| YouTube Channel

कल्मषं (kalmaSaM)

 
शब्दकल्पद्रुमः
Sanskrit
कल्मषं,
क्ली,
(कर्म्म शुभकर्म्म स्यति नाशयति रस्यलत्वे षत्वे पृषोदरादित्वात् साधुः ।) पापम् ।इत्यमरः २३
(यथा, मनुः १२ २२ ।“यामीस्ता यातनाः प्राप्य सजीवो वीतकल्मषः ।तान्येव पञ्चभूतानि पुनरप्येति भागशः”
)हस्तपुच्छम् इति त्रिकाण्डशेषः
(मालिन्यम् ।यथा, हेः रामायणे ३६ २७ ।“न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।दुर्लभोऽह्यस्य निरयः शशाङ्कस्येव कल्मषम्”
)