| YouTube Channel

कलियुगं (kaliyugaM)

 
शब्दकल्पद्रुमः
Sanskrit
कलियुगं,
क्ली,
(कलिरेव युगम् अग्नेः शिखा राहोःशिर इति वत् कलेर्युगं वा ।) चतुर्थयगम् (यथामनुः ८५ ।“अन्ये कृतयुगे धर्म्मा स्त्रेतायां द्वापरे परे ।अन्ये कलियुगे नॄणां युगह्रासानुरूपतः”
)तस्योत्पत्त्यादि यथा माघीपूर्णिमायां शुक्रवारेकलियुगोत्पत्तिः तत्र अवतारः कल्किः पुण्य-मेकपादम्
पापं त्रिपादम् गङ्गा तीर्थम् ।ब्राह्मणो निरग्निः अन्नगताः प्राणाः सार्द्ध-त्रिहस्तपरिमितो मनुष्यदेहः अष्टाधिकशत-वर्षं परमायुः भोजनपात्रस्य नियमो नास्ति ।इति कलियुगस्य लक्षणम्
कलियुगाब्दाः४३२००० आदौ कलिराजा धर्म्मपुत्त्रो युधि-ष्ठिरः हरिश्चन्द्रः मुनिश्चन्द्रः तेजशेखरः विक्र-मादित्यः विक्रमसेनः लाउसेनः बल्लालसेनः देव-पालः भूपालः महीपालः एते राजचक्रवर्त्तिनः
तन्माहात्म्यं यथा, --‘धर्म्मः सङ्कुचितस्तपो विरहितं सत्यञ्च दूरंगतम् ।लोकाधर्म्महता द्विजाश्चलुभिता नारीवशा मानवाः’
तत्र तारकब्रह्मनाम ।“हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।हरे राम हरे राम राम राम हरे हरे”
इति केचित्