती-ती, चुकूषिष्यन्-न्ती-ती, चुकावयिषिष्यन्-न्ती-ती
कावयमानः, कावयिष्यमाणः, चोकूयमानः, चोकूयिष्यमाणः, -- -- चुकावयिषमाणः, चुकावयिषिष्यमाणः
11 प्रकुत्-प्रकुतौ-प्रकुतः
-- -- -- कुतम्-तः, कावितः-तम्, चुकूषितः, चुकावयिषितः, चोकूयितः-तवान्
कवः, कावः, चुकूषुः, चुकावयिषुः, 12 चोकुवः
कोतव्यम्, कावयितव्यम्, चुकूषितव्यम्, चुकावयिषितव्यम्, चोकूयितव्यम्
कवनीयम्, कावनीयम्, चुकूषणीयम्, चुकावयिषणीयम्, चोकूयनीयम्
कव्यम्, काव्यम्, 13 अवश्यकाव्यम्, चुकूष्यम्, चुकावयिष्यम्, चोकूय्यम्
ईषत्कवः-दुष्कवः-सुकवः
-- -- -- -- कूयमानः, काव्यमानः, चुकूष्यमाणः, चुकावयिष्यमाणः, चोकूय्यमानः
14 कवः, कावः, चुकूषः, चुकावयिषः, चोकूयः
कोतुम्, कावयितुम्, चुकूषितुम्, चुकावयिषितुम्, चोकूयितुम्
15 कुतिः, कावना, चुकूषा, चुकावयिषा, चोकूया
कवनम्, कावनम्, चुकूषणम्, चुकावयिषणम्, चोकूयनम्
कुत्वा, कावयित्वा, चुकूषित्वा, चुकावयिषित्वा, चोकूयित्वा
प्रकुत्य, प्रकाव्य, प्रचुकूष्य, प्रचुकावयिष्य, प्रचोकूय्य
कावम् २, कुत्वा २, कावम् २, कावयित्वा २, चुकूषम् २, चुकूषित्वा २, चुकावयिषम् २, चुकावयिषित्वा २, चोकूयम्
चोकूयित्वा
16 कविः
प्रासङ्गिक्यः
01
=>
(१९६)
02
=>
(२-अदादिः-१०४२। अक। अनि। पर।)
03
=>
[[[अ]
04
=>
(श्लो। २३)
05
=>
[पृष्ठम्०१९१+ २५]
06
=>
[[१। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। अभ्यासकार्यम्।]]
07
=>
[[२। ‘णिच्यच आदेशो स्यात् द्वित्वे कर्तव्ये’ (भाष्यम् १-१-५९) इत्यर्थस्य-- ‘ओः पुयण्--’ (७-४-८०) इत्यत्र ज्ञापितत्वात् प्रथमतो वृद्ध्यावादेशौ न।]]
08
=>
[[३। ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणोऽभ्यासस्य। ‘अतो लोपः’ (६-४-४८) इत्यलोपः।]]
09
=>
[[४। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्।]]
10
=>
[[आ। ‘सोऽनूर्णुतोऽद्यौत् जनसुत् कुवत्या काञ्च्येव कामं स्तुवतां ब्रुवाणः।।’ धा। का। २-४७।]]
11
=>
[[५। ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
12
=>
[[६। यङन्तात् पचाद्यचि उवङ्।]]
13
=>
[[७। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
14
=>
[[८। ‘ॠदोरप्’ (३-३-५७) इति भावे अप्।]]
15
=>
[पृष्ठम्०१९२+ २२]
16
=>
[[१। औणादिकः ‘अच इः’ (द। उ। १-६७) इति इः प्रत्ययः।]]
1 {@“कुङ् शब्दे”@} 2 3 “सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्।
तथाहि--कवतिस्तावत्-- अव्यक्ते शब्दे वर्तते--उष्ट्रः कोकूयते इति।
कुवतिरपि--आर्तस्वरे वर्तते-- चोकूयते वृषल इति
पीडित इत्यर्थः।
कौतिस्तु शब्दमात्रे।” इति दैवव्याख्याने पुरुषकारे उपात्तं न्यासवचनमिहानुसन्धेयम्।]] ‘अव्यक्तशब्दे कवते, कुवते त्वार्तशब्दने।
कौतीति शब्दमात्रे स्यात्--’ 4 इति देवः।
कावकः-विका, कावकः-विका, चुकूषकः-षिका, 5 कोकूयकः-यिका
कोता-त्री, कावयिता-त्री, चुकूषिता-त्री, कोकूयिता-त्री
-- कावयन्-न्ती, कावयिष्यन्-न्ती-ती
-- कवमानः, कावयमानः, चुकूषमाणः, कोकूयमानः
6 कोष्यमाणः, कावयिष्यमाणः, चुकूषिष्यमाणः, कोकूयिष्यमाणः
कुत्-कुतौ-कुतः
-- -- -- कुतम्- 7 तः, कावितः-तम्, चुकूषितः, कोकूयितः-तवान्
कवः, कावः, चुकूषुः, चुकावयिषुः, कोकुवः
कोतव्यम्, कावयितव्यम्, चुकूषितव्यम्, कोकूयितव्यम्
कवनीयम्, कावनीयम्, चुकूषणीयम्, कोकूयनीयम्
कव्यम्, अवश्यकाव्यम्, काव्यम्, चुकूष्यम्, कोकूय्यम्
ईषत्कवः-दुष्कवः-सुकवः
-- -- 8 कूयमानः, काव्यमानः, चुकूष्यमाणः, कोकूय्यमानः
कवः, कावः, चुकूषः, कोकूयः
कोतुम्, कावयितुम्, चुकूषितुम्, कोकूयितुम्
कुतिः, कावना, चुकूषा, चुकावयिषा, कोकूया
कवनम्, कावनम्, चुकूषणम्, कोकूयनम्
कुत्वा, कावयित्वा, चुकूषित्वा, कोकूयित्वा
प्रकुत्य, संकाव्य, प्रचुकूष्य, प्रकोकूय्य
कावम् २, कुत्वा २, कावम् २, कावयित्वा २, चुकूषम् २, चुकूषित्वा २, कोकूयम्
कोकूयित्वा २।
प्रासङ्गिक्यः
01
=>
(१९८)
02
=>
(१-भ्वादिः-९५१। अक। अनि। आत्म।)
03
=>
[[[अ]
04
=>
(श्लो। २३)
05
=>
[[४। ‘न कवतेर्यङि’ (७-४-६३) इति अभ्यासे चुत्वनिषेधः। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र बोध्यम्।]]
06
=>
[पृष्ठम्०१९४+ २४]
07
=>
[[आ। ‘श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवच्चक्रजिताज्ञितारिम्। स्मितार्द्रवक्त्रं गवमानभूषं गै त्वां घुताशं कुतशङ्गघोषैः।।’ धा। का। २-३५।]]
08
=>
[[१। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]