| YouTube Channel

कल्याणकघृत (kalyANakaghRta)

 
Monier Williams Cologne
English
कल्याणक—घृत
n.
a kind of clarified butter,
Suśr.
वाचस्पत्यम्
Sanskrit
कल्याणकघृत
न०
सुश्रुतोक्ते ओषधिभेदयुक्तघृतभेदे यथा--“विडङ्गत्रिफलामुस्तामञ्जिष्ठादाडिमोत्पलैः पियङ्ग्वेलैल-बालूकचन्दनामरटारुभिः वर्हिष्ठकुष्ठरजनीपर्णिनीसारि-वाद्वयैः हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः द्विक्षीरंविपचेत्सर्प्पिर्मालतीकुसुमैः सह विषमज्वरकश्वासगुल्मो-न्मादगरापहम् एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमु-त्तमम् अलक्ष्मीग्रहरक्षोऽग्निमान्द्यापस्मारतापनुत् ।शस्यते नष्टशुक्राणां बन्ध्यानां गर्भदं परम् मेध्यञ्चक्षु-ष्यमायुष्यं रेतोमार्गरुजापहम् एतैरेव यथाद्रव्यैःसर्व्वगन्धैश्च साधितम् कपिलाया घृतप्रस्थं सुवर्णमणि-संयुतम् तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः ।सुमनश्चम्पकाशोकशिरीषकुसुमैर्घृतम् तथा नलदपद्मानांकेशरैर्दाडिमस्य तिथौ प्रशस्ते नक्षत्रे साधकस्या-तुरस्य कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् ।दत्तं सर्व्वज्वरान् हन्ति महाकल्याणकं घृतम् दर्शन-स्पर्शनाभ्यान्तु मर्व्वरोगहरं शिवम् अधृष्यः सर्व्व-भूतानां वलीपलितवर्ज्जितः अस्याभ्यासाद्घृतस्येहजीवेद्वर्षशतत्रयम्”