| YouTube Channel

कलुषं (kaluSaM)

 
शब्दकल्पद्रुमः
Sanskrit
कलुषं,
क्ली,
(कं सुखं लुषति हिनस्ति + लुष् +अण् यद्वा कल् + “पॄनहिकलिभ्य उषच्” ।उणां ७५ इति उषच् ।) पापम् इत्यमरः ।१ २८
(यथा शङ्करार्य्यकृतात्मबोधे ।“अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्म्मलम् ।कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत्”
मालिन्यं यथा ऋतुसंहारे २३ ।“विगतकलुषमम्भः शालिपक्वा धरित्री ।विमलकिरणचन्द्रं व्योम ताराविचित्रम्”
)