| YouTube Channel

कल्माषपादः (kalmASapAdaH)

 
Wordnet
Sanskrit
Synonyms:
कल्माषपादः
noun
इक्ष्वाकुवंशीयः राजा।
"शापस्य कारणात् कल्माषपादः राक्षसः जातः।"
शब्दकल्पद्रुमः
Sanskrit
कल्माषपादः,
पुं,
(कल्माषौ शापजलप्रक्षेपणात् कृष्ण-वर्णौ पादौ यस्य ।) सौदासराजः इति श्रीभा-गवतम्
(यथा, महाभारते १७७ ।“कल्माषपाद इत्येवं लोके राजा बभूव ।इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि”
)अस्य यथा कल्माषपादत्वं जातं तदुच्यते ।नलसखस्य ऋतुपर्णस्य वंशजः सौदासनामा नृपतिःपुरा मृगयां चरन् एकं राक्षसमवधीत् ।अस्य रक्षसो भ्राता तु वैरशोधनं चिकीर्षुःसूदरूपधरोऽस्य राज्ञो गृहं प्रत्युवास एकदातु असौ राक्षसः भोक्तुकामाय नृपतेः सौदा-सस्य गुरवे वशिष्ठाय नरामिषं पक्त्वा ददौ ।वशिष्ठस्तु तदभोज्यं दृष्ट्वातिक्रुद्धः “राक्षसोभविष्यतीति” राजानमशपत् राजा तु शाप-वृत्तान्तं विदित्वा विनापराधेन प्रदत्तः शापः इतिविचिन्त्य जलमादाय गुरुं प्रतिशप्तुं समुद्यतः ।एतस्मिन्नन्तरेऽस्य पत्नी मदयन्ती दृष्ट्वैवमकर-णीयोद्यतं पतिं निवारयामास राजा तु तयानिवारितः स्वपादयोः शापजलं प्रक्षिप्तवान् ।एतदारभ्यायं पादयोः कल्माषतां प्राप्तवान्
अस्यअन्या विस्तृतिस्तु भागवते अध्याये, तथामहाभारते १७७ अध्याये द्रष्टव्या
)