| YouTube Channel

कलसः (kalasaH)

 
Apte Hindi
Hindi
कलसः
पुं*
- केन जलेन लसति- @ तारा*
"घड़ा जलपात्र, करवा, तश्तरी"
शब्दकल्पद्रुमः
Sanskrit
कलसः, त्रि, (केन जलेन लसति शोभते +लस् + अच् ।) कलशः घटः इति हेमचन्द्रः
द्रोणपरिमाणे,
पुं,
इति वैद्यकपरिभाषा
(“चतुर्भिराढकैर्द्रोणः कलसो नल्वणोर्म्मणः”
इति शार्ङ्गधरे पूर्व्वखण्डे अध्याये
“स एव कलसः ख्यातो घटस्तून्मानमेव च”
इति चरके कल्पस्थाने १२ अध्याये
)
कलसः,
पुं,
(केन जलेन लसतौति लस् + अच् ।)कुम्भः अस्योत्पत्त्यादिर्यथा, --“सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः ।पीयूषधारणार्थाय निर्म्मिता विश्वकर्म्मणा
कलाः कलास्तु देवानामसितास्ताः पृथक् पृथक् ।यतः कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः
नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत ।गोह्योपगोह्यो मरुतो मयूखश्च तथापरः
मनोहा कृषिभद्रश्च विजयस्तनुशोधकः ।इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्त्तितः
तेषामेव क्रमाद्भूप नव नामानि यानि तु ।शृणु तान्यपराण्येव शान्तिदानि सदैव हि
क्षितीन्द्रः प्रथमः प्रोक्तो द्वितोयो जलसम्भवः ।पवनाग्नी ततो द्वौ तु यजमानस्ततः परः ।कोषसम्भवनामा तु षष्ठः परिकीर्त्तितः
सोमस्तु सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः ।विजयो नाम कलसो योऽसौ नवम उच्यते
तु पञ्चमुखः प्रोक्तो महादेवस्वरूपधृक् ।घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा
यथा काष्ठास्थितः सम्यक् वामदेवादिनामतः ।मण्डलस्य पद्मान्तः पञ्चवक्त्रघटं न्यसेत्
क्षितीन्द्रं पूर्व्वतो न्यस्य पश्चिमे जलसम्भवम् ।वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम्
नैरृत्ये यजमानन्तु ऐश्यान्यां कोषसम्भवम् ।सोममुत्तरतो न्यस्य सौरं दक्षिणतो न्यसेत्
न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् ।कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः ।मूले तु संस्थितो विष्णुर्म्मध्ये मातृगणाः स्थिताः
दिक्पाला देवताः सर्व्वे वेष्टयन्ति दिशो दश ।कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः
नक्षत्राणि ग्रहाः सर्व्वे तथैव कुलपर्व्वताः ।गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव ।कलसे संस्थिताः सर्व्वे तेषु तानि विचिन्तयेत्
रत्नानि सर्व्ववीजानि पुष्पाणि फलानि
वज्रमौक्तिकवैदूर्य्यमहापद्मेन्द्रस्फाटिकैः ।सर्व्वधाममयं विल्वं नागरोडुम्बरं तथा
वीजपूरकजम्बीरकाम्राम्रातकदाडिमान् ।यवं शालिञ्च नीवारं गोधूमं सितसर्षपम्
कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा ।चदनञ्च तथा मांसीमेलां कुष्ठं तथैव
कर्पूरपत्रचण्डञ्च जलं निर्यासकाम्बुदम् ।शैलेयं वदरं जातीपत्रपुष्पे तथैव
कालशाकं तथा पृक्कां देवीं पर्णकमेव ।वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम्
दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम् ।पर्णानां शवलां क्षुद्रां सहदेवां गजाङ्कुशाम्
पूर्णकोषां सितां पाठां गुञ्जां सुरसिकालसौ ।व्यामकं गजदन्तञ्च शतपुष्पां पुनर्णवाम्
ब्राह्मीं देवीं शिवां रुद्रां सर्व्वसन्धानिकां तथा ।समाहृत्य शुभानेतान् कलसेषु निधापयेत्
कलसस्य यथा देवान् विधिं शम्भुं गदाधरम् ।यथाक्रमं पूजयित्वा शम्भुं मुख्यतया यजेत्
प्रासादेन तु मन्त्रेण शम्भुतन्त्रेण शङ्करम् ।प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः
दिक्पालानां धटेष्वेव दिक्पालानपि पूजयेत् ।पूब्बं वहिःस्थापितेषु ग्रहाणां कलसेषु
नवग्रहान् पूजयेत्तु मातॄर्मातृघटेषु ।सर्व्वे देवा घटे पूज्या घटस्तेषां पृथक् पृथक्
नवैव तत्र पूर्व्वोक्ताः स्मृता मुख्यतमा नृप ।भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः
यावकैः पायसैश्चापि यथासम्भवयोजितैः ।पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान्”
इति कालिकापुराणे पुष्याभिषेकः ८७ अ-ध्यायः
*
अन्यत् धारकशब्दे द्रष्ठव्यम्