कलिकापूर्व (kalikApUrva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishMonier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams 1872
Englishशब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritकलिकापूर्व य० कलिकया अंशेन जन्यमपूर्वम् । पर-मापूर्वजनके अङ्गजन्यापूर्व्वभेदे । तत्साधने युक्तिः शब्द-चिन्तामणिमाथुर्य्योर्दर्शिता यथा-“नन्वेवमाग्नेयादीनां षण्णां क्षणिकत्वात् योग्यतानव-गतौ परमापूर्वकारणत्वानवगमे कथमपूर्वकल्पनम्? इतिचेत् काम्येऽपूर्ववाच्यत्वस्थितावाग्नेयादौ तद्द्वारासा-धनत्वस्य योग्यत्वसम्भवात् न तु प्रथम” शब्दचि० ।व्याकृतं चैतत् मथुरानाथेन यथा-“ननु फलसाधनतान्वये फलसमयस्थायित्वतादृशव्यापा-रोपधायकत्वान्यतरत्वस्य योग्यतात्वे आग्नेयाष्टाकपाल-यागैन्द्रदधियागैन्द्रपयोयागात्मकयागत्रयरूपस्य दर्शस्य, आग्न याष्टाकपालोपांशुयागाग्रिषोमीयैकादशकपालयागा-त्मकयागत्रयरूपस्य पौर्ण्णमासस्य चावान्तरकलिका-पूर्व्वत्रय विना षड्जन्यैकपरमापूर्व्वजनकत्वमनुपपन्नंयुगपदाग्न यादीनां सहानवस्थानादतः “दर्शपौर्ण्णमासाभ्यांयजेत स्वर्गकामः” इत्यादि प्रधानविधिबोधितपरमापूर्व्व-साधनत्वान्ययानुपपत्त्या तत्र परमापूर्व्वनाश्यं कलिका-पूर्व्वषट्कं कंल्प्यते इति तव मिद्धान्तो व्याहतः योग्यता-ज्ञानाभावेन प्रधानविधिवाक्यात् प्रथमं परमापूर्व्व-साधनत्वान्वयस्यैवासम्मवादित्याशङ्कते नन्वेवमिति । एवं-साधनत्वान्वये निरुक्तान्यतरत्वस्य योग्यतात्वे । क्षणिकत्वा-दिति आशुविनाशित्वादित्यर्थः । परम्पराघटकानुपस्थितेश्चेतिशेषः । कथमिति । कथं प्रधानविधिबोधितपरमापूर्व्वसा-धनतान्यथानुपपत्तेः कलिकापूर्व्वकल्पनम्? इत्यर्थः ।यदि च निरुक्तयोग्यताज्ञानं विनाप्रि परमापूर्व्वसाधनत्वा-वगमस्तदा परमापूर्व्वज्ञानं विना स्वर्गसाधनत्वस्यापिज्ञानसम्भवात् किं परमापूर्व्वस्यापि वाच्यतया? इतिभावः । न च तत्रापि प्रधानविधिबोधितपरमापूर्व्व-साधनत्वान्यथानुपपत्त्या कलिकापूर्व्वाणि न कल्प्यन्तेअपि तु आग्नेयादिबोवकप्रत्येकवाक्यात् कलिका-पूर्व्वोपस्थितौ प्रधानविधिवाक्यात् परमापूर्व्वसाधन-त्वावगमः प्रथमन्तु प्रधानविधिवाक्यं मूकमेवेतिवाच्यम् अपसिद्धान्तात् “आग्नेयाष्टाकपालोभवत्यमा-वस्यायाम्” इत्यादिप्रत्येकबोधकवाक्यानां दर्शपौर्ण्ण-मासाबोधकतया कलिकापूर्व्वाबोधकत्वाच्चेति निगर्वः ।आशुविनाशित्वेन प्रतिसंहितकर्म्मणि यद्रूपेण फलस्यकालान्तरभावित्वप्रतिसन्धानं तद्रूपावच्छिन्नफलसाधन-त्वान्वये तत्पर्य्यन्तस्थायिव्यापारोपधायकत्वं योग्यताप्रकृते च प्रधानविधिना कार्य्यत्वरूपेण परमा-पूर्व्वं बोध्यते, तथाच कार्य्यत्वरूपेणं तज्जनकतादर्शादीनां ग्राह्या, तत्र च परमापूर्वत्वरूपेणकालान्तरभावित्वप्रतिसन्धानेऽपि न कार्य्यत्वरूपेणकालान्तरभावित्वप्रतिसन्धानं, कार्य्यत्वावच्छिन्नस्य दर्शाद्य-व्यवहितक्षणेऽपि सम्भवादतःपरमापूर्वसमयस्थायिव्यापारो-पधायकत्वज्ञानं विनापि प्रथमं कार्य्यत्वरूपेण सामा-न्यतस्तत्साधनत्वग्रहः, उत्तरकालञ्च स्वर्मसमयस्थायिकार्य्या-न्तराजनकस्य तादृशकार्य्यजनकत्वं परमापूर्वजनकतयैवपर्य्यवस्यति, तच्च साक्षान्न सम्भवति आग्नेयादेराशुविनाशि-त्वादतः परम्परया जनकत्वं, तच्चावान्तरव्यापारं विनाऽनुप-पन्नमित्यनुपपत्तिज्ञानात् कलिकापूर्वाणि कल्प्यान्ते, स्वर्गस्य चदेहान्तरभोग्यत्वेन कालान्तरभावित्वप्रतिसन्धानात्तत्पर्य्य-न्तस्थायिव्यापारोपधायकत्वज्ञानं विना सामान्यतोऽपि नतत्साधनत्वग्रहसम्भव इति गूढाभिसन्धिना समाधत्ते काम्यइति “दर्शपौर्ण्णमासाभ्यां थजेत स्वर्गकामः” इति काप्य-विधावित्यर्थः । अपूर्ववाच्यत्वस्थिताविति कार्य्यत्वरूपेणपरमापूर्ववाच्यत्वस्थितावित्यर्थः, तद्द्वारा साधनत्वस्येतिपरमापूर्वद्वारा साधनत्वस्येत्यर्थः, सामान्यतः स्वर्गसाधन-त्वरूपेणान्वये इति शेषः । योग्यतासम्भवात् योग्यता-ज्ञानसम्भवात्, न तु प्रथममिति । न तु परमापूर्व-वाच्यत्वं विनेत्यर्थः । स्वर्गस्य देहान्तरभोग्यत्वेन काला-न्तरभावित्वप्रतिसन्धानात् तत्साधनत्वान्वये तत्पर्य्यन्तस्था-यिव्यापारोपधायकत्वस्य योग्यतात्वात् कार्य्यत्वरूपेणपरमापूर्वसाधनत्वान्वये च न तत्पर्य्यन्तस्थायिव्यापारोप-धायकत्वज्ञानमपेक्षितं कार्य्यत्वावच्छिन्नस्य देहान्तरभावि-प्रतिसन्धानादित्यभिसन्धिः । एतच्चापाततः स्वर्गस्य काला-न्तरभावित्वाप्रतिसन्धाने क्रियायाः क्षणिकत्वाप्रति-सन्धाने वा स्वर्गसाधनत्वान्वयेऽप्यपूर्वोपस्थितिं विना योग्य-ताज्ञानसम्भवात् । केचित्तु “दर्शपौर्णमासाभ्यां यजेत स्वर्ग-कामः” इत्यत्र विधिप्रत्ययस्य कार्य्यत्वरूपेणापूर्वसामान्यएव शक्तत्वात् प्रथमं कार्य्यत्वरूपेण कलिकापूर्वसाधन-त्रावगमस्ततः कार्य्यत्वरूपेण परमापूर्बसाधनत्वावगमः, न तु प्रथममेव परमापूर्वसाधनत्वायगमः । न चप्रथमं कार्य्यत्वरूपेण कलिकापूर्वसाधनत्वावगमेऽपि तत्रपरमापूर्वपर्य्यन्तस्थायित्वं न गृहीतमिति वाच्यं द्वितीय-बोधे परमापूर्वस्वर्गपर्य्यन्तस्थायित्ववत् प्रथमबोधे कलिका-पूर्वस्य स्वर्गपर्यन्तस्थायिव्यापारसमयस्थायित्वभाने बाधका-भावादिति समाधत्ते काम्य इति । “दर्शपौर्णमासाभ्यां यजेतस्वर्गकाम” इति काम्यविधावित्यर्थः, अपूर्ववाच्यत्वस्थि-ताविति कार्य्यत्वरूपेण कलिकापूर्वस्यापि वाच्यत्वस्थितावि-त्यर्थः, तदुद्वारा साधनत्वस्येति कलिकापूर्वद्वारा परमापूर्व-साधनत्वस्येत्यर्थः, अन्वय इति शेषः । योग्यतासम्भ-वात् प्रथमं योग्यताज्ञानसम्भवात्, न तु प्रथममितिपरमापूर्वसाधनत्वावगम इति शेषः । न चैवं प्रतीतपर-मापूर्वसाधनत्वानुपपत्त्या कलिकापूर्वाणां कल्प्यत्वमितिसिद्धान्तव्याघात इति वाच्यं प्रधानविधिवाक्यात् परमा-पूर्वसाधनत्वान्वयानुपपत्त्या क लिकापूर्वाणामेव प्रथमान्वय-बोधविषयत्वम् इत्येव तदर्थात् इति भावः” इत्याहुः ।ननु एकस्मिन्नेव परमापूर्वे स्वर्गे च दर्शपौर्णमासयोःकेन रूपेण जनकत्वमिति चेदुच्यते दर्शपौर्णमासोभय-साधारणेन दर्शपौर्णमासत्वव्यापकीभूतेन वैजात्यविशे-षेण विजातीयापूर्वं विजातीयस्वर्गञ्च प्रति जनकत्वं, विजातीयापूर्वजनकतावच्छेदकतयैव तद्वैजात्यसिद्धिः, न च दण्डचक्रन्यायेन दर्शपौर्ण्णमासत्वाभ्यामेव जनक-त्वमस्तु केवलदर्शात् केवलपौर्ण्णमासाद् वा फला-नुत्पादस्य परस्परव्यतिरेकादेवोपपत्तेरिति वाच्यं कार्य्य-कारणभावद्वयकल्पने गौरवात् दर्शत्वादेर्जनकतावच्छेदकता-पर्य्यन्तस्य विध्यर्थत्वाभावात् । न च तवापि दर्शत्वादिप्रत्येकधर्ममादाय विनिगमनाविरहात् कार्य्यकारणभाव-द्वयमावश्यकमिति वाच्यम्, केवलदर्शात् केवलपौर्ण्ण-मासाच्च फलोत्पादस्य वारणाय कार्य्य कारणभाव-द्वयस्यावश्यकत्वेन गौरवस्यैव विनिगमकत्वात्, यदि चपौर्णमासं विना कृते दर्शे दर्शत्वस्य, दर्शं विना कृतेच पौर्णमासे पौर्णमासत्वस्य प्रत्यक्षसिद्धत्वं नाभ्युपेयते किन्तुदर्शपूर्वकृते पौर्णमास एव पौर्ण्णमासत्वं, पौर्ण्णमासो-त्तरकृत एव दर्शे दर्शत्वमुपेयते, तदा तु प्रत्येकं दर्शत्व-पौर्णमासत्वाभ्यामेव जनकत्वं, न व्यापकजात्या, अतिरिक्त-कल्पने गौरवात् अतिरिक्तजातिकल्पनेऽपि दर्शत्वादिक-मादाय विनिगमनाविरहेण कार्य्यकारणभावद्वयस्यावश्यक-त्वात् । अथ यदि पौर्ण्णमासोत्तरकृते दर्श एव दर्शत्वं, तदा दर्शत्वेनैव हेतुतास्तु किं पौर्ण्णमासत्वेन हेतुतया?न च विनिगमनाविरहात् पौर्ण्णमासत्वेनापि हेतुत्वमितिवाच्य केवलपौर्णमासत्वेन हेतुत्वे पौर्ण्णमासानन्तरंदर्शोत्पादप्राक्काल एव परमापूर्वोत्पत्त्यापत्तेरेव विनि-गमकत्वादिति चेन्न “दर्शपौर्ण्णमासाभ्यां यजेत स्वर्गकाम”इति श्रुत्या पौर्ण्णमासस्यापि हेतुत्वबोधनात् पौर्ण्णमास-त्वेनापि हेतुत्वस्यावश्यकत्वात् दर्शतस्य पौर्ण्णमासावृत्तित्वात् । एतेन पयोयागात्मकदर्शचरमयागस्यैव पयो-यागत्वेन हेतुत्वमस्त्वित्यपि निरस्तम् । दर्शपौर्ण्णमासत्वाक्रान्तानामन्येषामपि हेतुत्वस्य वेदबोधितत्वात् ।अथोभयसाधारणवैजात्येन हेतुतापक्षे जातेरव्या-सज्यवृत्तितया आग्नेयादियागषट्कस्थल एव आ-ग्नेयादियत्किञ्चिद्यागानन्तरं परमापूर्व्वोत्पत्त्यापत्तिःकारणतावच्छेदकावच्छिन्नयत्किञ्चित्कारणसत्त्वात् एवंदर्शत्वपौर्ण्णमासात्वादिना प्रत्येकहेतुत्वपक्षेऽपि पौर्ण्ण-मासानन्तरं दर्शान्तर्गतयत्किञ्चिद्यागे कृत एव पर-मापूर्व्वोत्पत्त्यापत्तिरिति चेन्न परमापूर्व्वव्यापारी-भूतानां कलिकापूर्व्वषट्कानामपि तत्तद्रूपेणं दण्ड-चक्रवत् हेतुतया कलिकापूर्व्वषट्कानां सम्बन्धतया-वा तदभावादेव तत्र परमापूर्व्वानुत्पादात् । ननुतथापि दर्शपौर्ण्णसासस्थले कियन्त्यपूर्व्वाणीति चेदत्रप्राञ्चः--प्रथमतः पौर्ण्ण मासत्रयेण प्रत्येकं कलिकापूर्व्वत्रयं जनयित्वा मध्ये एकं परमापूर्व्वं जन्यते एवंदर्शत्रयणापि प्रत्येकं कलिकापूर्व्वंत्रयं जनयित्वा मध्येएकं परमापूर्व्वं जन्थते, ततस्ताभ्यां परमापूर्व्वाभ्यांचरमं परमापूर्व्वान्तरं जन्यते इति नवापूर्व्वाणी-त्याहुः । नव्यास्तु मध्यमपरमापूर्व्वद्वये मानाभावात्षड्भिः कलिकापूर्व्वेरेव चरमं परमापूर्व्वं जन्यते इतिसप्तापूर्व्वाणि । न च पूर्व्वपूर्व्व क्रियाभिर्जनितैः पञ्चभिःकलिकापूर्वैः सह चो त्तरक्रियैव चरमं परमापूर्व्वंजनयतु किं चरमक्रियाजन्यकलिकापूर्व्वेणेति वाच्यंतस्या अपि स्वोत्तराङ्गदक्षिणादानादिसाचिव्येनैव परमापूर्व्वजनकत्वोपगमेन तावत्कालानवस्थित्या चरमकलिकापूव्वखीकारात्, दक्षिणादानाद्युत्तराङ्गञ्च साक्षादेवपरमापूर्व्वहेतुर्नतु तत्र द्वारापेक्षेति प्राहुः । उच्छृ-ङ्खलास्तु षड्भ्यः कलिकापूर्व्वेभ्य एव स्वर्गोपपत्तेःपरमापूर्व्वे मानाभावः । न च खर्गं प्रति षण्णामपूर्व्वाणां-षडपूर्व्वसम्बन्धेन दर्शपौर्ण्णमासयोर्वा हेतुत्वे गौरव-मिति वाच्यं, तवापि परमापूर्व्वं प्रति षडपूर्व्वाणां षड-पूर्व्वसम्बन्धेन दर्शपौर्ण्णमासयोर्वा हेतुत्वेन तुल्यत्वात्षडपूर्व्वाणां सम्बन्धत्वन्तु मतद्वय एव । यदि षडपूर्व्वाणा-मपि पृथक् हेतुत्वं तदाऽपूर्व्वत्वेनैव । इरथा षट्कत्वेनेत्य-न्यदेतदित्याहुः । (अपूर्व्वशब्दे परमापूर्व्वखण्डनमेतन्मनु-सारेणैवोक्तमिति स्मर्त्तव्यम्) तदसत्, परमापूर्व्वानभ्युपगमेदक्षिणादानादेश्चरमाङ्गस्य खर्गोपयीगित्वानुपपत्तेः न हिदक्षिणादानं साक्षात् खर्गहेतुः, अङ्गत्वात् आशु-विनाशित्वाच्च तज्जन्यस्य पृथगपूर्वस्य स्वीकारे किमपराद्धंपरमापूर्व्वेण? । परमापूर्व्वं प्रति च दक्षिणादानादेश्चर-माङ्गस्य साक्षादेव हेतुत्वम् इत्युक्तमेव । न च परमापूर्व्वा-भ्युपगमे तत्र षडपूर्व्वाणां दक्षिणादानस्य च कारणत्वंकल्पनीयमतोगौरवमिति वाच्यं, तवापि षडपूर्व्वाणांदक्षिणादानादिजन्यादृष्टस्य च खर्गं प्रति हेतुत्वेनतुल्यत्वात् मम तु कलिकापूर्व्वषट्कं परमापूर्वजननएव द्वारं नतु स्वर्गहेतुः, मानाभावात् यागस्य हेतुत्वे चश्रुतिरेव मानमिति न किञ्चिदेतत् । ननु तथापि नवावृत्त्यादिस्थले दशपार्थिवशिवपूजादिस्थले च केन रूपेणपरमापूर्व्वविशेषे खर्गविशेषे च हेतुत्वं, तत्र नवावृत्ति-त्वादेर्ज्जातित्वाभावात् न च तत्रापि अपेक्षाबुद्धिविशेषविषयत्वरूपनवत्वादिविशिष्टावृत्तित्वादिनैव हेतुत्वम् ।अपेक्षाबुद्धिश्च प्रत्येकसङ्कल्पपूर्व्वकनवावृत्त्यादि-व्यावृत्ता ग्राह्या इति वाच्यं प्रत्येकनवावृत्त्यादिमात्र-वृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽननुगमात् सकलनवावृत्त्यादिवृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽसम्भ-वात् अथ चण्डीपाठावृत्तितत्तन्नवत्वेतरनवत्वत्वा-दिना नवत्वादिकमनुगतीकृत्य तद्विशिष्टत्वेन हेतुत्वंवाच्यं “कारणतावच्छेदकसम्बन्धश्च खर्गं प्रति परमापूर्व्व-त्वमेव परमापूर्व्वं प्रति तु परमापूर्व्वेतरापूर्व्वसामान्य-मेव दर्शादिस्थानवदत्रापि प्रत्येकावृत्तिजन्यकलिका-पूर्व्वनवकादिद्वारैव परमापूर्व्वजननात् प्रत्येकसङ्कल्प-पूर्व्वकप्रत्येकावृत्तिजन्यापूर्व्वतो नवावृत्त्यादिस्थलीय-प्रत्येकावृत्तिजन्यकलिकापूर्व्वस्य न वैलक्षण्यमतः क-लिकापूर्व्वं प्रति चण्डीपाठत्वादिनैव हेतुत्वं कार्य्यताव-च्छेदकश्च चण्डीपाठसामान्यजन्यतावच्छेदकतया सिद्धोनवावृत्त्यादिजन्यतावच्छेदकजातिव्यापको जाति-विशेष एव । धारावाहिकपरमापूर्व्वं द्वयादिवारणायपरमापूर्व्वेतरेति । नवत्वादेः प्रत्येकापरिसमाप्तत्वादेक-स्मान्न परमापूर्व्वोत्पाद इति चेन्न, निखिलापेक्षाबुद्धि-साधारणस्य नवत्वस्य एकस्यानुगतस्याभावेन तेन रूपेणा-नुगमासम्भवात् इति, मैवं नवावृत्तित्वादेरपि नवंपा-ठादिविषयकमानसज्ञानविशेषवृत्तिमानसत्वव्याप्यजातित्वात्“नवकृत्वः पठेत्” “दश पार्थिवशिवलिङ्गानि पूजयेत्”इत्यादावपि तादृशज्ञानविशेष एव धात्वर्थः तादृशज्ञान-विशेषश्च परमापूर्व्वं प्रति साक्षादेव हेतुरिति संक्षेपः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
