| YouTube Channel

कल्याणवाचन (kalyANavAcana)

 
वाचस्पत्यम्
Sanskrit
कल्याणवाचन
न०
त० शास्त्रविहितकर्त्तव्यकर्म्मणः प्राक्-कर्त्तव्ये ब्राह्मणादिद्वारा कल्याणयुक्तमन्त्रविशेषवाचने ।तत्प्रकारोयथा “ॐ श्वः कर्त्तव्येऽस्मित् कर्मणि कल्याणंभवन्तोऽघिब्रुवन्तुं इति प्रार्थिते ब्राह्मणैः “ॐ कल्याणम्”इति त्रिरुक्ते “ॐ पृथिव्यामुद्धृतायान्तु यत् कल्याणंपुरा कृतम् ऋषिभिः सिद्धगन्धर्व्वैस्तत् कल्याणं सदास्तुनः” इतिय थेमामित्यस्य लौगाक्षिरृविस्नुष्टुप्छन्दो ब्रह्मादेवता कल्याणवाचने विनियोग इति स्मृत्वा “ॐ यथे-मां वाचं कल्याणीमावदानि जनेभ्यः ब्रह्मराजन्याभ्यांशूद्राय चार्य्याय स्वाय चारणाय प्रियोदेवानांदक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुप-मादो नमतु” यजु० २९, २, इति पठेत्