कलिः (kaliH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishकलिः [kaliḥ], [कल्-इनि]
Strife, quarrel, dissension, contention
शठ कलिरेष महांस्त्वयाद्य दत्तः 7.55
कलिकामजित् 9.33, 23.
War, battle. अविषह्यैस्तमाक्षेपैः क्षिपन्संजनयन् कलिम् । 1.55.17.
The fourth age of the world, the iron age (consisting of 432, years of men and beginning from the 13th of February 312 B. C.)
दानमेकं कलौ युगे 1.86, 9.31
कलिवर्ज्यानि इमानि
Kali age personified (this Kali persecuted Nala).
The worst of any class.
The Bibhītaka tree.
The side of a die which is marked with one point. घृतेन कलिं शिक्षामि 7.19.1.
A hero.
An arrow. A bud.
कारः, कारकः, क्रियः an epithet of Nārada.
the karanja tree.
a kind of bird. -द्रुमः, -वृक्षः the Bibhītaka tree. -प्रिय quarrelsome.
(यः) of Nārada.
a monkey, ape
1.85. -मारकः a kind of karanja tree. -युगम् the Kali age
1.85.-संतरणम् of an Upaniṣad. -हारी a kind of medicine (विषलाङ्गली).
Apte 1890
Englishकलिः [कल्-इनि] 1 Strife, quarrel, dissension, contention
Śi. 7. 55: कलिकामजित् R. 9. 33
Amaru. 19.
2 War, battle
3 The fourth age of the world, the iron age (consisting of 432, 000 years of men and beginning from the 13th of February 3102 B. C.)
Ms. 1. 86, 9. 301
कलिवर्ज्यानि इमानि &c.
4 Kali age personified (this Kali persecuted Nala).
5 The worst of any class.
6 The Bibhītaka tree.
7 The side of a die which is marked with one point.
8 A hero.
9 An arrow.
f. A bud.
Comp.
कारः,
कारकः,
क्रियः an epithet of Nārada.
द्रुमः,
वृक्षः the Bibhītaka tree.
प्रिय a. quarrelsome. (
यः) {1} N. of Nārada. {2} a monkey, ape
Ms. 1. 85.
Apte Hindi
Hindiकलिः
- कल्-इनि
"झगड़ा, लड़ाई-भिड़ाई, असहमति, मतभेद "
कलिः
- कल्-इनि
"संग्राम, युद्ध"
कलिः
- कल्-इनि
"सृष्टि का चौथा युग, कलियुग"
कलिः
- कल्-इनि
मूर्त्तरूप कलियुग
कलिः
- कल्-इनि
किसी वर्ग का निकृष्टतम व्यक्ति
कलिः
- कल्-इनि
विभीतक या बहेड़े का वृक्ष
कलिः
- कल्-इनि
पासे का पहलू जिस पर एक का अंक अंकित है
कलिः
- कल्-इनि
नायक
कलिः
- कल्-इनि
बाण
कलिः
- कल्-इनि
बिना खिला फूल
कलिः
- कल्-इनि
"अनखिला फूल, कली"
कलिः
- कल्-इनि
"अंक, रेखा"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit कलहः, वादः, युद्धम्, आयोधनम्, जन्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, सङ्ख्यम्, समीकम्, साम्परायिकम्, समरः, अनीकः, रणः, विग्रहः, सम्प्रहारः, कलिः, स्फोटः, संयुगः, आहवः, समितिः, समित्, आजिः, शमीकम्, संस्फेटः
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
"सः कलहस्य कारणं ज्ञातुं इच्छति।"
कलियुगम्, कलिः, कलेःयुगम्, कषायः
हिन्दूनां मते कालस्य चतुर्विभागेषु अन्तिमः कलियुगसंज्ञकः स च द्वापागयुगाद् अनन्तरं ४३२००० वर्षपर्यन्तः।
"कलियुगस्य लक्षणम् धर्मः सङ्कुचितस्तपो विरहितं सत्यं च दूरं गतम् लोका धर्महता द्विजाश्च लुभिता नारीवशा मानवाः।"
युद्धम्, संग्रामः, समरः, समरम्, आयोधनम्, आहवम्, रण्यम्, अनीकः, अनीकम्, अभिसम्पातः, अभ्यामर्दः, अररः, आक्रन्दः, आजिः, योधनम्, जम्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, संख्यम्, समीकम्, साम्यरायिकम्, कलहः, विग्रहः, संप्रहारः, कलिः, संस्फोटः, संयुगः, समाघातः, संग्रामः, अभ्यागमः, आहवः, समुदायः, संयत्, समितिः, आजिः, समित्, युत्, संरावः, आनाहः, सम्परायकः, विदारः, दारणम्, संवित्, सम्परायः, बलजम्, आनर्त्तः, अभिमरः, समुदयः, रणः, विवाक्, विखादः, नदनुः, भरः, आक्रन्दः, आजिः, पृतनाज्यम्, अभीकम्, समीकम्, ममसत्यम्, नेमधिता, सङ्काः, समितिः, समनम्, मीऴ् हे, पृतनाः, स्पृत्, स्पृद्, मृत्, मृद्, पृत्, पृद्, समत्सु, समर्यः, समरणम्, समोहः, समिथः, सङ्खे, सङ्गे, संयुगम्, सङ्गथः, सङ्गमे, वृत्रतूर्यम्, पृक्षः, आणिः, शीरसातौ, वाजसातिः, समनीकम्, खलः, खजः, पौंस्ये, महाधनः, वाजः, अजम्, सद्म, संयत्, संयद्, संवतः
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
"यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।"
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
कलिः
एका उपनिषद् ।
"कलेः उल्लेखः कोषे अस्ति"
कलिः
एकः पुरुषः ।
"कलेः उल्लेखः ऋग्वेदे अस्ति"
कलिः
एकः पुरुषः ।
"कलेः वर्णनं ऋग्वेदे वर्तते"
वैजयन्तीकोषः
SanskritWord: कलिः
Root: कलि
Gender: पुं
Number: all
अर्थः ⇒ कलियुगम्
Meaning(s):
⇒ Kali yuga
Shloka(s):
2|1|91|1 ► वत्सवायटव्यसौर्याश्च वर्षोऽस्त्री स्त्री शरत् समाः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|92|1 ► द्वापरे यज्ञियाग्नेयौ पुण्यो झर्झरकः कलिः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|91|1 ⇢ पुष्यः (पुष्य) (पुं) ⇒ Kali yuga ⇒ कलियुगम्
➠ 2|1|92|1 ⇢ झर्झरकः (झर्झरक) (पुं) ⇒ Kali yuga ⇒ कलियुगम्
➠ 2|1|92|1 ⇢ कलिः (कलि) (पुं) ⇒ Kali yuga ⇒ कलियुगम्
Related word(s):
अवयव_अवयवीसंबन्धः ➡ मन्वन्तरम्
जातिः ➡ कालः
उपाधि ➡ समूहः
शब्दकल्पद्रुमः
Sanskritकलिः, (कलते कलेराश्रयत्वेन वर्त्तते इति । कल+ “सर्व्वधातुभ्य इन्” । उणां ४ । ११७ । इतिइन् ।) विभीतकवृक्षः । (विभीतकस्य कलिद्रुमत्व-कारणमुक्तं यथा, वामने २७ अध्याये ।“इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः ।दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं ययौ” ॥
अस्य गुणादिकं विभीतकशब्दे द्रष्टव्यम् ॥
* ॥
कलते स्पर्द्धते इति कल + “सर्व्वधातुभ्यः इन्” ।उणां-४ । ११७ । इति इन् ।) शूरः । (कलन्ते स्पर्द्ध-माना भाषन्तेऽस्मिन्निति । कल + “सर्व्वधातुभ्यइन्” । उणां ४ । ११७ । इति इन् ।) विवादः ।(यथा, भागवते ९ । ६ । ४४ ।“तासां कलिरभूद्भूयांस्तदर्थेऽपोह्य सौहृदम् ।समानुरूपो नायं व इति तद्गतचेतसाम्” ॥
)युद्धम् । (कल्यते पापेषु निक्षिप्यते अनेन यद्वाकलयति पापेन जडयति कलुषितं करोति ।कल + इन् ।) अन्त्ययुगम् । इति हेमचन्द्रः ॥
तस्योत्पत्तिर्यथा ।“प्रलयान्ते जगतस्रष्टा ब्रह्मा लोकपितामहः ।ससर्ज्ज घोरं मलिनं पृष्ठदेशात् सपातकम् ॥
सचाधर्म्म इति ख्यातस्तस्य वंशानुकीर्त्तनात् ।श्रवणात् स्मरणाल्लोकः सर्व्वपापैः प्रमुच्यते ॥
अधर्म्मस्य प्रिया रम्या मिथ्या मार्ज्जारलोचना ।तस्याः पुत्त्रोऽतितेजस्वी दम्भः परमकोपनः ॥
स मायायां भगिन्यान्तु लोभं पुत्त्रञ्च कन्यकाम् ।निकृतिं जनयामास तयोः क्रोधः सुतोऽभवत् ॥
स हिंसायां भगिन्यान्तु जनयामास तत्कलिम् ।वामहस्तधृतोपस्थं तैलाभ्यक्ताञ्जनप्रभम् ॥
काकोदरं करालास्यं लोलजिह्वं भयानकम् ।पूतिगन्धं द्यूतमद्यस्त्रीसुवर्णकृताश्रयम् ॥
भगिन्यान्तु दुरुक्त्यां स भयं पुत्त्रञ्च कन्यकाम् ।मृत्युं संजनयामास तयोश्च निरयोऽभवत् ॥
यातनायां भगिन्यान्तु लोभपुत्त्रायुतायुतम् ।इत्थं कलिकुले जाता बहवो धर्म्मनिन्दकाः” ॥
इति कल्किपुरणे १ अध्यायः ॥
* ॥
कलिधर्म्मो यथा ।“यदा सदानृतं तन्द्रानिद्रा हिंसा विषादनम् ।शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥
यस्मिन् जनाः कामिनः स्युः शश्वत्कटुकभाषिणः ।दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥
राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ।अव्रता वटवो ऽशौचा भिक्षवश्च कुटुम्बिनः ॥
तपस्विनो ग्रामवासा न्यासिनो ह्यर्थलोलुपाः ।ह्रस्वकाया महाहाराश्चौर्य्यमायोरुसाहसाः ॥
त्यक्ष्यन्ति भृत्याश्च पतिं तापसास्त्वखिलं व्रतं ।शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ॥
उद्विग्नाश्चानलङ्काराः पिशाचसदृशाः प्रजाः ।अस्नातभोजनेनाग्निदेवतातिथिपूजनम् ॥
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ।स्त्रीपराश्च जनाः सर्व्वे शृद्रप्रायाश्च शौनक ॥
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ।शिरःकण्डयनपरा आज्ञां भेत्स्यन्ति सत्पतेः ॥
विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ॥
कलेर्द्दोषनिधेर्विप्र अस्ति ह्येको महान् गुणः ।कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतः फलम् ।द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात् ॥
तस्मार्द्ध्ययो हरिर्नित्यं ध्येयः पूज्यश्च शौनक” ॥
इति गारुडे युगधर्म्मे २२७ अध्यायः ॥
(माघिपूर्णिमायां शुक्रवारे कलियुगोत्पत्तिः ॥
)तद्युगमानम् । द्वात्रिंशत्सहस्राधिकचतुर्लक्षवत्-सराः (४३२०००) ।(आर्य्यभट्टमते ऽत्र १५७७९१७५० दिवसाः ।सूर्य्यसिद्धान्तमते १५७७९१७८२ । ४८ दिवसाः ।ज्योतिषसैद्धान्तिकमतेच १५७७९१७८२ दिवसाः ॥
अतो वर्षमाणमार्य्यभट्टमते ३६५ । १५ । ३१ । १५ ।दिवसाः ।सूर्य्यसिद्धान्तमते ३६५ । १५ । ३१ । ३१ । २४ । दिवसाः ।ज्योतिषसैद्धान्तिकमते च ३६५ । १५ । ३१ । ३०दिवसाः ॥
)तस्यातीताब्दाः १८०९ शाकपर्य्यन्तं ४९८८ ॥
(कलेस्त्रिपञ्चाशदधिकषट्शतमितेषु (६५३)वत्सरेषु गतेषु युधिष्ठिरादयो जाताः । यदुक्तराजतरङ्गिण्यां १ । ५१ ।“शतेषु षट्सु सार्द्धेषु त्र्यधिकेषु च भूतले ।कलेर्गतेषु वर्षाणामभवन् कुरुपाण्डवाः” ॥
ऋतुपक्षशरद्विमितेषु (२५२६) युधिष्ठिराब्देषुकलेर्ग्रहसिन्ध्विन्दुनेत्रमितेषु (३१७९) वत्सरेषुगतेषुच महाविषुवसंक्रान्त्यां शालिवाहनस्य राज्ञोजन्मदिनमारभ्य शकाब्दः प्रवर्त्तितः । यदुक्तंतत्रैव १ । ५६ ।“आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरेनृपतौ । षड् द्विपञ्चद्वियुतः शककालस्तस्य रा-ज्यस्य” ॥
अयन्तु महाविषुवसंक्रान्तिमधिगम्यपरिगणितो भवति ॥
कलेश्चतुश्चत्वारिं शदधिकत्रिसहस्रपरिमितेषु(३०४४) वत्सरेषु गतेषु चैत्रशुक्लप्रतिपदि उज्ज-यिनीपतेर्विक्रमादित्यस्य राज्यप्राप्तिकालमारभ्यसंवत् इत्याख्यया प्रसिद्धो वत्सरः प्रचलितः ॥
अयन्तु चैत्रशुक्लप्रतिपत्तिथिमधिगम्य परिगणितोभवति ॥
कलेरेकोर्द्ध्वशताधिकत्रिसहस्रपरिमितेषु (३१०१) वत्सरेषु गतेषु प्रायशो सौरपौषस्य अष्टादशदिवसे यीशुख्रीष्टीयाब्दः प्रचलितः ॥
पञ्चनवत्यूर्द्ध्वषट्शताधिकत्रिसहस्रपरिमितेषु(३६९५) कलेरतीताब्देषु सप्तदशाधिकपञ्च-शतमिते (५१७) च शकाब्दे प्रचलति भाद्रशुक्ल-द्वादश्यां उत्कलदेशप्रचलितः विलायति इत्या-ख्यया प्रसिद्धो वत्सरः प्रवर्त्तितः । अयन्तु भाद्र-शुक्लद्वादशीमधिगम्य परिगणितो भवति ॥
त्रयोविंशत्यूर्द्धसप्तशताधिकत्रिसहस्रपरिमितेषु(३७२३) कलेरतीताब्देषु पञ्चचत्वारिंशदधिक-पञ्चशतमिते (५४५) च शकाब्दे प्रचलति ज्यैष्ठस्यविंशतितमदिवसीय शुक्रवारात् महम्मदस्य मक्का-प्रस्थानकालमारभ्य “हिज्रि” इति प्रसिद्धोहायनः प्रचलितः । अयन्तु चान्द्रमाणेन परिग-णितो भवति । अतः प्रायशः सौरसप्तनवतितम-वर्षैरस्य शततमा वत्सरा भवेयुः ॥
पञ्चाशीत्यूर्द्ध्वपञ्चशताधिकचतुःसहस्रपरिमि-तेषु कलेरतीताब्देषु (४५८५) सप्ताधिकचतु-र्द्दशशतपरिमिते (१४०७) च शकाब्दे प्रचरतिफाल्गुनीयोनविंशदिवसे शुक्रवारे पूर्णिमायां भग-वांश्चैतन्यदेवः प्रादुर्बभूव । अस्य जन्मदिनमारभ्यचैतन्याब्दः प्रचलितः ॥
)अस्मिन् युगे धर्म्म एकपादः । अधर्म्मश्चतु-ष्पादः । आयुः शतवर्षाणि । अवतारः श्रीकृष्णः ।तद्युगशेषे पापिनां विनाशाय भगवद्दशमावतारःकल्किर्भविष्यति । तद्युगधर्म्मो यथा ।“कलौ तु धर्म्मपादानां तूर्य्यांशोऽधर्म्महेतुभिः ।एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति ॥
तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः ।दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः” ॥
“यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।शोकमोहौ भयं दैन्यं स कलिस्तामसः स्मृतः ॥
यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः ।कामिनो वित्तंहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥
दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ।राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥
अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।तपस्विनो ग्रामवासा न्यासिनो ह्यर्थलोलुपाः ॥
ह्रस्वकाया महाहारा बह्वपत्या गतह्रियः ।शश्वत्कटुकभाषिण्यश्चौर्य्यमायोरुसाहसाः ॥
पणयिष्यन्ति वै क्षुद्राः किराटाः कुटकारिणः ।अनापद्यपि मंस्यन्ते वार्त्तां साधुजुगुप्सिताम् ॥
पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् ।भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥
पितॄन् भ्रातॄन् सुहृद्ज्ञातीन् हित्वासौरतसौहृदाःननान्दृश्यालसम्बादा दीनाः स्त्रैणाः कलौ नराः ॥
शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ।धर्म्मं वक्ष्यन्त्यधर्म्मज्ञा अधिरुह्योत्तमासनम् ॥
नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्षिताः ।निरन्ने भूतले राजन्ननावृष्टिभयातुराः ॥
वासोऽन्नपानशयनव्यवायस्नानभूषणैः ।हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।त्यक्ष्यन्ति हि प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥
न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि ।पुत्त्रान् भार्य्याञ्च कुलजां क्षुद्राः शिश्नोदरम्भराः ॥
कलौ न राजन् जगतां परं गुरुंत्रिलोकनाथानतपादपङ्कजम् ।प्रायेण मर्त्या भगवन्तमच्युतंयक्ष्यन्ति पाषण्डविभिन्नचेतसः” ॥
* ॥
कलिकृतदोषविनाशोपायः । यथा, “यन्नामधेयं म्रियमाण आतुरःपतन् स्खलन् वा विवशो गृणन् पुमान् ।विमुक्तकर्म्मार्गल उत्तमां गतिंप्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् ।सर्व्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥
श्रुतः संकीर्त्तितो ध्यातः पूजितस्त्वादृतोऽपि वा ।नृणां क्षिणोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥
यथा हेम्नि स्थितो वह्निर्दुर्व्वर्णं हन्ति धातुजम् ।एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥
विद्यातपःप्राणनिरोधमैत्रीतीर्थाभिषेकव्रतदानजप्यैः ।नात्यन्तशुद्धिं लभतेऽन्तरात्मायथा हृदिस्थे भगवत्यनन्ते ॥
तस्मात् सर्व्वात्मना राजन् हृदिस्थं कुरु केशवम् ।म्रियमाणो ह्यवहितस्ततो याहि परां गतिम्” ॥
“कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।कीर्त्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखे ।द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात्” ॥
इति श्रीभागवते महापुराणे १२ । ३ अध्यायः ॥
* ॥
तद्युगशेषधर्म्माः यथोक्तास्तत्रैव १२ । १ । ३६-४७ ॥
“सौराष्ट्रावन्त्याभीराश्च शूरा अर्ब्बुदमालवाः ।व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः ॥
सिन्धोस्तटं चन्द्रभागां कान्तीं काश्मीरमण्डलम् ।भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छा अब्रह्मवर्च्चसः ॥
तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृतः ।एतेऽधर्म्मानृतपराः फल्गुदास्तीव्रमन्यवः ॥
स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः ।उदितास्तमितप्राया अल्पसत्वाल्पकायुषः ॥
असंस्कृताः क्रियाहीना रजसा तमसा वृताः ।प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ॥
तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः ।अन्योन्यतो राजमिश्च क्षयं यास्यन्ति पीडिताः” ॥
तत्रैव १२ । २ । १-१६ ।“ततश्चानुदिनं धर्म्मः सत्यं शौचं क्षमा दया ।कालेन बलिना राजन् नंङ्क्ष्यत्यायुर्ब्बलं स्मृतिः ॥
वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।धर्म्मन्यायव्यवस्थायां कारणं बलमेव हि ॥
दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यवहारिके ।स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥
लिङ्गमेवाश्रमाख्यातावन्योन्यापत्तिकारणम् ।अवृत्त्या न्यायदौर्ब्बल्यं पाण्डित्ये चापलं वचः ॥
अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव हि ।स्वीकार एव चोद्वाहे स्रानमेव प्रसाधनम् ॥
दूरे वार्य्ययनं तीर्थं लावण्ये केशधारणम् ।उदरम्भरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥
दाक्ष्ये कुटुम्बभरणं यशोऽर्थे धर्म्मसेवनम् ।एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ।ब्रह्मविट्क्षत्त्रशूद्राणां यो बली भविता नृपः ॥
प्रजा हि लुब्धै राजन्येर्निर्घृणैर्दस्युधर्म्मभिः ।आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ॥
शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः ।अनावृष्ट्या विनङ्क्ष्यन्ति दुर्मिक्षकरपीडिताः ॥
शीतवाततपप्रावृडहिमैरन्योऽन्यतः प्रजाः ।क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया ॥
त्रिंशद्विंशतिवर्षाणि परमायुः कलौ नृणाम् ॥
क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।षर्णाश्रमवतां धर्म्मे नष्टे वेदपथे नृणाम् ॥
पाषण्डप्रचुरे धर्म्मे दस्युप्रायेषु राजसु ।चौर्य्यानृतवृथाहिंसानानावृत्तिषु वै नृषु ॥
शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषु ।गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥
अनुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥
इत्थं कलौ गतप्राये जनेषु खरधर्म्मिषु ।धर्म्मत्राणाय सत्वेन भगवानवतरिष्यति” ॥
(देवगन्धर्व्वविशेषः । स तु कश्यपात् दक्षकन्यायांमुनौ जातः । यथा, महाभारते १ । ६५ । ४४ ।“तथा शालिशिरा राजन् पर्ज्जन्यश्च चतुर्द्दश ।कलिः पञ्चदशस्त्वेषां नारदश्चैव षोडशः” ॥
शिवः । यथा महाभारते । १३ । १७ । ७८ ।“दम्भोह्यदम्भो वैदम्भो वश्यो वशकरः कलिः” ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
