| YouTube Channel

कलशिः (kalaziH)

 
Wordnet
Sanskrit
Synonyms:
पृश्निपर्णिका, पृश्निपर्णी, पृथक्पर्णी, चित्रपर्णी, अङ्घ्रिवल्लिका, क्रोष्टुविन्ना, सिंहपुच्छी, कलशिः, धावनिः, गुहा, पृष्णिपर्णी, लाङ्गली, क्रोष्टुपुच्छिका, पूर्णपर्णी, कलशी, क्रोष्टुकमेखला, दीर्घा, शृगालवृन्ता, त्रिपर्णी, सिंहपुच्छिका, सिंहपुष्पी, दीर्घपत्रा, अतिगुहा, घृष्ठिला, चित्रपर्णिका, महागुहा, शृगालविन्ना, धमनी, धामनी, मेखला, लाङ्गूलिका, लाङ्गूली, लाङ्गूलिकी, पृष्टिपर्णी, पृष्टपर्णी, दीर्घपर्णी, अङ्घ्रिपर्णी, धावनी, खरगन्धा, खरगन्धनिभा, गोरक्षतण्डुला, चतुष्फला, झषा, धावनी, नागबला, महागन्धा, महापत्त्रा, महाशाखा, महोदया, विश्वदेवा, विश्वेदेवा, ह्रस्वगवेधुका, घण्टा, घोण्टाफल, गोरक्षतण्डुल, गाङ्गेरुकी, गोलोमिका, द्युतिला, ब्रह्मपर्णी, रसालिहा, शीर्णनाला, सुमूला, खगशत्रुः, श्वपुच्छम्
noun
औषधोपयोगी लताविशेषः।
"पृश्निपर्णिकायाः श्वेतवर्णयुक्तं वर्तुलाकाररूपं पुष्पं भवति।"
Synonyms:
कलशिः, गर्गरी
noun
जलस्य मृत्तिकायाः लघुपात्रम्।
"तेन कलश्यां जलम् आनीतम्।"
शब्दकल्पद्रुमः
Sanskrit
कलशिः,
स्त्री,
(कलं शरीरमालिन्यं श्यति नाशयति ।कल + शो + बाहुलकात् इन् कं जलं लातिआदत्तेतथा सती शीर्य्यते कल + शॄ + डिः ।)पृश्निपर्णी चाकुलिया इति भाषा इत्यमरः ।२ ९३
(पृश्निपर्णीशब्देऽस्या गुणावलो ज्ञा-तव्या
) घटः इत्यमरटीकायां रायमुकुटः
यथा, माघे ११ ।“कलशिमुदधिगुर्व्वीं वल्लवा लोडयन्ति”
)