कल्पलतादानं (kalpalatAdAnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritकल्पलतादानं, (महादानान्तर्गता सुवर्णकल्पितालता तस्या दानम् ।) महादानविशेषः ॥
तस्य विधिर्यथा ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।महाकल्पलतं नाम पातकावलिनाशनम् ॥
पुण्यान्तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् ।ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
तुलापुरुषवत् कुर्य्यात् लोकेशावाहनादिकम् ।चामीकरमयीः कुर्य्याद्दशकल्पलताः शुभाः ॥
नानापुष्पफलोपेता नानांशुकविभूषिताः ।विद्याधरसुपर्णानां मिथुनैरुपशोभिताः” ॥
सुपर्णानां किन्नराणाम् ॥
“हारानादित्सुभिः सिद्धैः फलानि च विहङ्गमैः ।लोकपालानुसारिण्यः कर्त्तव्यास्ताश्च देवताः” ॥
लोकपालानुसारिण्य इति लोकपालसमानाकृतयः ॥
“ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत् ।अधस्ताच्च तयोर्मध्ये महाखड्गधरे शुभे” ॥
पद्मशङ्खकरे इति क्वचित् पाठः ॥
“स्वर्णासनस्था माहेन्द्री पूर्व्वतः कुलिशायुधा ।रजनीसंस्थिताग्नेयी श्रुवपाणिरथाचला” ॥
रजनी हरिद्रा ॥
“याम्या तु महिषारूढा गदिनी तण्डुलोपरि ।नैरृत्यां नैरृती स्थाप्या सखड्गा च घृतोपरि ॥
वारुणे वारुणी क्षीरे सर्पस्था नागपाशिनी ।पताकिनी च वायव्ये मृगस्था शर्करोपरि ॥
सौम्या तिलेषु संस्थाप्या कौवेरदिशि संस्थिता ।माहेश्वरी वृषगता नवनीते तु शूलिनी ॥
मौलिन्यो वरदास्तद्वत् कर्त्तव्या बालकान्विताः ।शक्त्या पञ्चपलादूर्द्ध्वमासहस्रात् प्रकल्पयेत्” ॥
मौलिन्यो मुकुटवत्यः । वरदाः प्रसन्नमूर्त्तयः ।वालकान्विताः क्रोडनिहितपुत्रकाः । एतेन क्रो-डनिविष्टवामकरघृतपुत्रका दक्षिणहस्तविधृतयथोक्तशस्त्राः प्रसन्नमूर्त्तयो बद्धमुकुटाः सवाहनाघटनीयाः । अनुक्तवाहनानान्तु ब्राह्म्याग्नेयीनैरृतीनान्तत्तल्लोकपालवाहनानि । लोकपालानु-सारिण्य इति श्रुतेः । तेन हंसारूढा ब्राह्मीछागारूढाग्नेयी नरारूढा नैरृती घटनीया ।अनन्तस्य तु क्वचिद्वाहनादर्शनात् अनन्तशक्ति-र्व्वाहनशून्यैव कर्त्तव्या ॥
“सर्व्वासामुपरिष्टाच्च पञ्चवर्णवितानकम् ।धेनवो दशकुम्भाश्च वस्त्रपुष्पाणि चैव हि ॥
मध्यमे द्वे तु गुरवे ऋत्विग्भ्योऽन्यास्तथैव च ।ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः ।त्रिः प्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत्” ॥
“नमो नमः पापविनाशिनीभ्योब्रह्माण्डलोकेश्वरपालनीभ्यः ।आसंशिताधिक्यफलप्रदाभ्योदिग्भ्यस्तथा कल्पलताबधूभ्यः ॥
इति सकलदिगङ्गनाप्रदानंभवभयसूदनकारि यः करोति ।अभिमतफलदे स नाकलोकेवसति पितामहवत्सराणि विंशत् ॥
पितृशतमथ तारयेद्भवाब्धे-र्गुरुदुरितौघविघातशुद्धदेहम् ।सुरपतिवनितासहस्रसंघःपरिवृतमम्बुरुहोद्भवाभिनन्द्यम् ॥
इति विधानमिदं सदिगङ्गनाकनककल्पलताविनिवेदने ।पठति यः स्मरतीह तथेक्षतेस पदमेति पुरन्दरसेवितम्” ॥
* ॥
अत्र यजमानः समुपजातमहाकल्पलतामहादान-दानेच्छः तुलापुरुषलिखितं खड्गचर्म्भमयाच्छन्न-सन्नाहतुलापुरुषस्थापनीयहरिप्रतिमासालङ्कारतु-लाहस्तग्राह्यप्रतिमावहिः सर्व्वसम्भारमधिकत्वेनपलपञ्चकादूर्द्ध्वपलसहस्रावधियथेष्ट हेमनिर्म्मिताःस्थानस्थानघटितविद्याधरकिन्नरमिथुनसिद्धगणाःपल्लवाग्रनिर्म्मि तयथेच्छाकृतिफलकुसुमफलग्रह-शोभितपक्षिण्यः सिद्धहस्तासक्तयथेच्छसङ्ख्यमुक्ता-हारसहिता नानाविधचित्रनेत्रादिवस्त्रोपशो-भिता दशलताः । तासामधः स्थापनार्थं यथेच्छ-हेमयन्त्रोत्खाटिता यथोक्तरूपा ब्राह्म्यादिदश-प्रतिमाः । तदारोपणाथं लवणगुडहरिद्रातण्डुल-घृतक्षीरशर्करातिलनवनीतानि । लतापार्श्वस्थाप-नार्थं धेनुदशकं कुम्भदशकञ्च वस्त्रयुगदशकञ्चो-त्पादयेत् । ततो यजमानस्तुलापुरुषोक्तसमयानाम-न्यतमस्य पूर्व्वतरदिने गुर्व्वृत्विग्यजमानजापकास्तु-लापुरुषवथविष्यभोजनादिकं कृत्वा निवेदनस-ङ्कल्पवाक्ययोस्तुलापुरुषपदस्थाने महाकल्पलतापदंनिदेश्य निषेदनं सङ्कल्पञ्चकुर्य्युः । अपरदिने चयज-मानः पूर्व्ववद्गोविन्दाद्याराधनादिमधुपर्कदानान्तंकर्म्मगोविन्दाद्यभ्यर्च्चनब्राह्मणानुज्ञापनदानसङ्कल्प-पुण्याहादिवाचनवरणवाक्येषु तुलापुरुषपदस्थानेमहाकल्पलतापदं प्रक्षिप्य कुर्य्यात् । ततो गुर्व्वृ-त्विग्यजमानजापका उपवसेयुः । अपरदिने कृत-नित्यास्तुलापुरुषवदग्निस्थापनादि मध्यब्राह्मणवाच-नान्तं कर्म्म यथायथं कुर्य्युः । एवञ्च मध्यब्राह्मण-वचनान्तं कर्म्म तुलापुरुषग्रन्थमनुसन्धायानुष्ठा-तव्यम् । तत ऋत्विजः प्रधानवेद्यां लिखित चक्रोपरिलतानां मध्ये पूर्व्वादिदिक्क्रमेणाष्टौ लताः समा-रोप्य लतामण्डलमध्ये लताद्वयञ्चारोप्य तदधो-लवणं दत्त्वा तत्र ब्राह्मीमनन्तशक्तिञ्च आरोप्यपूर्व्वादिदिक्क्रमारोपिताष्टलताधःक्रमेण गुडादि-द्रव्याणि दत्त्वा तेषु क्रमात् कुलिशायुधादिशक्ति-प्रतिमाः समारोपयेयुः । लतापार्श्वे दशधेनूः पूर्ण-कुम्भदशकं दशवस्त्रयुगानि च स्थापयेयुः । ततो म-ङ्गलगीतवाद्यवन्दिघोषेषु सत्सु कुण्डसमीपस्थकुम्भ-चतुष्टयजलेन यजमानं स्नापयेयुः । ततो यजमानःशुक्लमाल्याम्बरधरो धृतसर्व्वालङ्कारः पुष्पाञ्जलि-मादाय लताः त्रिः प्रदक्षिणीकृत्य नमो नमःपापविनाशिनीभ्य इत्यादिमन्त्रेण पुष्पाञ्जलिना-भ्यर्च्च्य गुर्व्वृ त्विग्भ्यो दद्यात् । तद्यथा । ओँ अद्या-मुकामुकसगोत्रेभ्यः अमुकामुकवेदामुकामुक-शाखाध्यायिभ्योऽमुकामुकदेवशर्म्मभ्यो युष्मभ्यं मत्-स्यपुराणोक्तकल्पलतामहादानदानफलप्राप्तिकामोऽहं मत्स्यपुराणोक्तभागव्यवस्थयैता लवणगुडहरि-द्रातण्डुलघृतक्षीरशर्करातिलनवनीतार्पितकलधौत-ब्रह्मानन्तकुलिशायुधवह्निशमननिरृतिवरुणवायु-सोममहेश्वरशक्तिप्रतिमासहिताः पञ्चवर्णविता-नकधेनुदशककुम्भदशकवसनयुगदशकान्विताः द-शकल्पलता सम्प्रददे ॥
प्रतिग्रहीतारः स्वस्तीत्युक्त्वासावित्रीं पठेयुः । ततो गुरुः कल्पलतेयं विष्णु-दैवतेति ब्रूयात् । ऋत्विजस्तु प्रत्येकं कल्पलतेयंविष्णुदैवतेति ब्रूयुः । ततो यथाशाखं कामस्तुतिंपठेयुः । तत ओँ अद्य कृतैतद्दानप्रतिष्ठार्थं युष्म-भ्यमहं दक्षिणामिमां यदुत्पत्तियोग्यां भूमिमेतानिच रत्नानि सम्प्रददे ॥
ब्राह्मणाः स्वस्तीत्युक्त्वा कल्प-लताः स्पृशेयुः । ततस्तुलापुरुषवज्जापकेभ्यो दक्षिणांदीनानाथादितर्पणं ब्राह्मणवाचनं त्वरया कल्प-लतानां यथायथं प्रतिपादनञ्च कुर्य्यात् । इति कल्प-लतामहादानं समाप्तम् । इति दानसागरः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
