| YouTube Channel

कलस (kalasa)

 
शब्दसागरः
English
कलस
mfn.
(-सः-सी-सं) A water-jar: see कलश.
m.
(-सः)
1. A measure, a
Drona: see द्रोण.
2. A rounded pinnacle or ball on the top of a
temple.
f.
(-सी) A plant: see कलशि, &c.
Capeller Eng
English
कलस v. कलश.
Yates
English
कलस (सः) 1.
m.
A water-jar
Wilson
English
कलस
mfn.
(-सः-सी-सं) A water jar: see कलश.
m.
(-सः)
1 A measure, a Droṇa: see द्रोण.
2 A rounded pinnacle or ball on the top of a temple.
f.
(-सी) A plant: see
कलशि, &c.
Monier Williams Cologne
English
कलस v.l. for कलश above.
Monier Williams 1872
English
कलस, अस्, ई, अम्, m. f. n. a pot, a water-jar
(अस्), m. a Droṇa measure
a rounded pinnacle or ball
on the top of a temple
(ई), f. the plant Hemionitis
Cordifolia.
—कलसोदधि (°स-उद्°), इस्, m. the
ocean.
Apte Hindi
Hindi
कलसः
पुं*
- केन जलेन लसति- @ तारा*
"घड़ा जलपात्र, करवा, तश्तरी"
कलसम्
नपुं*
- केन जलेन लसति- @ तारा*
"घड़ा जलपात्र, करवा, तश्तरी"
Shabdartha Kaustubha
Kannada
कलस
पदविभागः - > त्रिलिङ्गः
कन्नडार्थः - > ಕುಂಭ /ಕೊಡ /ಬಿಂದಿಗೆ /ಘಟ
निष्पत्तिः - > लस (श्लेषणक्रीडनयोः) - "अच्" (३-१-१३४)
व्युत्पत्तिः - > केन जलेन लसति
प्रयोगाः - > "कलसे निजहेतुदण्डजः किमु चक्रभ्रम कारितागुणः"
उल्लेखाः - > नैष० २-३२
विस्तारः - > "सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः पीयूषधारणार्थाय निर्मितो विश्वकर्मणा कलाः कलास्तु देवानामपि तास्ताः पृथक् पृथक् यतः कृतास्तु कलसाः ततस्ते परिकीर्तिताः ॥" - कालिकापु०
L R Vaidya
English
kalaSa(sa) {% m.n. %} A pitcher, a jar, a dish, Am.S.54, Bhartr.i.97, Yaj.i.208.
Bopp
Latin
कलस m. n. id. SU. 2. 18.
Indian Epigraphical Glossary
English
kalasa (CITD), a vase, flagon or water-pot
an orna-
mental piece of painted wood, stone, brass, etc., fixed on the
spires of temples, carts, etc.
a rounded pinnacle or ball on the
top of a temple
a dome.
(EI 5), the pinnacle of a temple
same as kumbha.
(EI 11, 33), a measure
cf. droṇa.
(SII 3), a pot.
(EI 33), also called kalasikā
probably, the same as droṇa
a measure of capacity.
अभिधानचिन्तामणिः
Sanskrit
--source--
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः
कुटः कुम्भः करीरश्च कलशः कलसो निपः १०१९
-wordlist-
स्थाली (स्त्री), उखा (स्त्री), पिठर (क्ली), कुण्ड (क्ली), चरु (पुं), कुम्भी (स्त्री), घट (पुंस्त्री), कुट (पुंस्त्री), कुम्भ (पुं), करीर (पुंक्ली), कलश (त्रि), कलस (त्रि), निप (पुंक्ली)
शब्दकल्पद्रुमः
Sanskrit
कलसः, त्रि, (केन जलेन लसति शोभते +लस् + अच् ।) कलशः घटः इति हेमचन्द्रः
द्रोणपरिमाणे,
पुं,
इति वैद्यकपरिभाषा
(“चतुर्भिराढकैर्द्रोणः कलसो नल्वणोर्म्मणः”
इति शार्ङ्गधरे पूर्व्वखण्डे अध्याये
“स एव कलसः ख्यातो घटस्तून्मानमेव च”
इति चरके कल्पस्थाने १२ अध्याये
)
कलसः,
पुं,
(केन जलेन लसतौति लस् + अच् ।)कुम्भः अस्योत्पत्त्यादिर्यथा, --“सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः ।पीयूषधारणार्थाय निर्म्मिता विश्वकर्म्मणा
कलाः कलास्तु देवानामसितास्ताः पृथक् पृथक् ।यतः कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः
नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत ।गोह्योपगोह्यो मरुतो मयूखश्च तथापरः
मनोहा कृषिभद्रश्च विजयस्तनुशोधकः ।इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्त्तितः
तेषामेव क्रमाद्भूप नव नामानि यानि तु ।शृणु तान्यपराण्येव शान्तिदानि सदैव हि
क्षितीन्द्रः प्रथमः प्रोक्तो द्वितोयो जलसम्भवः ।पवनाग्नी ततो द्वौ तु यजमानस्ततः परः ।कोषसम्भवनामा तु षष्ठः परिकीर्त्तितः
सोमस्तु सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः ।विजयो नाम कलसो योऽसौ नवम उच्यते
तु पञ्चमुखः प्रोक्तो महादेवस्वरूपधृक् ।घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा
यथा काष्ठास्थितः सम्यक् वामदेवादिनामतः ।मण्डलस्य पद्मान्तः पञ्चवक्त्रघटं न्यसेत्
क्षितीन्द्रं पूर्व्वतो न्यस्य पश्चिमे जलसम्भवम् ।वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम्
नैरृत्ये यजमानन्तु ऐश्यान्यां कोषसम्भवम् ।सोममुत्तरतो न्यस्य सौरं दक्षिणतो न्यसेत्
न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् ।कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः ।मूले तु संस्थितो विष्णुर्म्मध्ये मातृगणाः स्थिताः
दिक्पाला देवताः सर्व्वे वेष्टयन्ति दिशो दश ।कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः
नक्षत्राणि ग्रहाः सर्व्वे तथैव कुलपर्व्वताः ।गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव ।कलसे संस्थिताः सर्व्वे तेषु तानि विचिन्तयेत्
रत्नानि सर्व्ववीजानि पुष्पाणि फलानि
वज्रमौक्तिकवैदूर्य्यमहापद्मेन्द्रस्फाटिकैः ।सर्व्वधाममयं विल्वं नागरोडुम्बरं तथा
वीजपूरकजम्बीरकाम्राम्रातकदाडिमान् ।यवं शालिञ्च नीवारं गोधूमं सितसर्षपम्
कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा ।चदनञ्च तथा मांसीमेलां कुष्ठं तथैव
कर्पूरपत्रचण्डञ्च जलं निर्यासकाम्बुदम् ।शैलेयं वदरं जातीपत्रपुष्पे तथैव
कालशाकं तथा पृक्कां देवीं पर्णकमेव ।वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम्
दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम् ।पर्णानां शवलां क्षुद्रां सहदेवां गजाङ्कुशाम्
पूर्णकोषां सितां पाठां गुञ्जां सुरसिकालसौ ।व्यामकं गजदन्तञ्च शतपुष्पां पुनर्णवाम्
ब्राह्मीं देवीं शिवां रुद्रां सर्व्वसन्धानिकां तथा ।समाहृत्य शुभानेतान् कलसेषु निधापयेत्
कलसस्य यथा देवान् विधिं शम्भुं गदाधरम् ।यथाक्रमं पूजयित्वा शम्भुं मुख्यतया यजेत्
प्रासादेन तु मन्त्रेण शम्भुतन्त्रेण शङ्करम् ।प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः
दिक्पालानां धटेष्वेव दिक्पालानपि पूजयेत् ।पूब्बं वहिःस्थापितेषु ग्रहाणां कलसेषु
नवग्रहान् पूजयेत्तु मातॄर्मातृघटेषु ।सर्व्वे देवा घटे पूज्या घटस्तेषां पृथक् पृथक्
नवैव तत्र पूर्व्वोक्ताः स्मृता मुख्यतमा नृप ।भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः
यावकैः पायसैश्चापि यथासम्भवयोजितैः ।पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान्”
इति कालिकापुराणे पुष्याभिषेकः ८७ अ-ध्यायः
*
अन्यत् धारकशब्दे द्रष्ठव्यम्
वाचस्पत्यम्
Sanskrit
कलस
पु०
केन जलेन लसति लस--अच् त० घटेहेमच० तन्नामनिरुक्तिः “कलां कलां गृहीत्वा तुदेवानां विश्वकूर्मणा निर्मितोऽयं वै यस्मात् कलसस्तेनकथ्यते” निर्वाणत० उक्ता “सागरे मथ्यमाने तु पीयूषाथंसुरासुरैः पीयूषधारणार्थाय निर्मितो विश्वकर्मणा ।कलाः कलास्तु देवानामपि तास्ताः पृथक् पृथक् यतःकृतास्तु कलसास्ततस्ते परिकीर्त्तिताः” कालि०
पु०
८७ अ०पृषो० साधनम् कर्मादौ स्थाप्यफलसमानमुक्तं शा० ति०यथा--“पञ्चाशदङ्गुलो, व्यासं उत्सेधः षोडशाङ्गुलः ।कलसानां प्रमाणन्तुमुखमष्टाङ्गुलं मतम् षट्त्रिंशदङ्गुलंकुम्भं विस्तारोन्नतिशालिनम् षोडशं द्वादशं वापि ततोन्यूनं कारयेत्” पुष्पाभिषेके कालिकापु० ८७ ।पुष्पाभिषेके स्थाप्यघटनामभेदस्तत्स्थापनप्रकारश्च तत्रै-वाध्याये यथा “नवैव कलसाः प्रोक्ता नामतस्तान्निबीधत ।गोह्योपगोह्यो मरुतो मयूखश्च तथाऽपरः मनोहा कृषि-भद्रश्च विजयस्तनुशोधकः इन्द्रियघ्नोऽथ विजयोनवमः परिकीर्त्तितः तेषामेव क्रमाद्भूप! नवनामानि यानि तु शृणु तान्यपराण्येव शान्तिदानिसदैव हि क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो जलस-म्भवः पवनाग्नी ततो द्वौ तु यजमानस्ततः परः ।कोषसम्भवनामा तु षष्ठः परिकीर्त्तितः सोमस्तुसप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः विजयो नामकलसो योऽसौ नवम उच्यते तु पञ्चमुखः प्रोक्तोमाहादेवस्वरूपधृक् घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयंतथा यथाकाष्ठं स्थितः सम्यक् वामदेवादिनामतः ।मण्डलस्य पद्मान्तः पञ्चवक्त्रघटं न्यसेत् क्षितीन्द्रंपूर्व्वतो न्यस्य पश्चिमे जलसम्भवम् वायव्ये वायवंन्यस्य आग्नेये ह्यग्निसम्भवम् नैरृत्ये यजमानन्तुऐशान्यां कोषसम्भवम् सोममुत्तरतो न्यस्यसौरं दक्षिणतो न्यसेत् न्यस्यैवं कलसांश्चैव तेषुचैतान् विचिन्तयेत् कलसानां मुखे ब्रह्मा ग्रीवायांशङ्करः स्थितः मूले तु संस्थितो विष्णुर्म्मध्ये मातृगणाःस्थिताः दिक्पाला देवताः सर्व्वे वेष्टयन्ति दिशोदश कुक्षौ तृ सागराः सप्त सप्त द्वीपाश्चसंस्थिताः नक्षत्राणि ग्रहाः सर्व्वे तथैव कुल-पर्व्वताः गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एवच कलसे संस्थिताः सर्व्वेतेषु तानि विचिन्तयेत् ।रत्नानि सर्व्ववीजानि पुष्पाणि फलानि वज्रमौक्तिकवैदूर्य्यमहापद्मेन्द्रस्फाटिकैः सर्व्वधाममयंविल्वं नागरोडुम्बरं तथा वीजपूरकजम्बीरकाम्रा-म्रातकदाडिमान् यवं शालिञ्च नीवारं गीधूमंसितसर्षपम् कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा ।चन्दनञ्च तथा मांसीमेलां कुष्ठं तथैव कर्पूरपत्रचण्डञ्च जलं निर्यासकाम्बुदम् शैलेयं वदरं जातोपत्रपुष्पे तथैव कालशाकं तथा पृक्वां देवीं पर्णकमेवच वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् ।दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम् पर्णालींसरलां क्षुद्रां सहदेवीं गजाङ्कुशाम् पूर्णकोषांसितां पाठां गुञ्जां सुरसिकालसौ व्यामकं गजदन्तञ्चशतपुष्पां पुनर्णवाम् ब्राह्मीं देवीं शिवां रुद्रां सर्व्वस-न्धानिकां तथा समाहृत्य शुभानेतान् कलसेषुनिधापयेत् कलसस्य यथा देवान् विधिं शम्भुंगदाधरम् यथाक्रमं पूजयित्वा शम्भुं मुख्यतयायजेत् प्रासादेन तु मन्त्रेण शम्भुतन्त्रेण शङ्करम् ।प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः” ।सर्व्वकर्म्मोपयोगिकलसस्थापनविधिः रुद्रकल्पे दर्शितो यथाॐ मूरसीतिमन्त्रेण मण्डलात्पूर्वस्यां दिशि भूमिस्पर्शः ।ॐ ओषधयः समवन्तेति तत्र धान्यपुञ्जीकरणम् ॐचित्पतिर्म्मा पुनात्विति सप्तभिर्द्दर्भपवित्रैः कलसपवित्री-करणम् आजिघ्रेति धान्यपुञ्जोपरि कलसस्थापनम् ।ॐ स्थिरोभवेति स्थिरीकरणम् मही द्यौरिति जलेनकलसपूरणम् या ओषधीरिति तत्र सर्वौषधिप्र-क्षेपः व्रीहयश्च इति धान्यम् हिरण्य-गर्भ इति हिरण्यम् अश्वत्थेव इति पञ्च पल्लवान् ।ॐ काण्डात्काण्डादिति दूर्वाः स्योना पृथिवीतिपञ्च सप्त वा मृदश्च दापयेत् धान्यमसीति पूर्णपात्रेधान्यनिधानम् पूर्णादर्वीति तस्यैव पूर्णपात्रस्य कलसो-परिनिधानम् याः फलिनीरिति पूर्णपात्रे नारि-केलादिफलस्थापनम् सुजात इति वासोयुग्मेन वास-सा वा पवित्रेण वा कलससंवेष्टनम् ततः कलसे गङ्गाद्या-वाहनम् “इमं मे गङ्गे! यमुने! सरस्वति! सिताऽसितेसरितौ! पावका नः सरस्वती अश्वावतीर्गोमतोः ।ॐ पञ्चनद्यः “प्रपद्ये वरुणं देवं यादसांपतिमीश्वरम् ।याचितं देहि मे तीर्थं सर्वपापापनुत्तये” “गङ्गे! त्वंसर्वतीर्थानामाश्रयोऽसि यतस्ततः यजमानाभिषेकार्थमेहिपाप विनाशय” “तापनि! यसुने! देवि! त्रिषुलोकेषु विश्रुते! यजमानाभिषेकार्थमेहि पापं विनाशय ।सरस्वति! नमस्तुभ्यं महेश्वरि! हरिप्रिये! यजमाना-भिषेकार्थमे हि पापं व्यपीह वै” इति मन्त्रैः कल-सस्य मुखे विष्णुरित्यादिकैः प्रसन्नोभव सर्वदेत्यन्तैर्मन्त्रै-श्चावाहनम् मनोजूतिरितिमन्त्रान्ते “कलस! सुप्र-तिष्ठितोभवेति प्रतिष्ठा ततोगन्धादिभिः कलसपूजनम्” ।अत्र प्रतीकमात्रं प्रदर्शितम् समग्रमन्त्राश्च मत्कृततुलादानादिपद्धतौ २२ पृष्ठादौ ज्ञेयाः ।अत्र शाखिभेदात् मन्त्रभेदास्तु तत्तद्ग्रन्थेऽवधेयाःनवरात्रे कलसस्थापने विशेषः नि० सि० उक्तो यथा ।भार्गवार्चनदीपिकायां देवीपुराणे “त्वाष्ट्रवैधृतियुक्ताचेत् प्रतिपन्नाम्बिकार्चने तयोरन्ते विधातव्य कल-सारोपणं गुहेति” चित्रावैधृतियुतापि द्विती-यायुता चेत् सैव ग्राह्येत्युक्तं दुर्गोत्सवे “भद्रान्विता चेत्प्रतिपत्तु लभ्यते विरुद्धयोगैरपि सङ्गता सती सैवा-पराह्णे विबुधैर्विधेया स्त्रीपुत्रराज्यादिविवृद्धिहेतुरिति” ।यदा तु वैधृत्यादिपरिहारेण प्रतिपन्न लभ्यते ।तदोक्तं तत्रैव कात्यायनेन “प्रतिपद्याश्विने मासिभवेत् वैधृतिचित्रयोः आद्यपादौ परित्यज्य प्रारभेन्न-वरात्रकमिति” भविष्येऽपि चित्रावैधृतिसंपूर्णा-प्रतिपच्चेद्भवेन्नृप! त्याज्या अंशास्त्रयस्त्वाद्यास्तुरीये-ऽंशे तु पूजनमिति” रुद्रयामलेऽपि “वैधृतौ पुत्रनाशः स्याच्चित्रायां धननाशनम् तस्मान्न स्थापये-त्कुम्भं चित्रायां वैधृतौ तथा संपूर्णा प्रतिपद्देव!चित्रायुक्ता यदा भवेत् वैधृत्या वापि युक्ता स्यात्तदामध्यन्दिने रवौ अभिजित्तु मुहूर्त्तं यत्तत्र स्थापनमिष्यते” ।“इदं कलसस्थापनं रात्रौ कार्य्यम् “न रात्रौ स्थापनंकार्य्यं कुम्भामिषेचनमिति” मात्स्योक्तेः “भास्क-रोदयमारभ्य यावत्तु दश नाडिकाः प्रातः कालइति प्रोक्तः स्थापनारोपणादिषु” इति विष्णुधर्मोक्तेश्च ।रुद्रयामले “स्नानं माङ्गलिकं कृत्वा ततो देवींप्रपूजयेत् शुभाभिर्मृत्तिकाभिश्च पूर्वं कृत्वा तु वेदि-काम् यवान्वै वापयेत्तत्र गोधूमैश्चापि संयुतान् ।तत्र संस्थापयेत्कुम्भं विधिना मन्त्रपूर्वकम् सौवर्णंराजतं वापि ताम्रं मृण्मयमेव वेति” “कलसंजलसंभृतं पुरः” नैष०
Capeller
German
कलस
m.
s. कलश.
Burnouf
French
कलस कलस
m.
n.
कलसि et कलसी
f.
mms.
Stchoupak
French
कलस-
कलसि- = कलश- कलशि-।