| YouTube Channel

कल्प्यमानः (kalpyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कृप अवकल्कने”@} 2 अवकल्कनम्-मिश्रीकरणम्।
3 ‘क्षीरस्वामी तु ‘कृपेस्तादर्थ्ये’ 4 इति पठित्वा, ‘तादर्थ्ये’ इति--प्रस्तुतस्य भुवोऽर्थे मिश्रीकरणे
अथवा, तच्छब्देन कॢपिः परामृश्यते
तस्य योऽर्थः = सामर्थ्यलक्षणः, तस्मिन्--इति द्वेधा व्याख्यत्।।’ इति प्रौढमनोरमा।]] ‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति।।
5 इति देवः।
6 कल्पकः-ल्पिका, चिकल्पयिषकः-षिका
कल्पयिता-त्री, चिकल्पयिषिता-त्री
कल्पयन्-न्ती, चिकल्पयिषन्-न्ती
कल्पयिष्यन्-न्ती-ती, चिकल्पयिषिष्यन्-न्ती-ती
कल्पयमानः, चिकल्पयिषमाणः
कल्पयिष्यमाणः, चिकल्पयिषिष्यमाणः
7 कल्-कल्पौ-कल्पः
-- कल्पितम्-तः, चिकल्पयिषितः-तवान्
कल्पः, कल्पनः, चिकल्पयिषुः, कल्पयितव्यम्, चिकल्पयिषितव्यम्
8 कल्पनीयम्, चिकल्पयिषणीयम्
कल्प्यम्, चिकल्पयिष्यम्
कल्प्यमानः, चिकल्पयिष्यमाणः
ईषत्कल्पः-दुष्कल्पः-सुकल्पः
-- कल्पः, चिकल्पयिषः
कल्पयितुम्, चिकल्पयिषितुम्
कल्पना, चिकल्पयिषा
कल्पनम्, चिकल्पयिषणम्
कल्पयित्वा, चिकल्पयिषित्वा
प्रकल्प्य, प्रचिकल्पयिष्य
कल्पम् २, कल्पयित्वा २, चिकल्पयिषम्
चिकल्पयिषित्वा २। 9
प्रासङ्गिक्यः
01
=>
(२५०)
02
=>
(१०-चुरादिः-१७४९। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(ग। सू। चुरादौ)
05
=>
(श्लो। १३५)
06
=>
[[१। धातोरस्य णिजन्तत्वेनानेकाच्त्वात् यङ् न। ‘कृपो रो लः’ (८-२-१८) इति लत्वम्।]]
07
=>
[[२। पकारस्य ‘संयोगान्तस्य लोपः’ (८-२-२३) इति लोपः। णिचः स्थानिवत्त्वं तु न, ‘पूर्वत्रासिद्धे स्थानिवत्’ (वा। १-१-५८) इति निषेधात्।]]
08
=>
[पृष्ठम्०२४८+ ११]
09
=>
[पृष्ठम्०२४९+ २६]
1 {@“कृपू सामर्थ्ये”@} 2 वृतादिः।
सामर्थ्यम् = शक्तिः, योग्यता वा।
‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति।।’ 3 इति देवः।
4 कल्पकः-ल्पिका, कल्पकः-ल्पिका, 5 चिकॢप्सकः-प्सिका, 6 चलीकॢपकः-पिका
7 कल्पिता-कल्प्ता-त्री, कल्पयिता-त्री, चिकॢप्सिता-त्री, चलीकॢपिता-त्री
-- कल्पयन्-न्ती, 8 चिकॢप्सन्-न्ती
-- 9 कल्प्स्यन्-न्ती-ती, कल्पयिष्यन्-न्ती-ती, चिकॢप्सिष्यन्-न्ती-ती
-- कल्पमानः, कल्पयमानः, 10 चिकल्पिषमाणः-चिकॢप्समानः, चलीकॢप्यमानः
कल्पिष्यमाणः कल्प्स्यमानः कल्पयिष्यमाणः, चिकल्पिषिष्यमाणः चिकॢप्सिष्यमाणः चलीकॢपिष्यमाणः
सुकॢप्-सुकॢपौ-सुकॢपः
-- -- -- 11 12 कॢप्तम् 13 -कॢप्तः-कॢप्तवान्, कल्पितः, चिकॢप्सितः, चलीकॢपितः-तवान्
14 कॢपः, 15 कल्पनः, कल्पः, चिकॢप्सुः, चलीकॢपः
कल्पितव्यम्-क्ल्प्तव्यम्, कल्पयितव्यम्, चिकॢप्सितव्यम्, चलीकॢपितव्यम्
कल्पनीयम्, कल्पनीयम्, चिकॢप्सनीयम्, चलीकॢपनीयम्
16 कल्प्यम्, कल्प्यम्, चिकॢप्स्यम्, चलीकॢप्यम्
ईषत्कल्पः-दुष्कल्पः-सुकल्पः
-- -- -- कॢप्यमानः, कल्प्यमानः, चिकॢप्स्यमानः-चिकल्पिष्यमाणः, चलीकॢप्यानः
कल्पः विकल्पः, कल्पः, चिकॢप्सः, चलीकॢपः
कल्पितुम्-कल्प्तुम्, कल्पयितुम्, चिकॢप्सितुम्, चलीकॢपितुम्
कॢप्तिः, कल्पना, चिकॢप्सा, चलीकॢपा
कल्पनम्, कल्पनम्, चिकॢप्सनम्, चलीकॢपनम्
17 कल्पित्वा-कॢप्त्वा, कल्पयित्वा, चिकॢप्सित्वा, चलीकॢपित्वा
प्रकॢप्य, प्रकल्प्य, प्रचिकॢप्स्य, प्रचलीकॢप्य
कल्पम् २, कल्पित्वा-कॢप्त्वा २, कल्पम् २, कल्पयित्वा, २, चिकॢप्सम् २, चिकॢप्सित्वा २, चलीकॢपम्
चलीकॢपित्वा
18 कृपणः।
प्रासङ्गिक्यः
01
=>
(२५२)
02
=>
(१-भ्वादिः-७६२-अक। वेट्। आत्म।)
03
=>
(श्लो। १३५)
04
=>
[[१। ‘कृपो रो लः’ (८-२-१८) इति लत्वम्।]]
05
=>
[[२। ऊदिल्लक्षणमिड्विकल्पं बाधित्वा, ‘तासि कॢपः’ (७-२-६०) इति नित्यमि- ण्णिषेधः। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वान्न गुणः। यद्यपि धातु- रूपप्रकाशिकायां अस्माद् धातोः सन्नन्तात् तव्यदादिषु ‘चिकल्पिषितव्यम् चिकॢप्सितव्यम्’ इति वैकल्पिकेड्घटितानि रूपाणि प्रदर्शितानि
\n\n तथापि ‘तासि कॢपः’ (७-२-६०) इत्यत्र ‘परस्मैपदेषु’ इत्यनुवर्तमानस्य पदस्य ‘तङानयोरभावे’ इत्यर्थकतया नित्यमिण्णिषेधेन भाव्यम्। ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना प्राप्तं वैकल्पिकेडागमं ‘तासि कॢपः’ (७-२-६०) इति निषेधः बाधत एवेति, इडभावघटितरूपमेव साधु--इति प्रतिभाति। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘रीगृदुपधस्य च’ (७-४-९०) इति अभ्यासस्य रीगागमः। उभयत्र लत्वम्।]]
07
=>
[[४। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति ऊदित्त्वादिड्विकल्पः।]]
08
=>
[[५। ‘लुटि कॢपः’ (१-३-९३) इति परस्मैपदविकल्पः।]]
09
=>
[[६। ‘लुटि कॢपः’ (१-३-९३) इति स्यप्रत्यये विवक्षिते परस्मैपदविकल्पः।]]
10
=>
[[७। ‘तासि कॢपः’ (७-२-६०) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य, ‘तङानयोरभावे’ इत्यर्थकत्वात्, अत्र ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना इड्विकल्पः। एवं सन्नन्तात् यक्यपि ज्ञेयम्।]]
11
=>
[पृष्ठम्०२५१+ २०]
12
=>
[[१। ऊदित्त्वादिटो वैकल्पिकत्वेन, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्णिषेधः।]]
13
=>
[[आ। ‘अशर्धनैर्गोपकुलैस्सहासौ ययौ कृवास्यन्दसुकॢप्तमोदैः।।’ धा। का। २-३।]]
14
=>
[[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
15
=>
[[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति तच्छीलादिषु कर्तृषु युच्।]]
16
=>
[[४। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति पर्युदासात् ण्यत्प्रत्यय एव।]]
17
=>
[[५। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
18
=>
[[६। बाहुलकादौणादिके क्युन्प्रत्ययेऽनादेशे रूपम्। कित्त्वान्न गुणः। किञ्चिदपि यो ददाति एवमुच्यते।]]