| YouTube Channel

कल्किः (kalkiH)

 
Apte
English
कल्किः [kalkiḥ], The tenth and last incarnation of Viṣṇu in his capacity of the destroyer of the wicked and liberator of the world from its enemies
(Jayadeva, while referring to the several axatāras of Viṣṇu, thus refers to the last or Kalki avatāra: म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् केशवधृतकल्किशरीरं जय जग- दीश हरे
Gīt.*
1.1.) -पुराणम्
N.
of a Purāna.
Apte 1890
English
कल्किः The tenth and last incarnation of Viṣṇu in his capacity of the destroyer of the wicked and liberator of the world from its enemies
(Jayadeva, while referring to the several avatāras of Viṣṇu, thus refers to the last or Kalki avatāra:
म्लेच्छनिवहनिधने कलयसि करवालम् धूमकेतुमिव किमपि करालम् केशव धृतकल्किशरीरं जय जगदीश हरे Gīt. 1. 10.)
Apte Hindi
Hindi
कल्किः
पुं*
- कल्क्-णिच्-इन्
विष्णु का अन्तिम और दसवाँ अवतार
Wordnet
Sanskrit
Synonyms:
कल्किः, अश्वावतारः
noun
भगवतः विष्णोः दशावतारेषु एकः यः अद्यापि अभवत्।
"पुराणे वर्णितम् यद् कलियुगे कल्किः अवतरिष्यति।"
वैजयन्तीकोषः
Sanskrit
Word: कल्किः
Root: कल्किन्
Gender: पुं
Number: all
अर्थः विष्णोः कल्क्यवतारः
Meaning(s):
Son of Viṣṇuyaśas
Future incarnation of Viṣṇu
Shloka(s):
1|1|31|1 दत्तात्रेयश्च कल्की बुद्धश्चेत्येवमादयः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|31|1 कल्किः (कल्किन्) (पुं) Son of Viṣṇuyaśas
Future incarnation of Viṣṇu विष्णोः कल्क्यवतारः
Related word(s):
अवतारः विष्णुः
जातिः ऋषिः
शब्दकल्पद्रुमः
Sanskrit
कल्किः,
पुं,
(कल्कः पापं हार्य्यतया अस्ति अस्य ।कल्क + इन् ।) विष्णोर्दशमावतारः तुकलिशेषे पापात्मनां विनाशाय सम्मलग्रामेभविष्यति यथा, --“सम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः ।भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति”
तस्य कर्म्म यथा, --“अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः ।असिनाऽसाधुदमनमष्टैश्वर्य्यगुणान्वितः
विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युतिः ।नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति”
इति श्रीभागवतम्
तस्योत्पत्तिर्यथा, --“स्तुत्वा प्राह पुरो ब्रह्मा देवानां हृदयेप्सितम् ।तं श्रुत्वा पुण्डरीकाक्षो ब्रह्माणमिदमब्रवीत्
सम्भले विष्णुयशसो गृहे प्रादुर्भवाम्यहम् ।सुमत्यां मातरि विभो धन्यायां त्वन्निदेशतः
चतुर्भिर्भ्रातृभिर्देव करिष्यामि कलिक्षयम् ।भवन्तो बान्धवा देवाः स्वांशेनावतरिष्यथ
इयं मम प्रिया लक्ष्मीः सिंहले संभविष्यति ।वृहद्रथस्य भूपस्य कौमुद्यां कमलेक्षणा ।भार्य्यायां मम भार्य्यैषा पद्मा नाम्नी जनिष्यति
यात यूयं भुवं देवाः स्वांशावतरणे रताः
राजानौ मरुदेवापी स्थापयिष्याम्यहं भुवि ।पुनः कृतयुगं कृत्वा धर्म्मान् संस्थाप्य पूर्व्ववत् ।कलिव्यालं संनिरस्य प्रयास्ये स्वालयं विभो
इत्युदीरितमाकर्ण्य ब्रह्मा देवगणैर्वृतः ।जगाम ब्रह्मसदनं देवाश्च त्रिदिवं ययुः
महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः ।सम्भलग्रामविप्रर्षिमाविवेश परात्मकः
सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम् ।ग्रहनक्षत्रराश्यादिसेवितश्रीपदाम्बुजम्
सरित् समुद्रा गिरयो लोकाः सस्थाणुजङ्गमाः ।सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ
बभूव सर्व्वसत्वानामानन्दो विविधाश्रयः ।नृत्यन्ति पितरो हृष्टास्तुष्टा देवा जगुयशः
चक्रुर्व्वाद्यादि गन्धर्व्वा ननृतुश्चाप्सरोगणः ।द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः ।जातो ददृशतुः पुत्त्रं पितरौ हृष्टमानसौ
धात्री माता महाषष्ठी नाडीच्छेत्त्री तदाम्बिका ।गङ्गोदकक्लेदमोक्षा सावित्री मार्ज्जनोद्यता
तस्य विष्णोरनन्तस्य वसुधाऽदात् पयः सुधाम् ।मातृका माङ्गल्यवचः कृष्णजन्मदिनेऽभवन्
व्रह्मा तदुपधार्य्याशु स्वाशुगं प्राह सेवकम् ।याहीति सूतिकागारं गत्वा विष्णुं प्रबोधय
चतुर्भुजमिदं रूपं देवानामपि दुर्ल्लभम् ।त्यक्त्वा मानुषवद्रूपं कुरु नाथ विचारितम्
इति व्रह्मवचः श्रुत्वा पवनः सुरभिः सुखम् ।सुशीतः प्राह तरसा ब्रह्मणो वचनादृतः ।तच्छ्रुत्वा पुण्डरीकाक्षस्तत्क्षणात् द्विभुजोऽभवत् ।तदा तत्पितरौ दृष्ट्वा विस्मयापन्नमानसौ
भ्रमसंस्कारवत्तत्र मेनाते तस्य मायया ।ततस्तु सम्भलग्रामे सोत्सवा जीवजातयः
मङ्गलाचारबहुलाः पापतापविवर्ज्जिताः ।सुमतिस्तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्पतिम्
पूर्णकामा विप्रमुख्यानाहूयादाद्गवां शतम् ।हरेः कल्याणकृद्विष्णुयशाः शुद्धेन चेतसा
सामर्ग्यजुर्व्विद्भिरग्र्यैस्तन्नामकरणे रतः ।तदा रामः कृपो व्यासो द्रौणिर्भिक्षुः शरीरिणः
समायाता हरिं द्रष्टुं बालकत्वमुपागतम् ।तानागतान् समालोक्य चतुरः सूर्य्यसन्निभान् ।हृष्टरोमा द्विजवरः पूजां चक्रे ईश्वरान्
पूजितास्ते स्वासनेषु संविष्टाः स्वसुखाश्रयाः ।हरिं क्रोडगतं तस्य ददृशुः सत्त्वमूर्त्तयः
तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः ।कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्ब्बुधाः ।नामाकुर्व्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम्
कृत्वा संस्कारकर्म्माणि ययुस्ते हृष्टमानसाः ।ततः ववृधे तत्र सुमत्या परिपालितः
कालेनाल्पेन कंसारिः शुक्लपक्षे यथा शशी ।कल्केर्ज्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः
तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः ।कल्केरंशाः पुरो जाताः साधवो धर्म्मतत्पराः
गार्ग्यभर्ग्यविशालाद्या ज्ञातयस्तदनुव्रताः ।विशाखयूपभूपालपालितास्तापवर्ज्जिताः ।ब्राह्मणाः कल्किमालोक्य परां प्रीतिमुपागताः
ततो विष्णुयशाः पुत्रं धीरं सर्व्वगुणाकरम् ।कल्किं कमलपत्राक्षं प्रोवाच पठनादृतम् ।तात ते ब्रह्मसं स्कारं यज्ञसूत्रमनुत्तमम् ।सावित्रीं वाचयिष्यामि ततो वेदान् पठिष्यसि
इति श्रीकल्किपुराणेऽनुभागवते भविष्ये कल्कि-जन्मोपनयनम् अध्यायः