| YouTube Channel

कवती (kavatI)

 
वाचस्पत्यम्
Sanskrit
कवती स्त्री कशब्दः अस्त्यस्या मतुप् स्त्रियां ङीप् ।“कया नश्चित्र” इत्यादिकासु ऋक्षु “कवतीषु रथन्तरम्गायतीति” ताण्ड्य० श्रुतिः “कया नश्चित्र” इत्याद्यास्त्रिस्रऋचः कवत्यः” सा० सं भा० माधवः “अतिदेश्यं विनिश्चेतुंकवतीषु रथन्तरम्” अधिकर० मा० “ताश्च ऋचः” ऋ०४, ३१ सूक्ते आद्यास्तिस्रः तत्रान्त्यायाः कवत्त्वाभावेऽपिआय्ययोर्द्वयोः कवत्त्वेन बाहुल्यात्तथात्वम्