कलावती (kalAvatI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishकलावती - kalAvatI - - particular mUrchanA
कलावती - kalAvatI - - lute of the gandharva tumburu
कलावती - kalAvatI - - mystical ceremony
Apte
Englishकलावती [kalāvatī], A kind of lute.
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiकलावती
- कला+मतुप्+ङीप्
एक प्रकार की वीणा
Shabdartha Kaustubha
Kannadaकलावती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > कलावत् ಪದದ ಅರ್ಥ
निष्पत्तिः - > स्त्रियां "ङीप्" (४-१-६)
कलावती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತುಂಬುರುವಿನ ವೀಣೆ
निष्पत्तिः - > "मतुप्" (५-२-९४) । मस्य वः (७-२-९) । "ङीप्" (४-१-६)
व्युत्पत्तिः - > कलाः गीतरागादयः सन्त्यस्याम्
प्रयोगाः - > "विश्वावयोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥"
कलावती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದ್ರುಮಿಲರಾಜನ ಮಗಳು
कलावती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ರಾಧೆಯ ತಾಯಿ /ವೃಷಭಾನುವಿನ ಪತ್ನಿ
कलावती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಂಗೆ
अभिधानचिन्तामणिः
Sanskritविश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती ॥ २८९ ॥
विश्वावसुवीणा (स्त्री), बृहती (स्त्री), तुम्बुरुवीणा (स्त्री), कलावती (स्त्री)
पुराणम्
Englishकलावती १ / KALĀVATĪ I. A daughter of the King of kāśī. This gem of a woman worshipped the sage durvāsas and became a saint by obtaining the Śaiva Pañcākṣara (five letters pertaining to śiva--Sivāya namaḥ). Afterwards Dāśārha, King of mathurā, married her. The King felt very hot whenever he approached her and he questioned her about it. She said she had received the Pañcākṣara mantra even from childhood and sinners would feel the heat if they touched her. The King was greatly disappointed and kalāvatī took him to Sage garga to redeem him from all his sins. The sage dipped the King in the river kālindī and when the King rose up all his sins flew away from his body as tiny birds. The King reaching the palace, embraced kalāvatī and then he felt her body very cool and pleasant. They got a son also. (pañcākṣaramāhātmya, śiva purāṇa).
कलावती २ / KALĀVATĪ II. Mother of mṛgāvatī, a queen. mṛgāvatī was the mother of udayana. See under mṛgāvatī).
कलावती ३ / KALĀVATĪ III. A nymph. See under ṭhiṇṭhākarāla.
शब्दकल्पद्रुमः
Sanskritकलावती, (कला गान्धर्व्वकलाः संगीतरागा-लापादयः सन्ति अस्याम् । कला + मतुप् मस्यवः स्त्रियां ङीप् ।) तुम्बुरुगन्धर्व्वस्य वीणा । इतिहेमचन्द्रः ॥
(यथा माघस्य १ । १० श्लोकस्य टी-कायां मल्लिनाथधृतवैजयन्तीवचनम् ।“विश्वावसोस्तु वृहती तुम्बुरोस्तु कलावती ।महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी” ॥
स्वनामख्याता द्रुमिलस्य राज्ञः पत्नी । यथा ब्रह्म-वैवर्त्ते ब्रह्मखण्डे । २० । १२ ।“कान्यकुब्जे च देशे च द्रुमिलो नाम राजकः ।कलावती तस्य पत्नी बन्ध्या चापि पतिव्रता” ॥
)श्रीराधामाता । सा तु वृषभानुपत्नी । इति ब्रह्म-वैवर्त्तपुराणम् ॥
अप्सरोविशेषः । यथा रतिस्तवकलावतीति श्लिष्टकाव्ये जयदेवः ।(कलाः चतुःषष्टिकलाः विद्यन्ते यस्याः । गङ्गा ।यथा, काशीखण्डे २९ । ४७ ।“कूटस्था करुणा कान्ता कूर्म्मयाना कलावती” ॥
)दीक्षाविशेषः । तस्याः क्रमो मन्त्रं विना लिख्यते ।शिष्यः पूर्व्वमुपोषितः कृतनित्यक्रियः स्वस्तिवा-चनपूर्व्वकं सङ्कल्पं कुर्य्यात् । ततो गुरुं वृणुयात् ।अथ गुरुराचम्य द्वारदेशे सामान्यार्घ्यं कुर्य्यात् ।तदर्घ्यजलेन द्वारमभ्युक्ष्य द्वारपूजां कुर्य्यात् । ततोदक्षिणपादपुरःसरं द्वारवामशाखां स्पृशन् दक्षि-णाङ्गं सङ्कोचयन् मण्डपान्तः प्रविश्य नैरृत्यांवास्तुपुरुषं ब्रह्माणञ्च संपूज्य देयमन्त्रेण दिव्य-दृष्ट्यावलोकनेन दिव्यान् विघ्नानुत्सार्य्य अस्त्रमन्त्रेणजलेनान्तरीक्षगान् विघ्नानुत्सार्य्य वामपार्ष्णिघात-त्रयेण भौमान् विघ्नानुत्सार्य्य सप्तधास्त्रमन्त्राभि-मन्त्रितविकिरानादाय भूतनिवारणार्थमन्त्रेणतान् विकिरेत् । तत आसनशुद्धिं कृत्वा मन्त्रेणस्वस्तिकादिक्रमेणोपविशेत् । उपविश्य वा विघ्ना-नुत्सारयेत् । ततः पञ्चगव्येन मूलेन मण्डपं शोध-येत् । ततः स्वदक्षिणे पूजाद्रव्याणि वामे सुवा-सिताम्बुपूर्णकुम्भं हस्तप्रक्षालनार्थं पात्रमेकं पृष्ठ-देशे स्थापयेत् । सर्व्वदिक्षु घृतप्रदीपांश्च स्थाप-यित्वा पुटाञ्जलिर्भूत्वा वामे गुरुपरमगुरुपरा-परगुरून् प्रणम्य दक्षिणे गणेशं मध्ये स्वेष्टदेवताञ्चप्रणम्य अस्त्रमन्त्रेण गन्धपुष्पाभ्यां करौ संशोध्यऊर्द्ध्वोर्द्ध्वतालत्रयं दत्त्वा छोटिकाभिर्दशदिग्वग्धनंकृत्वा वह्निवीजेन जलधारया वह्निप्राकारं विचिन्त्यभूतशुद्धिं कुर्य्यात् । ततो मातृकान्यासः प्राणा-यामः पीठन्यासः ऋष्यादिन्यासः मन्त्रन्यासः ।ततो मुद्रां प्रदर्श्य ध्यानं भानसपूजां अर्घ्यस्थापनञ्चकुर्य्यात् । ततोऽर्घ्यपात्रात् किञ्चित् जलं प्रोक्षणी-पात्रे निक्षिप्य तेनोदकेनात्मानं पूजोपकरणञ्चमूलेन त्रिरभ्युक्ष्य पीठमन्त्रेण शरीरे धर्म्मादीन्पूजयेत् । ततो हृत्पद्मस्य पूर्व्वादिकेशरेषु पीठ-शक्तीः संपूज्य मध्ये पीठमनुं यजेत । तत्र हृदयेमूलदेवतां नैवेद्यं विना गन्धाद्यैः पूजयेत् । ततउत्तमाङ्गहृदयमूलाधारपादसर्व्वाङ्गेषु मूलेन पञ्च-पुष्पाञ्जलीन् दत्त्वा यथाशक्ति मन्त्रं जप्त्वा जपंसमर्पयेत् । सर्व्वमेतत् प्रोक्षणीपात्रस्थवारिणाविदध्यात् । ततः प्रोक्षण्यास्तोयं विसृज्य पूर्व्ववदा-पूर्य्य वहिःपूजामारभेत । तत्र शारदोक्तसर्व्वतोभद्र-मण्डलाद्यन्यतममण्डलं विधाय तत्र घटं संस्थाप्यमण्डलं संपूज्य शालिभिः कंर्णिकामापूर्य्य तदुपरितण्डुलानास्तीर्य्य तेषु दर्भानास्तीर्य्य विष्टरं चाक्षत-संयुक्तं तदुपरि न्यसेत् । तती मण्डले पीठोक्त-देवताः पूजयेत् । ततो मण्डले प्रादक्षिण्येन वह्ने-र्दशकला विन्यस्य पूजयेत् । ततो हेमादिरचितंकुम्भं अस्त्रमन्त्रेण प्रक्षाल्य चन्दनागुरुकर्पूरैर्धूप-यित्वा त्रिगुणतन्तुना संवेष्ट्य कुम्भं संपूज्य तत्रविष्टराक्षतं नवरत्नानि च प्रक्षिप्य प्रणवमुच्चरन्कुम्भपीठयोरैक्यं विभाव्य पीठे स्थापयेत् । कुम्भेप्रादक्षिण्येन सूर्य्यस्य द्वादशकला विन्यस्य संपू-जयेत् । ततः क्षीरिद्रुमकषायेण पलाशत्वग्मवेनवा तीर्थजलैर्व्वा सुवासितजलैर्व्वा आत्माभेदेनमातृकां मन्त्रञ्च प्रतिलोमतो जपन् पूरयेत् कुम्भंदेवताधिया । ततश्चंन्द्रस्यामृतादिषोडशकला जलेप्रादक्षिण्येन विचिन्त्य मन्त्रेण संपूज्य शङ्खान्तरंक्षीरिद्रुमकषायादिद्रव्येणापूर्य्य गन्धाष्टकं विलोड्यतस्मिन् जले सकलाः कला आवाह्य पूजयेत् ।तत्रादौ वह्नेर्दशकलाः पूजयेत् । ततो मूलमन्त्रंप्रतिलोमेन जपन् मन्त्रस्य देवतां मनसा ध्यायन्आसां प्राणप्रतिष्ठां कृत्वा गन्धादिभिः पूजयेत् ।ततः प्रत्येकेन् पूजयेत् । ततः सूर्य्यस्य तपिन्यादि-द्वादशकलाः आवाहनादिकं कृत्वा संपूज्य प्रत्येकंपूजयेत् । ततश्चन्द्रस्यामृतादिषोडशकलाः प्राण-प्रतिष्ठादिकं कृत्वा संपूज्य प्रत्येकेन पूजयेत् । ततःपञ्चाशत्कलाः पूजयेत् । यथा सृष्ट्यादिकचवर्ग-दशकलाः प्राणप्रतिष्ठादिकं कृत्वा पूर्व्ववत् संपूज्यप्रत्येकेन पूजयेत् । ततो जरादिटतवर्गदशकलाःप्राणप्रतिष्ठादिकं कृत्वा संपूज्य प्रत्येकेन पूजयेत् ।ततस्तीक्ष्णादिपयवर्गदशकलाः प्राणप्रतिष्ठादिकंकृत्वा संपूज्य प्रत्येकेन पूजयेत् । ततः पीतादिष-वर्गपञ्चकलाः (षं-सं-हं-कषं) प्राणप्रतिष्ठादिकंकृत्वा संपूज्य प्रत्येकेन पूजयेत् । ततो निवृत्त्यादि-अवर्गषोडकलाः प्राणप्रतिष्ठादिकं कृत्वा पूजयेत् ।शक्तश्चेत् प्रत्येकमावाह्य पाद्यादिभिः पूजयेत् ।ततः कलात्मकं तत्शङ्खस्थं क्वाथं कुम्भेनिःक्षिपेत् ।ततोऽश्वत्थपनसचूतपल्लवैरिन्द्रवल्लीवेष्टितैः कल्प-वृक्षबुद्ध्या कुम्भवक्त्रं पिधाय तस्मिन् वक्त्रे सफला-क्षतं चषकं कल्पवृक्षफलबुद्ध्या स्थापयेत् । ततःकुम्भं निर्म्मलेन क्षौमयुग्मेन संवेष्ट्य मूलेन कुम्भेमूर्त्तिं सङ्कल्प्य यथोक्तरूपेण देवतां ध्यात्वा तस्या-मावाहनादिकं कृत्वा पूजयेत् । देवताङ्गे अङ्गन्यासंकृत्वा धेनुमुद्रापरमीकरणमुद्रे प्रदर्श्य प्राणप्रतिष्ठांकृत्वा षोडशोपचारादिभिः पूजयेत् । ततोऽष्टो-त्तरं सहस्रं शतं वा संजप्य जपं समर्पयेत् । ततोमन्त्रस्य दशसंस्कारान् कृत्वा गुरुः शिष्यमानीयमन्त्रेण शिष्यनेत्रं वस्त्रेणाच्छाद्य शिष्याञ्जलिं पुष्पैःपूरयित्वा गुरुः स्वयमेव मन्त्रं जपन् कलसे देव-ताप्रीत्यै क्षिपेत् । ततो नेत्रबन्धनं दूरीकृत्य दर्भा-स्तरे आसीनं शिष्यं स्वकृतपूजाक्रमाद्भूतशुद्ध्या-दिकं विधाय तत्तन्मन्त्रोक्तन्यासान् शिष्यस्य देहेकुर्य्यात् । कुम्भस्थां देवतां पुनः पञ्चोपचारैःसंपूज्यालङ्कृतं शिष्यमन्यस्मिन्नुपवेशयेत् । ततोमङ्गलाचारपूर्व्वकं तत्कुम्भं समुद्धृत्य तन्मुखस्थान्सुरद्रुमरूपान् पल्लवान् शिष्यशिरसि निधायमातृकां मनसा जपन् मूलेन साधितैस्तोयैर्वशिष्ठ-संहितोक्ताभिषेकमन्त्रैस्तमभिषिञ्चेत् । शिष्योऽव-शिष्टजलेनाचभ्य वाससी परिधाय गुरोः सन्निधा-वुपविशेत् । ततस्तामेव गुरुरात्मनो देवतां शिष्य-संक्रान्तां तयोरैक्यं विभाव्य गन्धादिभिः पूजयेत् ।ततो मन्त्रेण शिष्यस्य शिखां बद्ध्वा संरक्ष्य शिष्य-शरीरे कलान्यासं कुर्य्यात् । ततः शिष्यशिरसिहस्तं दत्त्वा अष्टोत्तरशतं जप्त्वा अमुकमन्त्रं तेऽहंददामीति शिष्यहस्ते जलं दद्यात् । ददस्वेतिशिष्यो ब्रूयात् । तत ऋष्यादियुक्तं मन्त्रं गुरु-र्द्विजातीनां दक्षिणकर्णे त्रिः श्रावयेत् वामेसकृत् । स्त्रीशूद्राणां वामकर्णे त्रिः श्रावयेत्दक्षिणे सकृत् । ततः शिष्यो गुरुचरणे पतितएव तिष्ठेत् । ततो गुरुर्म्मन्त्रेण तमुत्थापयेत् ।ततः शिष्यो लब्धमन्त्रं अष्टोत्तरशतं जपेत् । ततःशिष्यः कुशतिलजलान्यादाय गुरवे दक्षिणां सुवर्णंकाञ्चनं वा दद्यात् । दीक्षाग्रहणसामग्रीश्च निवेदयेत् । अन्यांश्च ब्राह्मणान् परितोषयेत् । गुरुःस्वशक्तिरक्षणार्थाय अष्टाधिकं सहस्रं शतं वामन्त्रं जपेत् । ततः शिष्यो मिष्टान्नपानादिनाव्राह्मणान् परितोष्य स्वयं भुञ्जीत । दीक्षादिवसेगुरुशिष्ययोरुपवासे दोषः । इति तन्त्रसारोक्ताकलावतीदीक्षा समाप्ता ॥
वाचस्पत्यम्
Sanskritकलावती स्त्री शा० ति० ४ पटलोक्ते दीक्षाभेदे । स च“अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया । विवाऽनयान लभ्येत सर्व्वमन्त्रफलं ततः । ज्ञानं दिव्यं यतोदद्यात्कुर्य्यात् पापक्षयं यतः । तस्माद्दीक्षेति सा प्रोक्ता देशिकै-स्तन्त्रवेदिभिः । चतुर्विधा सा सन्दिष्टा क्रियावत्यादि-भेदतः । क्रियावती वर्ण्णमयो कलात्मा वेधवत्यपि ।ताः क्रमेणैव कथ्यन्ते तन्त्रेऽस्मिन् सम्पदावहाः” इत्युपक्रम्यदर्शिता । तत्र कलात्मा कलाशब्ददर्शितशारदातिलकोक्त-पञ्चाशत्कलावतीत्यर्थः । कलात्माप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
