कल्पः (kalpaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकल्पः
- "कृप्-अच्, घञ् वा"
"धार्मिक कर्तव्यों का विधि-विधान, नियम, अध्यादेश"
कल्पः
- "कृप्-अच्, घञ् वा"
"विहित नियम, विहित विकल्प, ऐच्छिक नियम"
कल्पः
- "कृप्-अच्, घञ् वा"
"प्रस्ताव, सुझाव, निश्चय, संकल्प"
कल्पः
- "कृप्-अच्, घञ् वा"
"कार्य करने की रीति, कार्य विधि, रूप तरीका, पद्धति((धर्मानुष्ठानों में)"
कल्पः
- "कृप्-अच्, घञ् वा"
"सृष्टि का अन्त, प्रलय"
कल्पः
- "कृप्-अच्, घञ् वा"
"ब्रह्मा का एक दिन या १००० युग, मनु्ष्यों का ४३२०००००० वर्ष का समय, तथा सृष्टि की अवधि की माप"
कल्पः
- "कृप्-अच्, घञ् वा"
रोगी की चिकित्सा
कल्पः
- "कृप्-अच्, घञ् वा"
छः वेदाङगों में से एक-नामतः-जिसमें यज्ञ का विधि विधान निहित है तथा जिसमें यज्ञानुष्ठान एवम् धार्मिक संस्कारों के नियम बतलाए गये हैं
कल्पः
- "कृप्-अच्, घञ् वा"
संज्ञा और विेशेषणों के अन्त में जुड़कर निम्नांकित अर्थ बतलाने वाला शब्द
कल्पः
- क्लृप्+घञ्
"आस्था, विश्वास"
Wordnet
Sanskrit कल्पः
कालविभागः यस्मिन् चतुर्दशमन्वन्तराः सन्ति।
"कल्पः ब्रह्मणः अहोरात्रेः अर्धभागः एव।"
प्रलयः, युगान्तः, कल्पः, कल्पान्तः, लयः, प्रतिसर्गः, क्षयः, प्रक्षयः, संवर्तः, संक्षयः, विलयः, प्रत्सञ्चरः
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
"ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।"
कल्पः
ज्योतिषशास्त्रे प्रथमं स्थानम् ।
"कल्पस्य वर्णनम् वराहमिहिरस्य बृहत्संहितायां वर्तते"
कल्पः
मन्त्रविशेषः ।
"कल्पे क्लृप् इति धातोः रूपाणि सन्ति"
वैजयन्तीकोषः
SanskritWord: कल्पः
Root: कल्प
Gender: पुं
Number: all
अर्थः ⇒ दैवम् युगसहस्रद्वयम्
ब्रह्मणः दिनम्
Meaning(s):
⇒ Space of 1000 caturyugas
or a day of Brahman
Shloka(s):
2|1|93|2 ► चतुर्युगसहस्रं तु कल्पस्तद् ब्रह्मणो दिनम्॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|93|2 ⇢ कल्पः (कल्प) (पुं) ⇒ Space of 1000 caturyugas
or a day of Brahman ⇒ दैवम् युगसहस्रद्वयम्
ब्रह्मणः दिनम्
Related word(s):
जातिः ➡ कालः
उपाधि ➡ समूहः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilகல்ப: : நியமம், பிரேரணை, சங்கல்பம், பிரளயம், பிரம்மனின் ஒரு தினம், ஆறுவேதங்களில் ஒன்று.
शब्दकल्पद्रुमः
Sanskritकल्पः, (कल्प्यते विधीयते असौ । कृप् +कर्म्मणि घञ् ।) विधिः । (यथा मनुः ३ । १४७ ।“एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः” ॥
(कल्पयति सृष्टिं नाशं वा अत्र । कृप् + णिच् +अधिकरणे अप् ।) प्रलयः ।(“युगानां सप्ततिः सैकामन्वन्तरमिहोच्यते” ।“कृताब्दसंख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः” ॥
“ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश ।कृतप्रमाणकल्पादौ सन्धिः पञ्चदशस्मृतः” ॥
ते एकसप्ततियुगरूपा मनवः सायम्भुवाद्याः सस-न्धयः स्वस्वसन्धिसहिताः कल्पकाले ज्ञातव्याः ।ससन्धियुक्तचतुर्द्दशसनुभिः कल्पो भवेदित्यर्थः ।इति सूर्य्यसिद्धान्तोक्तकल्पपरिमाणम् ॥
आका-लिकनैमित्तिकदैनन्दिनमहाप्रलयानां विवृतिस्तुततच्छब्दे द्रष्टव्यम् ॥
* ॥
कल्पते स्वक्रियायै समर्थो भवत्यत्र । कृप् +अधिकरणे घञ् ।) ब्राह्मं दिनम् । तत्तु दैवद्विस-हस्रयुगम् । इत्यमरः । १ । ४ । २१ ॥
(यथाविष्णुपुराणे १ मांशे १ । १२ ।“कल्पान् कल्पविकल्पांश्च चतुर्युगविकल्पितान् ।कल्पान्तस्य स्वरूपञ्च युगधर्म्मांश्च कृत्स्नशः” ॥
)त्रिंशत्कल्पैर्व्रह्मण एको मासो भवति तेषांनामानि यथा । श्वेतवाराहः १ नीललोहितः २वामदेवः ३ गाथान्तरः ४ रौरवः ५ प्राणः ६वृहत्कल्पः ७ कन्दर्पः ८ सत्यः ९ ईशानः १०ध्यानः ११ सारस्वतः १२ उदानः १३ गरुडः १४कौर्म्मः १५ अयं व्रह्मणः पौर्णमासी । नारसिंहः१६ समाधिः १७ आग्नेयः १८ विष्णुजः १९सौरः २० सोमकल्पः २१ भावनः २२ सुप्तमाली२३ वैकुण्ठः २४ आर्च्चिषः २५ वल्मीकल्पः २६वैराजः २७ गौरीकल्पः २८ माहेश्वरः २९पितृकल्पः ३० अयं ब्रह्मणोऽमाव्रास्या । इतिक्रमसन्दर्मे प्रभासखण्डम् ॥
एतादृशैर्द्वादशमासैब्र-ह्मणः सम्बत्सरो भवति । एवं वर्षशतं ब्रह्मणआयुः । तत्र पञ्चाशद्वर्षानि व्यतीतानि एकपञ्चा-शदारम्भे अधुना श्वेतवाराहकल्पः । इति महा-भारतम् ॥
(कल्पारम्भकालश्च ब्रह्मसिद्धान्ते उक्त-स्तद्यथा, --“चत्रसितादेर्भानोर्वर्षर्त्तुमासयुगकल्पाः ।सृष्ठ्यादौ लङ्कायामिह प्रवृत्ता दिनैर्वत्स !” ॥
चैत्रसितादेश्चैत्रशुक्लप्रतिपदमारभ्य इत्यर्थः ।तथा च ब्रह्मपुराणम् ।“चैत्रे मासि जगत् ब्रह्मा ससर्ज प्रथमेऽहनि ।शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति ।प्रवर्त्तयामास तदा कालस्य गणनामपि” ॥
इति कालसामान्यगणंनायास्तदारभ्य कथनात् ॥
एवं चैत्रशुक्लप्रतिपदि कल्पारम्भेऽपि ।“माघशुक्लतृतीयायां कृष्णायां फाल्गुनस्य च ।पञ्चमी चैत्रमासाद्या यथैवाद्या तथा परा ।शुक्ला त्रयोदशी माघे कार्त्तिकस्य तु सप्तमी ।नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम् ।कल्पनामादयो ह्येता दत्तस्याक्षयकारकाः” ॥
इति वराहवाक्यानि समूलानि चेत् तदा कल्पभे-दादविरुद्धानि कल्पादित्वेन तत्तत् तिथिषु श्राद्ध-कर्त्तव्यतोपयोगिपारिभाषिकपरत्वेन वा समर्थ-नीयानि ॥
अत एव सूर्य्यसिद्धान्ते उक्तम् । यथा--“सुरासुराणामन्योन्यमहोरात्रविपर्य्ययात् ।यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् ॥
मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् ।न तत्र द्युनिशोर्भेदो ब्राह्मकल्पः प्रकृत्तितः” ॥
इत्यादीनां युगमन्वन्तरकल्पानां सौरत्वेन उक्तिः ।सौरमाणे च नियतयुगादिकालेषु अनियततिथि-सम्भवेऽपि सर्व्वेषां कल्पानामादौ चैत्रसितादि-तिथिरेव नियता प्रागुक्तवचनप्रामाण्यात् । किन्तुप्रागुक्तमात्स्ये ब्राह्मकल्पानां चान्द्रत्वकथनात् ति-थिभेदसम्भवः । इति सूर्य्यसिद्धान्तवाक्यं ग्रह-स्पष्टीकरणोपयोगीत्यविरोधः ॥
) विकल्पः । कल्प-ष्टक्षः । न्यायः । शास्त्रविशेषः । स तु वेदषडङ्गा-न्तर्गतो यागक्रियाणामुपदेशकः । इति हेमचन्द्रः ॥
(यथा रघुः १ । ९४ ।“कल्पवित् कल्पयामास वन्यामेवास्य संविधाम्” ॥
)व्याकरणस्य प्रत्ययविशेषः । स च स्याद्यन्तत्या-द्यन्तपदाभ्यामीषदूनार्थे भवति । तत्र वाच्यलिङ्गत्वेयथा, ईषदूनो विद्वान् विद्वत्कल्पः । ईषदूनंपचति पचतिकल्पम् । इति मुग्धबोधव्याकरणम् ।(तथा महाभारते १ । १२६ । ५ ।“ते परस्परमामन्त्र्य देवकल्पा महर्षयः” ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“कृप अवकल्कने”@} 2 अवकल्कनम्-मिश्रीकरणम्।
3 ‘क्षीरस्वामी तु ‘कृपेस्तादर्थ्ये’ 4 इति पठित्वा, ‘तादर्थ्ये’ इति--प्रस्तुतस्य भुवोऽर्थे मिश्रीकरणे
अथवा, तच्छब्देन कॢपिः परामृश्यते
तस्य योऽर्थः = सामर्थ्यलक्षणः, तस्मिन्--इति द्वेधा व्याख्यत्।।’ इति प्रौढमनोरमा।]] ‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति।।
5 इति देवः।
6 कल्पकः-ल्पिका, चिकल्पयिषकः-षिका
कल्पयिता-त्री, चिकल्पयिषिता-त्री
कल्पयन्-न्ती, चिकल्पयिषन्-न्ती
कल्पयिष्यन्-न्ती-ती, चिकल्पयिषिष्यन्-न्ती-ती
कल्पयमानः, चिकल्पयिषमाणः
कल्पयिष्यमाणः, चिकल्पयिषिष्यमाणः
7 कल्-कल्पौ-कल्पः
-- कल्पितम्-तः, चिकल्पयिषितः-तवान्
कल्पः, कल्पनः, चिकल्पयिषुः, कल्पयितव्यम्, चिकल्पयिषितव्यम्
8 कल्पनीयम्, चिकल्पयिषणीयम्
कल्प्यम्, चिकल्पयिष्यम्
कल्प्यमानः, चिकल्पयिष्यमाणः
ईषत्कल्पः-दुष्कल्पः-सुकल्पः
-- कल्पः, चिकल्पयिषः
कल्पयितुम्, चिकल्पयिषितुम्
कल्पना, चिकल्पयिषा
कल्पनम्, चिकल्पयिषणम्
कल्पयित्वा, चिकल्पयिषित्वा
प्रकल्प्य, प्रचिकल्पयिष्य
कल्पम् २, कल्पयित्वा २, चिकल्पयिषम् २
चिकल्पयिषित्वा २। 9
01 (२५०)
02 (१०-चुरादिः-१७४९। सक। सेट्। उभ।)
03 [[[अ]
04 (ग। सू। चुरादौ)
05 (श्लो। १३५)
06 [[१। धातोरस्य णिजन्तत्वेनानेकाच्त्वात् यङ् न। ‘कृपो रो लः’ (८-२-१८) इति लत्वम्।]]
07 [[२। पकारस्य ‘संयोगान्तस्य लोपः’ (८-२-२३) इति लोपः। णिचः स्थानिवत्त्वं तु न, ‘पूर्वत्रासिद्धे न स्थानिवत्’ (वा। १-१-५८) इति निषेधात्।]]
08 [पृष्ठम्०२४८+ ११]
09 [पृष्ठम्०२४९+ २६]
1 {@“कृपू सामर्थ्ये”@} 2 वृतादिः।
सामर्थ्यम् = शक्तिः, योग्यता वा।
‘कल्पते शपि सामर्थ्ये, कल्पयत्यवकल्कने।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयेदिति।।’ 3 इति देवः।
4 कल्पकः-ल्पिका, कल्पकः-ल्पिका, 5 चिकॢप्सकः-प्सिका, 6 चलीकॢपकः-पिका
7 कल्पिता-कल्प्ता-त्री, कल्पयिता-त्री, चिकॢप्सिता-त्री, चलीकॢपिता-त्री
-- कल्पयन्-न्ती, 8 चिकॢप्सन्-न्ती
-- 9 कल्प्स्यन्-न्ती-ती, कल्पयिष्यन्-न्ती-ती, चिकॢप्सिष्यन्-न्ती-ती
-- कल्पमानः, कल्पयमानः, 10 चिकल्पिषमाणः-चिकॢप्समानः, चलीकॢप्यमानः
कल्पिष्यमाणः कल्प्स्यमानः कल्पयिष्यमाणः, चिकल्पिषिष्यमाणः चिकॢप्सिष्यमाणः चलीकॢपिष्यमाणः
सुकॢप्-सुकॢपौ-सुकॢपः
-- -- -- 11 12 कॢप्तम् 13 -कॢप्तः-कॢप्तवान्, कल्पितः, चिकॢप्सितः, चलीकॢपितः-तवान्
14 कॢपः, 15 कल्पनः, कल्पः, चिकॢप्सुः, चलीकॢपः
कल्पितव्यम्-क्ल्प्तव्यम्, कल्पयितव्यम्, चिकॢप्सितव्यम्, चलीकॢपितव्यम्
कल्पनीयम्, कल्पनीयम्, चिकॢप्सनीयम्, चलीकॢपनीयम्
16 कल्प्यम्, कल्प्यम्, चिकॢप्स्यम्, चलीकॢप्यम्
ईषत्कल्पः-दुष्कल्पः-सुकल्पः
-- -- -- कॢप्यमानः, कल्प्यमानः, चिकॢप्स्यमानः-चिकल्पिष्यमाणः, चलीकॢप्यानः
कल्पः विकल्पः, कल्पः, चिकॢप्सः, चलीकॢपः
कल्पितुम्-कल्प्तुम्, कल्पयितुम्, चिकॢप्सितुम्, चलीकॢपितुम्
कॢप्तिः, कल्पना, चिकॢप्सा, चलीकॢपा
कल्पनम्, कल्पनम्, चिकॢप्सनम्, चलीकॢपनम्
17 कल्पित्वा-कॢप्त्वा, कल्पयित्वा, चिकॢप्सित्वा, चलीकॢपित्वा
प्रकॢप्य, प्रकल्प्य, प्रचिकॢप्स्य, प्रचलीकॢप्य
कल्पम् २, कल्पित्वा-कॢप्त्वा २, कल्पम् २, कल्पयित्वा, २, चिकॢप्सम् २, चिकॢप्सित्वा २, चलीकॢपम् २
चलीकॢपित्वा २
18 कृपणः।
01 (२५२)
02 (१-भ्वादिः-७६२-अक। वेट्। आत्म।)
03 (श्लो। १३५)
04 [[१। ‘कृपो रो लः’ (८-२-१८) इति लत्वम्।]]
05 [[२। ऊदिल्लक्षणमिड्विकल्पं बाधित्वा, ‘तासि च कॢपः’ (७-२-६०) इति नित्यमि- ण्णिषेधः। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वान्न गुणः। यद्यपि धातु- रूपप्रकाशिकायां अस्माद् धातोः सन्नन्तात् तव्यदादिषु ‘चिकल्पिषितव्यम् चिकॢप्सितव्यम्’ इति वैकल्पिकेड्घटितानि रूपाणि प्रदर्शितानि
\n\n तथापि ‘तासि च कॢपः’ (७-२-६०) इत्यत्र ‘परस्मैपदेषु’ इत्यनुवर्तमानस्य पदस्य ‘तङानयोरभावे’ इत्यर्थकतया नित्यमिण्णिषेधेन भाव्यम्। ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना प्राप्तं वैकल्पिकेडागमं ‘तासि च कॢपः’ (७-२-६०) इति निषेधः बाधत एवेति, इडभावघटितरूपमेव साधु--इति प्रतिभाति। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06 [[३। ‘रीगृदुपधस्य च’ (७-४-९०) इति अभ्यासस्य रीगागमः। उभयत्र लत्वम्।]]
07 [[४। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति ऊदित्त्वादिड्विकल्पः।]]
08 [[५। ‘लुटि च कॢपः’ (१-३-९३) इति परस्मैपदविकल्पः।]]
09 [[६। ‘लुटि च कॢपः’ (१-३-९३) इति स्यप्रत्यये विवक्षिते परस्मैपदविकल्पः।]]
10 [[७। ‘तासि च कॢपः’ (७-२-६०) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य, ‘तङानयोरभावे’ इत्यर्थकत्वात्, अत्र ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना इड्विकल्पः। एवं सन्नन्तात् यक्यपि ज्ञेयम्।]]
11 [पृष्ठम्०२५१+ २०]
12 [[१। ऊदित्त्वादिटो वैकल्पिकत्वेन, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्णिषेधः।]]
13 [[आ। ‘अशर्धनैर्गोपकुलैस्सहासौ ययौ कृवास्यन्दसुकॢप्तमोदैः।।’ धा। का। २-३।]]
14 [[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
15 [[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति तच्छीलादिषु कर्तृषु युच्।]]
16 [[४। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति पर्युदासात् ण्यत्प्रत्यय एव।]]
17 [[५। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
18 [[६। बाहुलकादौणादिके क्युन्प्रत्ययेऽनादेशे रूपम्। कित्त्वान्न गुणः। किञ्चिदपि यो न ददाति स एवमुच्यते।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
