कलियुग (kaliyuga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Hindi
Hindiवर्तमान, खुशी प्यार उम्र
Apte Hindi
Hindiकलियुगम्
कलिः - युगम् -
"कलिकाल, लौहयुग"
Shabdartha Kaustubha
Kannadaकलियुग
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಲಿರೂಪವಾದ ಒಂದು ಯುಗ /ಕಲಿಪುರುಷನ ಕಾಲ
व्युत्पत्तिः - > कलेर्युगम्
प्रयोगाः - > "अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । अन्ये कलियुगे नृणां युगह्रासानुसारतः ॥"
उल्लेखाः - > मनु० १-८५
Mahabharata
EnglishKaliyuga, the fourth yuga. § 375 (Tīrthayātrāp.): III, 85, 8233 (in the K. the Gaṅgā is sacred). § 429 (cf. HanūmadBhīmasaṃvāda). In the K. only a quarter of virtue (dharma) abides, Nārāyaṇa is black, etc.: III, 149, 11257 (tāmasaṃ yugaṃ), 11261.--§ 458 (Mārkaṇḍeyas.): III, 188, 12829 (comprises 1, 000 [celestial]
years), 12831 (b: description of K. (many Mleccha, Āndhra, Śaka, Pulinda, Yavana, Kāmboja, Bāhlika, Śūra, and Ābhīra kings will then rule, etc.)).--§ 459 (do.): III, 189, 12981 (in the K. Nārāyaṇa becomes black (kṛshṇa)).--§ 460 (do.): III, 190, 13011 [13019 (tāmasaṃ yugaṃ)]
(b: description of the K.: at the end of the yuga the best robes will be made of flax (vastrāṇāṃ pravarā śaṇī, v. 13027) and koradūshakāḥ (the fruits of Paspalum frumentaceum) will be the best grains, men will live on fish and milk, goats and sheep, for the cows will be extinct (cf. v. 13035: “they will employ cows and calves that are only one year old to draw the plough”)
men will resort to those countries where wheat and barley form the staple food (v. 13052)
the highest lifetime will become sixteen years
renouncing the gods men will worship bones (i.e. relics
eḍūkān, v. 13074)
in the hermitages of the great ṛshis and the schools and colleges of brahmans, and in places sacred to the gods, and in the sacrificial compounds (caityeshu), and in the dwellings of the nāgas (i.e. the sacred tanks), the earth will be dotted with eḍūkāḥ, and not graced with temples of the gods (devagṛha)
at last seven suns will appear).-§ 581 (Bhīshmavadhap.): VI, 66, 3012 (Dvāparasya yugasyānte ādau Kºsya ca, then Kṛshṇa is hymned).--§ 615 (Gadāyuddhap.): IX, 60, 3364 (prāptaṃ Kºṃ viddhi).-§ 664 (Mokshadh.): XII, 207, 7557 (ºe…dvandvam āpedire janāḥ).--§ 677 (do.): XII, 232, 8504 (anye-sc. dharmāḥ--Kºe)
233, 8543 (Dvāpare viplavaṃ yānti yajñāḥ Kºe tathā), 8546 (dṛśyante na ca dṛśyante Vedāḥ Kºe 'khilāḥ)
239, 8727 (Dvāpare viplavaṃ yānti Vedāḥ Kºe tathā).--§ 679 (do.): XII, 261, 9264 (anye Kºe dharmāḥ).--§ 683 (do.): XII, 268, 9593.--§ 766 (Ānuśāsanik.)
XIII, 129, 6095 (imaṃ Kºṃ prāpya). Cf. Kali^1.
पुराणम्
Englishकलियुग / KALIYUGA. See under manvantara.
शब्दकल्पद्रुमः
Sanskritकलियुगं, (कलिरेव युगम् । अग्नेः शिखा राहोःशिर इति वत् कलेर्युगं वा ।) चतुर्थयगम् । (यथामनुः १ । ८५ ।“अन्ये कृतयुगे धर्म्मा स्त्रेतायां द्वापरे परे ।अन्ये कलियुगे नॄणां युगह्रासानुरूपतः” ॥
)तस्योत्पत्त्यादि यथा । माघीपूर्णिमायां शुक्रवारेकलियुगोत्पत्तिः । तत्र अवतारः कल्किः । पुण्य-मेकपादम् ॥
पापं त्रिपादम् । गङ्गा तीर्थम् ।ब्राह्मणो निरग्निः । अन्नगताः प्राणाः । सार्द्ध-त्रिहस्तपरिमितो मनुष्यदेहः । अष्टाधिकशत-वर्षं परमायुः । भोजनपात्रस्य नियमो नास्ति ।इति कलियुगस्य लक्षणम् ॥
कलियुगाब्दाः४३२००० । आदौ कलिराजा धर्म्मपुत्त्रो युधि-ष्ठिरः । हरिश्चन्द्रः मुनिश्चन्द्रः तेजशेखरः विक्र-मादित्यः विक्रमसेनः लाउसेनः बल्लालसेनः देव-पालः भूपालः महीपालः । एते राजचक्रवर्त्तिनः ॥
तन्माहात्म्यं यथा, --‘धर्म्मः सङ्कुचितस्तपो विरहितं सत्यञ्च दूरंगतम् ।लोकाधर्म्महता द्विजाश्चलुभिता नारीवशा मानवाः’ ॥
तत्र तारकब्रह्मनाम ।“हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।हरे राम हरे राम राम राम हरे हरे” ॥
इति केचित् ॥
वाचस्पत्यम्
Sanskritकलियुग कर्म० राहुशिरोवत् तत्पुरुषो वा ।कलिरूपे युगे कालविशेषे तन्मानादिकं कलिशब्दे उक्तंतदारम्भतिथिर्युगाद्या सा च गौडीयमते माघपौर्ण्ण-मासी यथाह ति० त०“अथ युगाद्याः तासु च “युगार्द्या वर्षवृद्धिश्च सप्तमीपार्व्वती प्रिया । रवेरुदयमीक्षन्ते न तत्र तिथियु-म्मता” । इत्यनेन व्यवस्था । ब्रह्मपुराणे । “वैशाखेशुक्लपक्षे तु तृतीयायां कृतं युगम् । कार्त्तिके शुक्लपक्षे तुत्रेताऽथ नवमेऽहनि । अथ भाद्रपदे कृष्णत्रयोदश्यान्तुद्वापरम् । माघे च पौर्णमास्यां वै घोरं कलियुगंस्मृतम् । युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः” ।अत्र वैशाखादयः पौर्णमास्यन्ताएव १ ब्रह्मपुराणेतथैव तिथिकृत्याभिधानात् । मुख्यवाचित्वे कार्त्तिके नव-मेऽहनीत्यनेनैव सिद्धौ शुक्लपक्ष इति व्यर्थं स्यात् तेनभाद्रकृष्णत्रयोदशी अश्वयुक्कृष्णपक्षीयेति मैथि-सोक्तं निरस्तम् । आसां प्रशंसामाह विष्णुपुराणम्“वैशाखमासस्य तु या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे ।नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ।एता युगाद्याः कविताः पुराणैरनन्तपुण्यास्तिथयश्चतस्रः । उपप्लवे चन्द्रमसोरवेश्च तथाष्टकास्वप्ययनद्वयेच” । उपप्लवे ग्रहणे “पानोयमप्यत्र तिलैर्विमिश्रंदद्यात् षितृभ्यः प्रयतोमनुष्यः । श्राद्धं कृतं तेन समा-सहस्रं रहस्यमेतत् पितरोवदन्ति” । स्नानमधिकृत्यभविष्ये “संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा ।मन्वादौ च युनादौ च मासत्रयफलं लभेत्” ।तदेतत् कल्पभेदेन व्यवस्थाप्य माघामावस्यैव कलियुनाद्येति दाक्षिणात्याः प्रतिपेदिरे यथाह नि० सि०“रत्नमालायाम् “माघे पञ्चदशी कृष्णा नभस्ये चत्रयोदशी । तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः ।यत्तु गौडाः “माघस्य पूर्ण्णिमायां तु घोरं कलि-युगं स्मृतमिति” ब्राह्मोक्तेः “बैशाखमासस्य सितातृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे । नभस्यमासस्यतमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे” इति विष्णु-पुराणे चकारेण तमिस्रपक्षानुषङ्गेण पूर्वानुरोधात्पूर्णिमास्यैव ज्ञेया । “द्वे शुक्ले” इत्यादिकन्तु निर्मू-लमित्याहुः । तन्न “दर्शे तु मावमासस्य प्रवृत्तं द्वापरंयुगम्” इति भविष्यविरोधात् एतेन ब्राह्मानुसारात्पूर्णिमायामेव युगादिश्राद्धं वदन् शूलपाणिः परास्तः ।तेन कल्पभेदात् व्यवस्थेति तत्त्वम् । एतेन “कार्त्ति-के नवमी शुक्ला माचमासे च पूर्ण्णिमा” इति नारदीयंव्याख्यातम् । निर्मूलत्वोक्तिर्नारदीयाज्ञानकृता” । तत्रश्राद्धादिकरणमुभयदिने तत्प्राप्तौ निर्ण्णयश्च नि० सि० ।“अत्र श्राद्धमुक्तं मात्स्ये “कृतं श्राद्धं विधानेनमन्वादिषु युगादिषु । हायनानि द्विसाहस्रं पितॄ-णाम् तृप्तिदं भवेदिति” । भारतेऽपि “या मन्वाद्या युगा-द्याश्च तिथयस्तासु मानवः । स्नात्वार्चयित्वा दत्त्वा चजप्त्वानन्तकलं लभेदिति” श्राद्धेऽपि पूर्वाहव्यापिनी ग्राह्या“पूर्वाह्णे तु सदा कार्याः शुक्ला मनुयुगादयः । दैवेकर्मणि पित्र्ये च कृष्णे चैवापराह्णिकी” इति पाद्मो-क्तेः । “द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ।शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैवापराह्णिके” हेमाद्रौनारदीयवचनाच्च । दीपिकापि “अथो युगादि, मन्वादि-कर्मतिथयः पूर्वाह्णिकाः स्युः सिते । विज्ञेया अपरा-ह्णिकाश्च बहुले” इति । स्मृत्यर्थसारेऽपि “युगादिमन्वा-दिश्राद्धेषु शुक्लपक्षे उदयव्यापिनी तिथिर्ग्राह्या । कृष्ण-पक्षे पराह्णव्यापिनीति” । दिवोदासीये गोभिलः “वैशा-खस्य तृतीयां तु पूर्वविद्धां करोति वै । हव्यं देवा नगृह्णन्ति कव्यञ्च पितरस्तथेति” । गोविन्दार्णवेऽप्येवम् ।तेनेयं पूर्वाह्णव्यापिनी दिनद्वये सती परैवेति धर्मतत्त्वविदो-हेमाद्र्यादयः । अनन्तभट्टस्तु “सवैधृतिर्व्यतीपातो युगमन्वा-दयस्तथा । सम्मुखा उपवासे स्युर्दानादावन्तिमाः स्मृताः”इत्याह । दानादाविति श्राद्धसंग्रहः । उपवासस्त्वग्रेवक्ष्यते । यत्तु मार्कण्डेयः “शुक्लपक्षस्य पूर्वाह्णे श्राद्धंकुर्य्याद्विचक्षणः । कृष्णपक्षापराह्णे तु रौहिणं तु नलङ्घयेत्” । रौहिणो नवमोमुहूर्त्तः । अत्र च शुक्लपक्ष-युगादिश्राद्धं पूर्वाह्णे कार्यमिति शूलपाणिः । निर्ण-यामृतादयस्तु “कालादर्शे अमाश्राद्धमापराह्णिकमुक्त्वा एष-मन्वादीनां युगादीनां निर्णय इत्युक्तत्वाद् द्वे शुक्ल इत्यादिवचनं विष्णुपूजाविषयम् । श्राद्धे त्वापराह्णिकैवेतिव्यवस्थां जगदुः । सेयं पूर्वोक्तानेकवचोविरोधात् स्वाच्छ-न्द्यविलसितमित्युपेक्षणीया । “पूर्वाह्णे दैविकं कुर्य्यात्”इत्यादिव चनादेव तत्सिद्धेर्वचनवैयर्थ्याच्च । किञ्च काला-दर्शोक्तिर्न्यायमूला वचोमूला वा नाद्यः युगादि-श्राद्धस्यामाश्राद्धविकृतित्वेन न्यायतो पराह्णव्याप्तावपिवचनेन तस्य बाधात् । नान्त्यः अतिदेशादेवापराह्णव्याप्ता-प्राप्तेर्वचनवैयर्थ्यात् “अप्राप्ते शास्त्रमर्थवदिति” न्यायात्तेन यदि कालादर्शोक्तेः कथञ्चिच्छ्रद्धाजाड्येन समाधि-त्सा तर्हि न्यायप्राप्तकृष्णपक्षयुगादिविषयत्वेन सा व्यव-स्थापनीयेति दिक्” । युगादिकृत्यं मलमासेऽपि कार्य्यम्“दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु । उपाकर्मणिचोत्सर्गे ह्येतद्दिष्टं वृषादितः” हेमाद्रौ ऋष्यशृङ्गवचनात्एतत् दशहरादिकम् । “अव्दोदकुम्भमन्वादिमहालय-युगादि च । मलमासे च कर्त्तव्यम्” कालादर्श-वाक्याच्च महालयोऽत्र मघात्रयोदशीति वोध्यम्स्मृतिचन्द्रिकायां तु मासद्बयेऽपि कर्त्तव्यमित्युक्तम्“यौगादिकं मासिकं च श्राद्धं चापरपक्षिकम् । मन्वादिकंतैर्थिकञ्च कुर्य्यान्मासद्वयेऽपि च” तद्धृतवचनात् अपर-पक्षोऽत्र कृष्णपक्षः न तु प्रेतपक्षः तस्य तत्र निषेधात्“प्रतिमासं मृताहे च श्राद्धं यत् प्रतिवत्सरम् । मन्वादौच युगादौ च तन्मासोरुभयोरपीति” मदनरत्ने मरी-च्युक्तेः । प्रतिवत्सरं क्रियमाणं कल्पादिश्राद्धमितिमदनरत्नम्” एतेन युगाद्यावर्षवृद्धिश्चेति वचनं श्राद्धाति-रिक्तविष्णुपूजादिविषयम् न तत्र तिथियुग्मतेति अन्त्यच-रणस्वरसात् तिथियुग्मादरस्य दैवविषयतया तद्विषयकत्व-स्यैवोचितत्वात् एवं निर्णयः” “सर्वासु युगाद्यासु” ।अत्रोभयमासे कर्त्तव्यताविधानमपि संक्रान्तिनिमित्त-पुण्यकालस्योभयत्र लाभे पूर्वदिनाकरणे परदिने कर्त्तव्य-तावत् पूर्वमासे दैवादकरणे परमासेऽपि कर्त्तर्व्यताभ्यनु-ज्ञानार्थम् नतूभयमासयोः समुच्चयेन । एकेनैवानुष्ठानेनदुरदृष्टानुत्पत्तेः “श्वः कार्य्यमद्य कर्त्तव्यमित्युक्तेश्चप्रथमभासएव मुख्यःकाल इति तत्त्वम् ।अत्र श्राद्धाकरणे प्रायश्चित्तमुक्तमृग्विधाने । “न यस्यद्यावामन्त्र च शतवारं तदा जपेत् । युगादयो यदा न्यूनाःकुरुते नैव चापि यः” यदा न्यूना इत्यनेन अन्यतमा करणंनैब कुरुते इत्यनेन सर्वासामकरणमिति सूचितम् ।“युगादौ तु नरः स्नात्वा विधिवल्लवणोदधौ । गोसहस्र-प्रदानस्य कुरुक्षेत्रे फलं हि यत् । तत्फलं लभते मर्त्योभूमिदानस्य च ध्रुवमिति” पृथ्वी च० सौ० समुद्र-स्नानमुक्तम् ।युगादिवत् युगान्तकालोऽप्यक्षय पुण्यदः तन्नि-रूपणादिकं हेमा० दा० यथा-“नवम्यां शुक्लपक्षस्य कार्त्तिके निरनात् कृतम् ।त्रेता सिततृतीयायां वैशाखे समपद्यत । दर्शे तु माघ-मासस्य प्रवृत्तं द्वापरं युगम् । कलिः कृष्णत्रयोदश्यांनभस्ये मासि निर्गतः । युनादयः स्मृता ह्येते दत्त-स्याक्षयकारकाः” ब्रह्मपुराणे “युगारम्भास्तु तिथयोयुगाद्यास्तेन कीर्त्तिताः । फलं दत्तहुतानाञ्च तास्वनन्तंप्रकीर्त्तितम्” तथा--“एताश्चतस्रस्तिथयो युगाद्या दत्तंहुतञ्चाक्षयमाशु विन्द्यात् । युगे युगे वर्षशतेन यत्तपोयुगादिकाले दिवसेन तद्भवेत्” । तथा--“सूर्य्यस्य सिंह-संक्रान्त्यामन्तः कृतयुगस्य च । तथा वृश्चिकसंक्रान्त्यामन्त-स्त्रेतायुगस्य च । ज्ञेयस्तु वृषसंक्रान्त्यां द्वापरान्तस्तुसंख्यया । तथा च कुम्भसंक्रान्त्यामन्तः कलियुगस्य च” ।पद्मपुराणे “युगादिषु युगान्तेषु स्नाना--दान--जपादिषु ।यत्किञ्चित् क्रियते तस्य युगान्ताः फलसाक्षिणः” आदित्य-पुराणे “दिनर्क्षं रेवती यत्र गमनञ्चैव राशिषु । युगान्त-दिवसं विद्धि तत्र दानमनन्तकम् । ग्रहोपरागे विषुवेसौम्ये वा मिहिरोपदिः । सप्तमी शुक्लाकृष्णा वायुगादिदिवसं विदुः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
