| YouTube Channel

कवकं (kavakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कवकं,
क्ली,
(कवते आच्छादयति विस्तारयति वा
कव् + अच् संज्ञायां कन् ।) छत्राकम् यथा, --“देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा ।अनुपाकृतमांसानि विड्जानि कवकानि च”
कवकानि छत्राकाराणि वर्ज्जयेदिति प्रत्येक-मभिसम्बध्यते इति मिताक्षरायामाचाराध्यायः