कल्पपादपदानं (kalpapAdapadAnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritकल्पपादपदानं, (कल्पपादपस्य सुवर्णनिर्मितपाद-पाकृतेर्दानम् ।) महादानविशेषः । तद्विधानं यथा, “कल्पपादपदानाख्यमतः परमनुत्तमम् ।महादानं प्रवक्ष्यामि सर्व्वपातकनाशनम् ॥
पुण्यन्दिनमथासाद्य तुलापुरुषदानवत् ।पुण्याहवाचनं कृत्वा लोकेशावाहनन्तथा ॥
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।काञ्चनं कारयेद्वृक्षं नानाफलसमन्वितम् ॥
नानाविहगवस्त्राणि भूषणानि च कारयेत् ।शक्तितस्त्रिपलादूर्द्ध्व मासहस्रात् प्रकल्पयेत् ॥
अर्द्धकॢप्तं सुवर्णस्य कारयेत् कल्पपादपम् ।गुडप्रस्थोपरिष्टाच्च सितवस्त्रयुगावृतम्” ॥
अर्द्धकॢप्तं यावदुपात्तसुवर्णस्यार्द्धेन निर्मितम् ।“ब्रह्मविष्णुशिवोपेतं पञ्चशाखं समास्करम् ।कामदेवमधस्ताच्च सकलत्रं प्रकल्पयेत् ॥
सन्तानं पूर्व्वतस्तद्वत्तुरीयांशेन कल्पयेत् ।मन्दारं दक्षिणे पार्श्वे श्रिया सार्द्धं घृतोपरि” ॥
सन्तानं पूर्व्वतस्तद्वदिति गुडप्रस्थस्थं सितवस्त्रयुगा-वृतमित्यर्थः । कामदेवमधस्ताच्चेति सन्तानवृक्षस्या-धस्तात् सकलत्रं कामदेवं प्रकल्पयेदिति योजनम् ।मन्दारादिष्वेकैकदेवतासम्बन्धश्रुतेः ॥
“पश्चिमे पारिभद्रन्तु सावित्र्या सह जीरके ।सुरभीसंयुतं तद्वत्तिलेष हरिचन्दनम् ॥
तृतीयांशेन कुर्व्वीत सौम्येन फलसंयुतम् ।कौषेयवस्त्रसंयुक्तानिक्षुमाल्यफलान्वितान्” ॥
तृतीयांशेनसन्तानघटनावस्थितसुवर्णतृतीयभागेन ।सौम्येन उत्तरदिग्विभागेन ॥
“तथाष्टपूर्णकलसान् पादुकासनभाजनान् ।दीपिकोपानहच्छत्रचामरासनसंयुतम्” ॥
पादुकासनभाजनान् पादुकासनभाजनसहि-तानित्यर्थः । आसनपदञ्चात्र कलसावस्थानो-चितासनपरम् । चामरासनसंयुतमिति पुन-रासनपदश्रवणात् ।“फलपक्षियुतं तद्वदुपरिष्टाद्वितानकम् ।तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ॥
होमाधिवासनान्ते तु स्नापितो देवपुङ्गवैः ।त्रिःप्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत् ॥
नमस्ते कल्पवृक्षाय चिन्तितान्नप्रदाय च ।विश्वम्भराय देवाय नमस्ते विश्वमूर्त्तये ॥
यस्मात्त्वमेव विश्वात्मा ब्रह्मा स्थाणुर्द्दिवाकरः ।मूर्त्तामूर्त्तपरं वीजमतः पाहि सनातन ! ॥
त्वमेवामृतसर्व्वस्वमनन्तपुरुषोऽव्ययः ।सन्तानाद्यैरूपेतः सन् पाहि संसारसागरात् ॥
एवमामन्त्र्य तं दद्यारद्गुवे कल्पपादपम् ।चतुर्भ्यश्चापि ऋत्विग्भ्यः सन्तानादीनि कल्पयेत्” ॥
एतेन चत्वार एवर्त्विजः कर्त्तव्याः । कुशमया-श्चत्वारो ब्रह्माण इत्युक्तं सम्भवति ॥
“स्वल्पेष्वेकाग्निवत् कुर्य्यात् गुरुरेवाभिपूजितः ।न वित्तशाठ्यं कुर्व्वीत न च विस्मयवान् भवेत्” ।न च विस्मयवान् इदम्मया दत्तमिति नाह-ङ्कारवान् भवेदित्यर्थः ॥
“अनेन विधिना यस्तु महादानं निवेदयेत् ।सर्व्वपापविनिर्मुक्तः सोऽश्वमेधफलं लभेत् ॥
अप्सरोभिः परिवृतः सिद्धचारणकिन्नरैः ।भूतान्भव्यांश्च मनुजांस्तारयेदात्मसम्मितांन् ॥
स्तूयमानो दिवः पृष्ठे पुत्त्रपौत्त्रप्रपौत्त्रवान् ।विमानेनार्कवर्णेन विष्णुलोकं स गच्छति ।दिवि कल्पशतं तिष्ठेद्राजराजो भवेत्ततः ॥
नारायणबलोपेतो नारायणपरायणः ।नारायणकथासक्तो नारायणपुरं व्रजेत् ॥
यो वा पठेत् कनककल्पतरुप्रदानंयो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वा ।सोऽपीन्द्रलोकमधिगम्य सहाप्सरोभि-र्म्मन्वन्तरं वसति पापविमुक्तदेहः” ॥
* ॥
अत्र यजमानः समुपजातकल्पपादपमहादान-दानेच्छुस्तुलापुरुषलिखितं खड्गचर्म्ममयाच्छन्नस-न्नाहतुलास्थाप्यहरिप्रतिमालङ्कारतुलाहस्तग्राह्य-प्रतिमाऋत्विक्चतुष्टयवरणादिदक्षिणासामग्री-वहिः सर्व्वसम्भारं अधिकत्वेन पलत्रयादुर्द्ध्वसहस्र-पलावधियथेष्टकाञ्चनमुपादाय तस्यार्द्धेन कल्प-पादपमपारार्द्धेन समभागेन सन्तानं मन्दारंपारिभद्रं हरिचन्दनमेवं पञ्चतरून् पञ्चशाखान्सौवर्णनानाफलपक्षिसुवर्णनिर्म्मितानेकवसनाकारसहितान् केयूरकुण्डलाद्यभिमतालङ्कारभूषितान्एषामाच्छादनार्थं श्वेतवस्त्रयुगपञ्चकं तरूणाम-वस्थापनार्थं गुडप्रस्थद्वयं प्रत्येकं प्रस्थपरिमितान्पात्रस्थघृतजीरकतिलांश्च कल्पवृक्षाधःस्थापनार्थ-मभीष्टसुवर्णान्तरयन्त्रोत्खाटिता ब्रह्मविष्णुशिव-भास्करप्रतिमाः यथोक्तक्रमतरुचतुष्टयाधःस्थाप-नार्थमभिमतसुवर्णान्तरयन्त्रोत्खाटिताः सरति-कामदेवलक्ष्मीसावित्रीसुरभिप्रतिमाश्च कल्पतरु-पार्श्वस्थापनार्थमष्टौ कुम्भान् तदधःस्थापनार्थंकुशादिनिर्म्मितासनाष्टकंकुम्भाच्छादनार्थं कौषेय-वस्त्राष्टकं कुम्भपार्श्वस्थापनार्थमिक्षुदण्डाष्टकं पुष्प-मालावृकसामग्रीं यथेष्टफलाष्टकं पादुकायुगा-ष्टकं कांस्यभाजनाष्टकञ्च कल्पतरुपार्श्वार्पणार्थंदीपिकोपानद्युगच्छत्रचामरासनाष्टादशधान्यानिच उत्पादयेत् । ततस्तुलापुरुषोक्तसमयानामन्य-तमस्य पूर्व्वतरदिने यजमानगुर्वृत्विग्जापकास्तुलापुरुषवद्धविष्यभोजनादिकं कृत्वा निवेदनसङ्कल्प-वाक्ययोस्तुलापुरुषपदस्थाने कल्पपादपपदं प्रक्षिप्ययथायथं निवेदनं सङ्कल्पञ्च कुर्य्युः । ततोऽपरदिनेयजमानस्तुलापुरुषवद्गोविन्दाद्याराधनादिमधुपर्क-दानान्तं गोविन्दाद्यभ्यर्चनब्राह्मणानुज्ञापनदान-सङ्कल्पपुण्याहादिवाचनवरणवाक्येषु तुलापुरुष-पदस्थाने कल्पपादपपदं प्रक्षिप्य कुर्य्यात् । ततोगुर्व्वृत्विग्यजमानजापका उपवसेयुः । अपर-दिने च कृतनित्यास्तुलापुरुषवदग्निस्थापनादिमध्य-ब्राह्मणवाचनान्तं कर्म्म यथायथं कुर्य्युः । एवञ्चमध्यब्राह्मणवाचनान्तं कर्म्म तुलापुरुषग्रन्थं अनु-सन्धावानुष्ठातव्यम् । तत ऋत्विजः कल्पतरुमा-नीय प्रधानवेद्यां लिखितचक्रमध्ये गुडप्रस्थं दत्त्वातदुपरि स्थापयेयुः । ततस्तस्याधो गुडप्रस्थोपरिपङ्क्तिक्रमेण सुवर्णयन्त्रोत्खाटिता ब्रह्मविष्णुशिव-भास्करप्रतिमाः स्थापयेयुः । तत्पूर्व्वतः अधस्तादा-रोपितसरतिकामदेवप्रतिमां गुडप्रस्थोपरि स-न्तानं कल्पतरुदक्षिणतः अधःसमारोपितलक्ष्मी-प्रतिमां घृतप्रस्थोपरि मन्दारं कल्पतरोः पश्चि-मतः अधःसमारोपितसावित्रीप्रतिमां जीरक-प्रस्थोपरि पारिभद्रं कल्पतरूत्तरतः अधःसमारो-पितसुरभिप्रतिमां तिलप्रस्थोपरि हरिचन्दनञ्चा-रोपयेयुः । सर्व्वांश्च वृक्षान् प्रत्येकं सितवस्त्रयुगे-नाच्छादयेयुः । अष्टासु दिक्षुप्रत्येकं कौषेयवस्त्रा-च्छादितान् इक्षुदण्डफलान्वितान् माल्यालङ्कृता-नष्टौ पूर्णकुम्भान् पार्श्वारोपितपादुकायुगभाज-नानासनेष्वारोप्य कल्पतरुपार्श्वे पूर्व्वोक्तदीपिका-द्युपकरणमारोपयेयुः । ततो मङ्गलतूर्य्यगीतवन्दि-घोषेषु सत्सु ऋत्विजः कुण्डसमीपस्थकुम्भचतुष्टय-जलेन यजमानं स्नापयेयुः । ततो यजमानः शुक्ल-माल्याम्बरधरो धृतसर्व्वालङ्कारः पुष्पाञ्जलिमादायकल्पपादपं त्रिः प्रदक्षिणीकृत्य नमस्ते कल्प-वृक्षायेत्यादि पाहि संसारसागरादित्यन्तमन्त्रान्पठित्वा पुष्पाञ्जलिनाभ्यर्च्य गुर्वृत्विग्भ्यो यथायथंदद्यात् ॥
ओँ अद्यासुकामुकसगोत्रेभ्योऽमुका-मुकवेदामुकामुकशाखाध्यायिभ्यः अमुकामुकदेव-शर्म्मभ्यो युष्मभ्यं मत्स्यपुराणोक्तकल्पपादपमहादानदानफलप्राप्तिकामोऽहं मत्स्यपुराणोक्तभाग-व्यवस्थया एतं गुडप्रस्थारोपितसौवर्णब्रह्मविष्णु-महेश्वरभास्करप्रतिमासितवसनयुगान्वितगुडप्र-स्थारोपितसौवर्णसरतिकामदेवप्रतिमासितवसन-युगान्वितसौवर्णसन्तानसहितं घृतप्रस्थारोपित-सौवर्णलक्ष्मीप्रतिमासितवस्त्रयुगान्वितसौवर्णम-न्दारसहितं जीरकप्रस्थारोपितसौवर्णसावित्री-प्रतिमासितवसनयुगलान्वितसौवर्णपारिभद्रसहितंतिलप्रस्थारोपितसौवर्णसुरभिप्रतिमासितवसन-युगान्वितसौवर्णहरिचन्दनसहितं कौषेयवस्त्रयुग-वेष्टितग्रीवेक्षुमाल्यफलान्वितकुशासनपादुकायुग-कांस्यभाजनयुतपूर्णकुम्भाष्टकदीपिकोपानद्युगच्छ-त्रचामरासनफलमाल्ययुतपञ्चवर्णवितानकाष्टादश-धान्ययुतं कल्पपादपमहादानमहं ददे ॥
प्रति-ग्रहीतारः स्वस्तीत्युक्त्रा सावित्रीं पठित्वा यथायथंअमुकपादपोऽयं विष्णुदैवतमित्युक्त्वा यथाशाखंकामस्तुतिं पठेयुः । ततो दक्षिणादानम् ।ओँ अद्य कृतैतद्दानप्रतिष्ठार्थं युष्मभ्यमहन्दक्षिणा-मिमां यदुत्पत्तियोग्यां भूमिमेतानि च रत्नानि-ददे ॥
प्रतिग्रहीतारः स्वस्तीत्युक्त्वा प्रत्येकं तरून्मूलेषु स्पृशेयुः । ततो यजमानस्तुलापुरुषवत् जाप-केभ्यो दक्षिणादानं दीनानाथादितर्पणं ब्राह्मण-वाचनञ्च कुर्य्यात् । ततः कल्पपादपं गुरवे सन्तान-कादींश्चतुरो वृक्षान् ऋग्वेद्यादिक्रमेण चतुर्भ्यऋत्विग्भ्यो निवेदयेत् । स्वल्पकल्पपादपदाने तुगुरुरेवैकाग्निवत् स्वगृह्योक्तविधिना सर्व्वं ब्रह्माण्ड-दानवत् कुर्य्यात् । इति कल्पपादपमहादानंसमाप्तम् ॥
* ॥
इति महाराजाधिराजनिःशङ्कसङ्कर-श्रीमद्बल्लालसेनदेवविरचिते श्रीदानसागरे महा-दानदानावर्त्तः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
