| YouTube Channel

कलिङ्गाद्यगुटिका (kaliGgAdyaguTikA)

 
वाचस्पत्यम्
Sanskrit
कलिङ्गाद्यगुटिका स्त्री चक्रद० उक्ते औषधभेदे यथा “कलिङ्ग-विल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् लाक्षाहरिद्रेह्रीवेरं कट्फलं शुकनासिकाम् लोध्रं मोचरसं शङ्खंधातकीवटशुङ्गकम् पिष्ट्वा तण्डुलतोयेन वटकानक्ष-सम्मितान् छायाशुष्कान् पिबेच्छीघ्रं ज्वरातीसार-शान्तये रक्तप्रसादनाश्चैते शूलातिसारनाशनाः”